Mahabharata

Shalya Parva, Adhyaya 50

Containing 51 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shalya Parva, Adhyaya 50, Verse 1

यत्रेजिवानुडुपती राजसूयेन भारत

तस्मिन्वृत्ते महानासीत्संग्रामस्तारकामयः

Mahabharata

Shalya Parva, Adhyaya 50, Verse 2

तत्राप्युपस्पृश्य बलो दत्त्वा दानानि चात्मवान्

सारस्वतस्य धर्मात्मा मुनेस्तीर्थं जगाम ह

Mahabharata

Shalya Parva, Adhyaya 50, Verse 3

यत्र द्वादशवार्षिक्यामनावृष्ट्यां द्विजोत्तमान्

वेदानध्यापयामास पुरा सारस्वतो मुनिः

Mahabharata

Shalya Parva, Adhyaya 50, Verse 4

कथं द्वादशवार्षिक्यामनावृष्ट्यां तपोधनः

वेदानध्यापयामास पुरा सारस्वतो मुनिः

Mahabharata

Shalya Parva, Adhyaya 50, Verse 5

आसीत्पूर्वं महाराज मुनिर्धीमान्महातपाः

दधीच इति विख्यातो ब्रह्मचारी जितेन्द्रियः

Mahabharata

Shalya Parva, Adhyaya 50, Verse 6

तस्यातितपसः शक्रो बिभेति सततं विभो

न स लोभयितुं शक्यः फलैर्बहुविधैरपि

Mahabharata

Shalya Parva, Adhyaya 50, Verse 7

प्रलोभनार्थं तस्याथ प्राहिणोत्पाकशासनः

दिव्यामप्सरसं पुण्यां दर्शनीयामलम्बुसाम्

Mahabharata

Shalya Parva, Adhyaya 50, Verse 8

तस्य तर्पयतो देवान्सरस्वत्यां महात्मनः

समीपतो महाराज सोपातिष्ठत भामिनी

Mahabharata

Shalya Parva, Adhyaya 50, Verse 9

तां दिव्यवपुषं दृष्ट्वा तस्यर्षेर्भावितात्मनः

रेतः स्कन्नं सरस्वत्यां तत्सा जग्राह निम्नगा

Mahabharata

Shalya Parva, Adhyaya 50, Verse 10

कुक्षौ चाप्यदधद्दृष्ट्वा तद्रेतः पुरुषर्षभ

सा दधार च तं गर्भं पुत्रहेतोर्महानदी

Mahabharata

Shalya Parva, Adhyaya 50, Verse 11

सुषुवे चापि समये पुत्रं सा सरितां वरा

जगाम पुत्रमादाय तमृषिं प्रति च प्रभो

Mahabharata

Shalya Parva, Adhyaya 50, Verse 12

ऋषिसंसदि तं दृष्ट्वा सा नदी मुनिसत्तमम्

ततः प्रोवाच राजेन्द्र ददती पुत्रमस्य तम्

ब्रह्मर्षे तव पुत्रोऽयं त्वद्भक्त्या धारितो मया

Mahabharata

Shalya Parva, Adhyaya 50, Verse 13

दृष्ट्वा तेऽप्सरसं रेतो यत्स्कन्नं प्रागलम्बुसाम्

तत्कुक्षिणा वै ब्रह्मर्षे त्वद्भक्त्या धृतवत्यहम्

Mahabharata

Shalya Parva, Adhyaya 50, Verse 14

न विनाशमिदं गच्छेत्त्वत्तेज इति निश्चयात्

प्रतिगृह्णीष्व पुत्रं स्वं मया दत्तमनिन्दितम्

Mahabharata

Shalya Parva, Adhyaya 50, Verse 15

इत्युक्तः प्रतिजग्राह प्रीतिं चावाप उत्तमाम्

मन्त्रवच्चोपजिघ्रत्तं मूर्ध्नि प्रेम्णा द्विजोत्तमः

Mahabharata

Shalya Parva, Adhyaya 50, Verse 16

परिष्वज्य चिरं कालं तदा भरतसत्तम

सरस्वत्यै वरं प्रादात्प्रीयमाणो महामुनिः

Mahabharata

Shalya Parva, Adhyaya 50, Verse 17

विश्वे देवाः सपितरो गन्धर्वाप्सरसां गणाः

तृप्तिं यास्यन्ति सुभगे तर्प्यमाणास्तवाम्भसा

Mahabharata

Shalya Parva, Adhyaya 50, Verse 18

इत्युक्त्वा स तु तुष्टाव वचोभिर्वै महानदीम्

प्रीतः परमहृष्टात्मा यथावच्छृणु पार्थिव

Mahabharata

Shalya Parva, Adhyaya 50, Verse 19

प्रसृतासि महाभागे सरसो ब्रह्मणः पुरा

जानन्ति त्वां सरिच्छ्रेष्ठे मुनयः संशितव्रताः

Mahabharata

Shalya Parva, Adhyaya 50, Verse 20

मम प्रियकरी चापि सततं प्रियदर्शने

तस्मात्सारस्वतः पुत्रो महांस्ते वरवर्णिनि

Mahabharata

Shalya Parva, Adhyaya 50, Verse 21

तवैव नाम्ना प्रथितः पुत्रस्ते लोकभावनः

सारस्वत इति ख्यातो भविष्यति महातपाः

Mahabharata

Shalya Parva, Adhyaya 50, Verse 22

एष द्वादशवार्षिक्यामनावृष्ट्यां द्विजर्षभान्

सारस्वतो महाभागे वेदानध्यापयिष्यति

Mahabharata

Shalya Parva, Adhyaya 50, Verse 23

पुण्याभ्यश्च सरिद्भ्यस्त्वं सदा पुण्यतमा शुभे

भविष्यसि महाभागे मत्प्रसादात्सरस्वति

Mahabharata

Shalya Parva, Adhyaya 50, Verse 24

एवं सा संस्तुता तेन वरं लब्ध्वा महानदी

पुत्रमादाय मुदिता जगाम भरतर्षभ

Mahabharata

Shalya Parva, Adhyaya 50, Verse 25

एतस्मिन्नेव काले तु विरोधे देवदानवैः

शक्रः प्रहरणान्वेषी लोकांस्त्रीन्विचचार ह

Mahabharata

Shalya Parva, Adhyaya 50, Verse 26

न चोपलेभे भगवाञ्शक्रः प्रहरणं तदा

यद्वै तेषां भवेद्योग्यं वधाय विबुधद्विषाम्

Mahabharata

Shalya Parva, Adhyaya 50, Verse 27

ततोऽब्रवीत्सुराञ्शक्रो न मे शक्या महासुराः

ऋतेऽस्थिभिर्दधीचस्य निहन्तुं त्रिदशद्विषः

Mahabharata

Shalya Parva, Adhyaya 50, Verse 28

तस्माद्गत्वा ऋषिश्रेष्ठो याच्यतां सुरसत्तमाः

दधीचास्थीनि देहीति तैर्वधिष्यामहे रिपून्

Mahabharata

Shalya Parva, Adhyaya 50, Verse 29

स देवैर्याचितोऽस्थीनि यत्नादृषिवरस्तदा

प्राणत्यागं कुरुष्वेति चकारैवाविचारयन्

स लोकानक्षयान्प्राप्तो देवप्रियकरस्तदा

Mahabharata

Shalya Parva, Adhyaya 50, Verse 30

तस्यास्थिभिरथो शक्रः संप्रहृष्टमनास्तदा

कारयामास दिव्यानि नानाप्रहरणान्युत

वज्राणि चक्राणि गदा गुरुदण्डांश्च पुष्कलान्