Shalya Parva, Adhyaya 42, Verse 1
सा शप्ता तेन क्रुद्धेन विश्वामित्रेण धीमता
तस्मिंस्तीर्थवरे शुभ्रे शोणितं समुपावहत्
Containing 41 sacred Sanskrit shlokas with multi-author commentaries and translations.
सा शप्ता तेन क्रुद्धेन विश्वामित्रेण धीमता
तस्मिंस्तीर्थवरे शुभ्रे शोणितं समुपावहत्
अथाजग्मुस्ततो राजन्राक्षसास्तत्र भारत
तत्र ते शोणितं सर्वे पिबन्तः सुखमासते
तृप्ताश्च सुभृशं तेन सुखिता विगतज्वराः
नृत्यन्तश्च हसन्तश्च यथा स्वर्गजितस्तथा
कस्यचित्त्वथ कालस्य ऋषयः सतपोधनाः
तीर्थयात्रां समाजग्मुः सरस्वत्यां महीपते
तेषु सर्वेषु तीर्थेषु आप्लुत्य मुनिपुंगवाः
प्राप्य प्रीतिं परां चापि तपोलुब्धा विशारदाः
प्रययुर्हि ततो राजन्येन तीर्थं हि तत्तथा
अथागम्य महाभागास्तत्तीर्थं दारुणं तदा
दृष्ट्वा तोयं सरस्वत्याः शोणितेन परिप्लुतम्
पीयमानं च रक्षोभिर्बहुभिर्नृपसत्तम
तान्दृष्ट्वा राक्षसान्राजन्मुनयः संशितव्रताः
परित्राणे सरस्वत्याः परं यत्नं प्रचक्रिरे
ते तु सर्वे महाभागाः समागम्य महाव्रताः
आहूय सरितां श्रेष्ठामिदं वचनमब्रुवन्
कारणं ब्रूहि कल्याणि किमर्थं ते ह्रदो ह्ययम्
एवमाकुलतां यातः श्रुत्वा पास्यामहे वयम्
ततः सा सर्वमाचष्ट यथावृत्तं प्रवेपती
दुःखितामथ तां दृष्ट्वा त ऊचुर्वै तपोधनाः
कारणं श्रुतमस्माभिः शापश्चैव श्रुतोऽनघे
करिष्यन्ति तु यत्प्राप्तं सर्व एव तपोधनाः
एवमुक्त्वा सरिच्छ्रेष्ठामूचुस्तेऽथ परस्परम्
विमोचयामहे सर्वे शापादेतां सरस्वतीम्
तेषां तु वचनादेव प्रकृतिस्था सरस्वती
प्रसन्नसलिला जज्ञे यथा पूर्वं तथैव हि
विमुक्ता च सरिच्छ्रेष्ठा विबभौ सा यथा पुरा
दृष्ट्वा तोयं सरस्वत्या मुनिभिस्तैस्तथा कृतम्
कृताञ्जलीस्ततो राजन्राक्षसाः क्षुधयार्दिताः
ऊचुस्तान्वै मुनीन्सर्वान्कृपायुक्तान्पुनः पुनः
वयं हि क्षुधिताश्चैव धर्माद्धीनाश्च शाश्वतात्
न च नः कामकारोऽयं यद्वयं पापकारिणः
युष्माकं चाप्रसादेन दुष्कृतेन च कर्मणा
पक्षोऽयं वर्धतेऽस्माकं यतः स्म ब्रह्मराक्षसाः
एवं हि वैश्यशूद्राणां क्षत्रियाणां तथैव च
ये ब्राह्मणान्प्रद्विषन्ति ते भवन्तीह राक्षसाः
आचार्यमृत्विजं चैव गुरुं वृद्धजनं तथा
प्राणिनो येऽवमन्यन्ते ते भवन्तीह राक्षसाः
योषितां चैव पापानां योनिदोषेण वर्धते
तत्कुरुध्वमिहास्माकं कारुण्यं द्विजसत्तमाः
शक्ता भवन्तः सर्वेषां लोकानामपि तारणे
तेषां ते मुनयः श्रुत्वा तुष्टुवुस्तां महानदीम्
मोक्षार्थं रक्षसां तेषामूचुः प्रयतमानसाः
क्षुतकीटावपन्नं च यच्चोच्छिष्टाशितं भवेत्
केशावपन्नमाधूतमारुग्णमपि यद्भवेत्
श्वभिः संस्पृष्टमन्नं च भागोऽसौ रक्षसामिह
तस्माज्ज्ञात्वा सदा विद्वानेतान्यन्नानि वर्जयेत्
राक्षसान्नमसौ भुङ्क्ते यो भुङ्क्ते ह्यन्नमीदृशम्
शोधयित्वा ततस्तीर्थमृषयस्ते तपोधनाः
मोक्षार्थं राक्षसानां च नदीं तां प्रत्यचोदयन्
महर्षीणां मतं ज्ञात्वा ततः सा सरितां वरा
अरुणामानयामास स्वां तनुं पुरुषर्षभ
तस्यां ते राक्षसाः स्नात्वा तनूस्त्यक्त्वा दिवं गताः
अरुणायां महाराज ब्रह्महत्यापहा हि सा
एतमर्थमभिज्ञाय देवराजः शतक्रतुः
तस्मिंस्तीर्थवरे स्नात्वा विमुक्तः पाप्मना किल
किमर्थं भगवाञ्शक्रो ब्रह्महत्यामवाप्तवान्
कथमस्मिंश्च तीर्थे वै आप्लुत्याकल्मषोऽभवत्
शृणुष्वैतदुपाख्यानं यथावृत्तं जनेश्वर
यथा बिभेद समयं नमुचेर्वासवः पुरा
नमुचिर्वासवाद्भीतः सूर्यरश्मिं समाविशत्
तेनेन्द्रः सख्यमकरोत्समयं चेदमब्रवीत्
नार्द्रेण त्वा न शुष्केण न रात्रौ नापि वाहनि
वधिष्याम्यसुरश्रेष्ठ सखे सत्येन ते शपे