Shalya Parva, Adhyaya 49, Verse 1
तस्मिन्नेव तु धर्मात्मा वसति स्म तपोधनः
गार्हस्थ्यं धर्ममास्थाय असितो देवलः पुरा
Containing 65 sacred Sanskrit shlokas with multi-author commentaries and translations.
तस्मिन्नेव तु धर्मात्मा वसति स्म तपोधनः
गार्हस्थ्यं धर्ममास्थाय असितो देवलः पुरा
धर्मनित्यः शुचिर्दान्तो न्यस्तदण्डो महातपाः
कर्मणा मनसा वाचा समः सर्वेषु जन्तुषु
अक्रोधनो महाराज तुल्यनिन्दाप्रियाप्रियः
काञ्चने लोष्टके चैव समदर्शी महातपाः
देवताः पूजयन्नित्यमतिथींश्च द्विजैः सह
ब्रह्मचर्यरतो नित्यं सदा धर्मपरायणः
ततोऽभ्येत्य महाराज योगमास्थाय भिक्षुकः
जैगीषव्यो मुनिर्धीमांस्तस्मिंस्तीर्थे समाहितः
देवलस्याश्रमे राजन्न्यवसत्स महाद्युतिः
योगनित्यो महाराज सिद्धिं प्राप्तो महातपाः
तं तत्र वसमानं तु जैगीषव्यं महामुनिम्
देवलो दर्शयन्नेव नैवायुञ्जत धर्मतः
एवं तयोर्महाराज दीर्घकालो व्यतिक्रमत्
जैगीषव्यं मुनिं चैव न ददर्शाथ देवलः
आहारकाले मतिमान्परिव्राड्जनमेजय
उपातिष्ठत धर्मज्ञो भैक्षकाले स देवलम्
स दृष्ट्वा भिक्षुरूपेण प्राप्तं तत्र महामुनिम्
गौरवं परमं चक्रे प्रीतिं च विपुलां तथा
देवलस्तु यथाशक्ति पूजयामास भारत
ऋषिदृष्टेन विधिना समा बह्व्यः समाहितः
कदाचित्तस्य नृपते देवलस्य महात्मनः
चिन्ता सुमहती जाता मुनिं दृष्ट्वा महाद्युतिम्
समास्तु समतिक्रान्ता बह्व्यः पूजयतो मम
न चायमलसो भिक्षुरभ्यभाषत किंचन
एवं विगणयन्नेव स जगाम महोदधिम्
अन्तरिक्षचरः श्रीमान्कलशं गृह्य देवलः
गच्छन्नेव स धर्मात्मा समुद्रं सरितां पतिम्
जैगीषव्यं ततोऽपश्यद्गतं प्रागेव भारत
ततः सविस्मयश्चिन्तां जगामाथासितः प्रभुः
कथं भिक्षुरयं प्राप्तः समुद्रे स्नात एव च
इत्येवं चिन्तयामास महर्षिरसितस्तदा
स्नात्वा समुद्रे विधिवच्छुचिर्जप्यं जजाप ह
कृतजप्याह्निकः श्रीमानाश्रमं च जगाम ह
कलशं जलपूर्णं वै गृहीत्वा जनमेजय
ततः स प्रविशन्नेव स्वमाश्रमपदं मुनिः
आसीनमाश्रमे तत्र जैगीषव्यमपश्यत
न व्याहरति चैवैनं जैगीषव्यः कथंचन
काष्ठभूतोऽऽश्रमपदे वसति स्म महातपाः
तं दृष्ट्वा चाप्लुतं तोये सागरे सागरोपमम्
प्रविष्टमाश्रमं चापि पूर्वमेव ददर्श सः
असितो देवलो राजंश्चिन्तयामास बुद्धिमान्
दृष्टः प्रभावं तपसो जैगीषव्यस्य योगजम्
चिन्तयामास राजेन्द्र तदा स मुनिसत्तमः
मया दृष्टः समुद्रे च आश्रमे च कथं त्वयम्
एवं विगणयन्नेव स मुनिर्मन्त्रपारगः
उत्पपाताश्रमात्तस्मादन्तरिक्षं विशां पते
जिज्ञासार्थं तदा भिक्षोर्जैगीषव्यस्य देवलः
सोऽन्तरिक्षचरान्सिद्धान्समपश्यत्समाहितान्
जैगीषव्यं च तैः सिद्धैः पूज्यमानमपश्यत
ततोऽसितः सुसंरब्धो व्यवसायी दृढव्रतः
अपश्यद्वै दिवं यान्तं जैगीषव्यं स देवलः
तस्माच्च पितृलोकं तं व्रजन्तं सोऽन्वपश्यत
पितृलोकाच्च तं यान्तं याम्यं लोकमपश्यत
तस्मादपि समुत्पत्य सोमलोकमभिष्टुतम्
व्रजन्तमन्वपश्यत्स जैगीषव्यं महामुनिम्
लोकान्समुत्पतन्तं च शुभानेकान्तयाजिनाम्
ततोऽग्निहोत्रिणां लोकांस्तेभ्यश्चाप्युत्पपात ह
दर्शं च पौर्णमासं च ये यजन्ति तपोधनाः
तेभ्यः स ददृशे धीमाँल्लोकेभ्यः पशुयाजिनाम्
व्रजन्तं लोकममलमपश्यद्देवपूजितम्