Shalya Parva, Adhyaya 47, Verse 1
ततस्तीर्थवरं रामो ययौ बदरपाचनम्
तपस्विसिद्धचरितं यत्र कन्या धृतव्रता
Containing 61 sacred Sanskrit shlokas with multi-author commentaries and translations.
ततस्तीर्थवरं रामो ययौ बदरपाचनम्
तपस्विसिद्धचरितं यत्र कन्या धृतव्रता
भरद्वाजस्य दुहिता रूपेणाप्रतिमा भुवि
स्रुचावती नाम विभो कुमारी ब्रह्मचारिणी
तपश्चचार सात्युग्रं नियमैर्बहुभिर्नृप
भर्ता मे देवराजः स्यादिति निश्चित्य भामिनी
समास्तस्या व्यतिक्रान्ता बह्व्यः कुरुकुलोद्वह
चरन्त्या नियमांस्तांस्तान्स्त्रीभिस्तीव्रान्सुदुश्चरान्
तस्यास्तु तेन वृत्तेन तपसा च विशां पते
भक्त्या च भगवान्प्रीतः परया पाकशासनः
आजगामाश्रमं तस्यास्त्रिदशाधिपतिः प्रभुः
आस्थाय रूपं विप्रर्षेर्वसिष्ठस्य महात्मनः
सा तं दृष्ट्वोग्रतपसं वसिष्ठं तपतां वरम्
आचारैर्मुनिभिर्दृष्टैः पूजयामास भारत
उवाच नियमज्ञा च कल्याणी सा प्रियंवदा
भगवन्मुनिशार्दूल किमाज्ञापयसि प्रभो
सर्वमद्य यथाशक्ति तव दास्यामि सुव्रत
शक्रभक्त्या तु ते पाणिं न दास्यामि कथंचन
व्रतैश्च नियमैश्चैव तपसा च तपोधन
शक्रस्तोषयितव्यो वै मया त्रिभुवनेश्वरः
इत्युक्तो भगवान्देवः स्मयन्निव निरीक्ष्य ताम्
उवाच नियमज्ञां तां सान्त्वयन्निव भारत
उग्रं तपश्चरसि वै विदिता मेऽसि सुव्रते
यदर्थमयमारम्भस्तव कल्याणि हृद्गतः
तच्च सर्वं यथाभूतं भविष्यति वरानने
तपसा लभ्यते सर्वं सर्वं तपसि तिष्ठति
यानि स्थानानि दिव्यानि विबुधानां शुभानने
तपसा तानि प्राप्यानि तपोमूलं महत्सुखम्
इह कृत्वा तपो घोरं देहं संन्यस्य मानवाः
देवत्वं यान्ति कल्याणि शृणु चेदं वचो मम
पचस्वैतानि सुभगे बदराणि शुभव्रते
पचेत्युक्त्वा स भगवाञ्जगाम बलसूदनः
आमन्त्र्य तां तु कल्याणीं ततो जप्यं जजाप सः
अविदूरे ततस्तस्मादाश्रमात्तीर्थ उत्तमे
इन्द्रतीर्थे महाराज त्रिषु लोकेषु विश्रुते
तस्या जिज्ञासनार्थं स भगवान्पाकशासनः
बदराणामपचनं चकार विबुधाधिपः
ततः स प्रयता राजन्वाग्यता विगतक्लमा
तत्परा शुचिसंवीता पावके समधिश्रयत्
अपचद्राजशार्दूल बदराणि महाव्रता
तस्याः पचन्त्याः सुमहान्कालोऽगात्पुरुषर्षभ
न च स्म तान्यपच्यन्त दिनं च क्षयमभ्यगात्
हुताशनेन दग्धश्च यस्तस्याः काष्ठसंचयः
अकाष्ठमग्निं सा दृष्ट्वा स्वशरीरमथादहत्
पादौ प्रक्षिप्य सा पूर्वं पावके चारुदर्शना
दग्धौ दग्धौ पुनः पादावुपावर्तयतानघा
चरणौ दह्यमानौ च नाचिन्तयदनिन्दिता
दुःखं कमलपत्राक्षी महर्षेः प्रियकाम्यया
अथ तत्कर्म दृष्ट्वास्याः प्रीतस्त्रिभुवनेश्वरः
ततः संदर्शयामास कन्यायै रूपमात्मनः
उवाच च सुरश्रेष्ठस्तां कन्यां सुदृढव्रताम्
प्रीतोऽस्मि ते शुभे भक्त्या तपसा नियमेन च
तस्माद्योऽभिमतः कामः स ते संपत्स्यते शुभे
देहं त्यक्त्वा महाभागे त्रिदिवे मयि वत्स्यसि
इदं च ते तीर्थवरं स्थिरं लोके भविष्यति
सर्वपापापहं सुभ्रु नाम्ना बदरपाचनम्
विख्यातं त्रिषु लोकेषु ब्रह्मर्षिभिरभिप्लुतम्
अस्मिन्खलु महाभागे शुभे तीर्थवरे पुरा
त्यक्त्वा सप्तर्षयो जग्मुर्हिमवन्तमरुन्धतीम्
ततस्ते वै महाभागा गत्वा तत्र सुसंशिताः
वृत्त्यर्थं फलमूलानि समाहर्तुं ययुः किल
तेषां वृत्त्यर्थिनां तत्र वसतां हिमवद्वने
अनावृष्टिरनुप्राप्ता तदा द्वादशवार्षिकी