Shalya Parva, Adhyaya 46, Verse 1
अत्यद्भुतमिदं ब्रह्मञ्श्रुतवानस्मि तत्त्वतः
अभिषेकं कुमारस्य विस्तरेण यथाविधि
Containing 29 sacred Sanskrit shlokas with multi-author commentaries and translations.
अत्यद्भुतमिदं ब्रह्मञ्श्रुतवानस्मि तत्त्वतः
अभिषेकं कुमारस्य विस्तरेण यथाविधि
यच्छ्रुत्वा पूतमात्मानं विजानामि तपोधन
प्रहृष्टानि च रोमाणि प्रसन्नं च मनो मम
अभिषेकं कुमारस्य दैत्यानां च वधं तथा
श्रुत्वा मे परमा प्रीतिर्भूयः कौतूहलं हि मे
अपां पतिः कथं ह्यस्मिन्नभिषिक्तः सुरासुरैः
तन्मे ब्रूहि महाप्राज्ञ कुशलो ह्यसि सत्तम
शृणु राजन्निदं चित्रं पूर्वकल्पे यथातथम्
आदौ कृतयुगे तस्मिन्वर्तमाने यथाविधि
वरुणं देवताः सर्वाः समेत्येदमथाब्रुवन्
यथास्मान्सुरराट्शक्रो भयेभ्यः पाति सर्वदा
तथा त्वमपि सर्वासां सरितां वै पतिर्भव
वासश्च ते सदा देव सागरे मकरालये
समुद्रोऽयं तव वशे भविष्यति नदीपतिः
सोमेन सार्धं च तव हानिवृद्धी भविष्यतः
एवमस्त्विति तान्देवान्वरुणो वाक्यमब्रवीत्
समागम्य ततः सर्वे वरुणं सागरालयम्
अपां पतिं प्रचक्रुर्हि विधिदृष्टेन कर्मणा
अभिषिच्य ततो देवा वरुणं यादसां पतिम्
जग्मुः स्वान्येव स्थानानि पूजयित्वा जलेश्वरम्
अभिषिक्तस्ततो देवैर्वरुणोऽपि महायशाः
सरितः सागरांश्चैव नदांश्चैव सरांसि च
पालयामास विधिना यथा देवाञ्शतक्रतुः
ततस्तत्राप्युपस्पृश्य दत्त्वा च विविधं वसु
अग्नितीर्थं महाप्राज्ञः स जगाम प्रलम्बहा
नष्टो न दृश्यते यत्र शमीगर्भे हुताशनः
लोकालोकविनाशे च प्रादुर्भूते तदानघ
उपतस्थुर्महात्मानं सर्वलोकपितामहम्
अग्निः प्रनष्टो भगवान्कारणं च न विद्महे
सर्वलोकक्षयो मा भूत्संपादयतु नोऽनलम्
किमर्थं भगवानग्निः प्रनष्टो लोकभावनः
विज्ञातश्च कथं देवैस्तन्ममाचक्ष्व तत्त्वतः
भृगोः शापाद्भृशं भीतो जातवेदाः प्रतापवान्
शमीगर्भमथासाद्य ननाश भगवांस्ततः
प्रनष्टे तु तदा वह्नौ देवाः सर्वे सवासवाः
अन्वेषन्त तदा नष्टं ज्वलनं भृशदुःखिताः
ततोऽग्नितीर्थमासाद्य शमीगर्भस्थमेव हि
ददृशुर्ज्वलनं तत्र वसमानं यथाविधि
देवाः सर्वे नरव्याघ्र बृहस्पतिपुरोगमाः
ज्वलनं तं समासाद्य प्रीताभूवन्सवासवाः
पुनर्यथागतं जग्मुः सर्वभक्षश्च सोऽभवत्
भृगोः शापान्महीपाल यदुक्तं ब्रह्मवादिना
तत्राप्याप्लुत्य मतिमान्ब्रह्मयोनिं जगाम ह
ससर्ज भगवान्यत्र सर्वलोकपितामहः
तत्राप्लुत्य ततो ब्रह्मा सह देवैः प्रभुः पुरा
ससर्ज चान्नानि तथा देवतानां यथाविधि
तत्र स्नात्वा च दत्त्वा च वसूनि विविधानि च
कौबेरं प्रययौ तीर्थं तत्र तप्त्वा महत्तपः
धनाधिपत्यं संप्राप्तो राजन्नैलबिलः प्रभुः
तत्रस्थमेव तं राजन्धनानि निधयस्तथा
उपतस्थुर्नरश्रेष्ठ तत्तीर्थं लाङ्गली ततः
गत्वा स्नात्वा च विधिवद्ब्राह्मणेभ्यो धनं ददौ
ददृशे तत्र तत्स्थानं कौबेरे काननोत्तमे
पुरा यत्र तपस्तप्तं विपुलं सुमहात्मना
यत्र राज्ञा कुबेरेण वरा लब्धाश्च पुष्कलाः
धनाधिपत्यं सख्यं च रुद्रेणामिततेजसा
सुरत्वं लोकपालत्वं पुत्रं च नलकूबरम्
यत्र लेभे महाबाहो धनाधिपतिरञ्जसा
अभिषिक्तश्च तत्रैव समागम्य मरुद्गणैः
वाहनं चास्य तद्दत्तं हंसयुक्तं मनोरमम्
विमानं पुष्पकं दिव्यं नैरृतैश्वर्यमेव च
तत्राप्लुत्य बलो राजन्दत्त्वा दायांश्च पुष्कलान्
जगाम त्वरितो रामस्तीर्थं श्वेतानुलेपनः
निषेवितं सर्वसत्त्वैर्नाम्ना बदरपाचनम्
नानर्तुकवनोपेतं सदापुष्पफलं शुभम्