Shalya Parva, Adhyaya 45, Verse 1
शृणु मातृगणान्राजन्कुमारानुचरानिमान्
कीर्त्यमानान्मया वीर सपत्नगणसूदनान्
Containing 95 sacred Sanskrit shlokas with multi-author commentaries and translations.
शृणु मातृगणान्राजन्कुमारानुचरानिमान्
कीर्त्यमानान्मया वीर सपत्नगणसूदनान्
यशस्विनीनां मातॄणां शृणु नामानि भारत
याभिर्व्याप्तास्त्रयो लोकाः कल्याणीभिश्चराचराः
प्रभावती विशालाक्षी पलिता गोनसी तथा
श्रीमती बहुला चैव तथैव बहुपुत्रिका
अप्सुजाता च गोपाली बृहदम्बालिका तथा
जयावती मालतिका ध्रुवरत्ना भयंकरी
वसुदामा सुदामा च विशोका नन्दिनी तथा
एकचूडा महाचूडा चक्रनेमिश्च भारत
उत्तेजनी जयत्सेना कमलाक्ष्यथ शोभना
शत्रुंजया तथा चैव क्रोधना शलभी खरी
माधवी शुभवक्त्रा च तीर्थनेमिश्च भारत
गीतप्रिया च कल्याणी कद्रुला चामिताशना
मेघस्वना भोगवती सुभ्रूश्च कनकावती
अलाताक्षी वीर्यवती विद्युज्जिह्वा च भारत
पद्मावती सुनक्षत्रा कन्दरा बहुयोजना
संतानिका च कौरव्य कमला च महाबला
सुदामा बहुदामा च सुप्रभा च यशस्विनी
नृत्यप्रिया च राजेन्द्र शतोलूखलमेखला
शतघण्टा शतानन्दा भगनन्दा च भामिनी
वपुष्मती चन्द्रशीता भद्रकाली च भारत
संकारिका निष्कुटिका भ्रमा चत्वरवासिनी
सुमङ्गला स्वस्तिमती वृद्धिकामा जयप्रिया
धनदा सुप्रसादा च भवदा च जलेश्वरी
एडी भेडी समेडी च वेतालजननी तथा
कण्डूतिः कालिका चैव देवमित्रा च भारत
लम्बसी केतकी चैव चित्रसेना तथा बला
कुक्कुटिका शङ्खनिका तथा जर्जरिका नृप
कुण्डारिका कोकलिका कण्डरा च शतोदरी
उत्क्राथिनी जरेणा च महावेगा च कङ्कणा
मनोजवा कण्टकिनी प्रघसा पूतना तथा
खशया चुर्व्युटिर्वामा क्रोशनाथ तडित्प्रभा
मण्डोदरी च तुण्डा च कोटरा मेघवासिनी
सुभगा लम्बिनी लम्बा वसुचूडा विकत्थनी
ऊर्ध्ववेणीधरा चैव पिङ्गाक्षी लोहमेखला
पृथुवक्त्रा मधुरिका मधुकुम्भा तथैव च
पक्षालिका मन्थनिका जरायुर्जर्जरानना
ख्याता दहदहा चैव तथा धमधमा नृप
खण्डखण्डा च राजेन्द्र पूषणा मणिकुण्डला
अमोचा चैव कौरव्य तथा लम्बपयोधरा
वेणुवीणाधरा चैव पिङ्गाक्षी लोहमेखला
शशोलूकमुखी कृष्णा खरजङ्घा महाजवा
शिशुमारमुखी श्वेता लोहिताक्षी विभीषणा
जटालिका कामचरी दीर्घजिह्वा बलोत्कटा
कालेडिका वामनिका मुकुटा चैव भारत
लोहिताक्षी महाकाया हरिपिण्डी च भूमिप
एकाक्षरा सुकुसुमा कृष्णकर्णी च भारत
क्षुरकर्णी चतुष्कर्णी कर्णप्रावरणा तथा
चतुष्पथनिकेता च गोकर्णी महिषानना
खरकर्णी महाकर्णी भेरीस्वनमहास्वना
शङ्खकुम्भस्वना चैव भङ्गदा च महाबला
गणा च सुगणा चैव तथाभीत्यथ कामदा
चतुष्पथरता चैव भूतितीर्थान्यगोचरा
पशुदा वित्तदा चैव सुखदा च महायशाः
पयोदा गोमहिषदा सुविषाणा च भारत
प्रतिष्ठा सुप्रतिष्ठा च रोचमाना सुरोचना
गोकर्णी च सुकर्णी च ससिरा स्थेरिका तथा
एकचक्रा मेघरवा मेघमाला विरोचना
एताश्चान्याश्च बहवो मातरो भरतर्षभ
कार्त्तिकेयानुयायिन्यो नानारूपाः सहस्रशः
दीर्घनख्यो दीर्घदन्त्यो दीर्घतुण्ड्यश्च भारत
सरला मधुराश्चैव यौवनस्थाः स्वलंकृताः