Mahabharata

Shalya Parva, Adhyaya 48

Containing 23 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shalya Parva, Adhyaya 48, Verse 1

इन्द्रतीर्थं ततो गत्वा यदूनां प्रवरो बली

विप्रेभ्यो धनरत्नानि ददौ स्नात्वा यथाविधि

Mahabharata

Shalya Parva, Adhyaya 48, Verse 2

तत्र ह्यमरराजोऽसावीजे क्रतुशतेन ह

बृहस्पतेश्च देवेशः प्रददौ विपुलं धनम्

Mahabharata

Shalya Parva, Adhyaya 48, Verse 3

निरर्गलान्सजारूथ्यान्सर्वान्विविधदक्षिणान्

आजहार क्रतूंस्तत्र यथोक्तान्वेदपारगैः

Mahabharata

Shalya Parva, Adhyaya 48, Verse 4

तान्क्रतून्भरतश्रेष्ठ शतकृत्वो महाद्युतिः

पूरयामास विधिवत्ततः ख्यातः शतक्रतुः

Mahabharata

Shalya Parva, Adhyaya 48, Verse 5

तस्य नाम्ना च तत्तीर्थं शिवं पुण्यं सनातनम्

इन्द्रतीर्थमिति ख्यातं सर्वपापप्रमोचनम्

Mahabharata

Shalya Parva, Adhyaya 48, Verse 6

उपस्पृश्य च तत्रापि विधिवन्मुसलायुधः

ब्राह्मणान्पूजयित्वा च पानाच्छादनभोजनैः

शुभं तीर्थवरं तस्माद्रामतीर्थं जगाम ह

Mahabharata

Shalya Parva, Adhyaya 48, Verse 7

यत्र रामो महाभागो भार्गवः सुमहातपाः

असकृत्पृथिवीं सर्वां हतक्षत्रियपुंगवाम्

Mahabharata

Shalya Parva, Adhyaya 48, Verse 8

उपाध्यायं पुरस्कृत्य कश्यपं मुनिसत्तमम्

अयजद्वाजपेयेन सोऽश्वमेधशतेन च

प्रददौ दक्षिणार्थं च पृथिवीं वै ससागराम्

Mahabharata

Shalya Parva, Adhyaya 48, Verse 9

रामो दत्त्वा धनं तत्र द्विजेभ्यो जनमेजय

उपस्पृश्य यथान्यायं पूजयित्वा तथा द्विजान्

Mahabharata

Shalya Parva, Adhyaya 48, Verse 10

पुण्ये तीर्थे शुभे देशे वसु दत्त्वा शुभाननः

मुनींश्चैवाभिवाद्याथ यमुनातीर्थमागमत्

Mahabharata

Shalya Parva, Adhyaya 48, Verse 11

यत्रानयामास तदा राजसूयं महीपते

पुत्रोऽदितेर्महाभागो वरुणो वै सितप्रभः

Mahabharata

Shalya Parva, Adhyaya 48, Verse 12

तत्र निर्जित्य संग्रामे मानुषान्दैवतांस्तथा

वरं क्रतुं समाजह्रे वरुणः परवीरहा

Mahabharata

Shalya Parva, Adhyaya 48, Verse 13

तस्मिन्क्रतुवरे वृत्ते संग्रामः समजायत

देवानां दानवानां च त्रैलोक्यस्य क्षयावहः

Mahabharata

Shalya Parva, Adhyaya 48, Verse 14

राजसूये क्रतुश्रेष्ठे निवृत्ते जनमेजय

जायते सुमहाघोरः संग्रामः क्षत्रियान्प्रति

Mahabharata

Shalya Parva, Adhyaya 48, Verse 15

सीरायुधस्तदा रामस्तस्मिंस्तीर्थवरे तदा

तत्र स्नात्वा च दत्त्वा च द्विजेभ्यो वसु माधवः

Mahabharata

Shalya Parva, Adhyaya 48, Verse 16

वनमाली ततो हृष्टः स्तूयमानो द्विजातिभिः

तस्मादादित्यतीर्थं च जगाम कमलेक्षणः

Mahabharata

Shalya Parva, Adhyaya 48, Verse 17

यत्रेष्ट्वा भगवाञ्ज्योतिर्भास्करो राजसत्तम

ज्योतिषामाधिपत्यं च प्रभावं चाभ्यपद्यत

Mahabharata

Shalya Parva, Adhyaya 48, Verse 18

तस्या नद्यास्तु तीरे वै सर्वे देवाः सवासवाः

विश्वेदेवाः समरुतो गन्धर्वाप्सरसश्च ह

Mahabharata

Shalya Parva, Adhyaya 48, Verse 19

द्वैपायनः शुकश्चैव कृष्णश्च मधुसूदनः

यक्षाश्च राक्षसाश्चैव पिशाचाश्च विशां पते

Mahabharata

Shalya Parva, Adhyaya 48, Verse 20

एते चान्ये च बहवो योगसिद्धाः सहस्रशः

तस्मिंस्तीर्थे सरस्वत्याः शिवे पुण्ये परंतप

Mahabharata

Shalya Parva, Adhyaya 48, Verse 21

तत्र हत्वा पुरा विष्णुरसुरौ मधुकैटभौ

आप्लुतो भरतश्रेष्ठ तीर्थप्रवर उत्तमे

Mahabharata

Shalya Parva, Adhyaya 48, Verse 22

द्वैपायनश्च धर्मात्मा तत्रैवाप्लुत्य भारत

संप्राप्तः परमं योगं सिद्धिं च परमां गतः

Mahabharata

Shalya Parva, Adhyaya 48, Verse 23

असितो देवलश्चैव तस्मिन्नेव महातपाः

परमं योगमास्थाय ऋषिर्योगमवाप्तवान्