Mahabharata

Shalya Parva, Adhyaya 41

Containing 39 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shalya Parva, Adhyaya 41, Verse 1

वसिष्ठस्यापवाहो वै भीमवेगः कथं नु सः

किमर्थं च सरिच्छ्रेष्ठा तमृषिं प्रत्यवाहयत्

Mahabharata

Shalya Parva, Adhyaya 41, Verse 2

केन चास्याभवद्वैरं कारणं किं च तत्प्रभो

शंस पृष्टो महाप्राज्ञ न हि तृप्यामि कथ्यताम्

Mahabharata

Shalya Parva, Adhyaya 41, Verse 3

विश्वामित्रस्य चैवर्षेर्वसिष्ठस्य च भारत

भृशं वैरमभूद्राजंस्तपःस्पर्धाकृतं महत्

Mahabharata

Shalya Parva, Adhyaya 41, Verse 4

आश्रमो वै वसिष्ठस्य स्थाणुतीर्थेऽभवन्महान्

पूर्वतः पश्चिमश्चासीद्विश्वामित्रस्य धीमतः

Mahabharata

Shalya Parva, Adhyaya 41, Verse 5

यत्र स्थाणुर्महाराज तप्तवान्सुमहत्तपः

यत्रास्य कर्म तद्घोरं प्रवदन्ति मनीषिणः

Mahabharata

Shalya Parva, Adhyaya 41, Verse 6

यत्रेष्ट्वा भगवान्स्थाणुः पूजयित्वा सरस्वतीम्

स्थापयामास तत्तीर्थं स्थाणुतीर्थमिति प्रभो

Mahabharata

Shalya Parva, Adhyaya 41, Verse 7

तत्र सर्वे सुराः स्कन्दमभ्यषिञ्चन्नराधिप

सेनापत्येन महता सुरारिविनिबर्हणम्

Mahabharata

Shalya Parva, Adhyaya 41, Verse 8

तस्मिन्सरस्वतीतीर्थे विश्वामित्रो महामुनिः

वसिष्ठं चालयामास तपसोग्रेण तच्छृणु

Mahabharata

Shalya Parva, Adhyaya 41, Verse 9

विश्वामित्रवसिष्ठौ तावहन्यहनि भारत

स्पर्धां तपःकृतां तीव्रां चक्रतुस्तौ तपोधनौ

Mahabharata

Shalya Parva, Adhyaya 41, Verse 10

तत्राप्यधिकसंतापो विश्वामित्रो महामुनिः

दृष्ट्वा तेजो वसिष्ठस्य चिन्तामभिजगाम ह

तस्य बुद्धिरियं ह्यासीद्धर्मनित्यस्य भारत

Mahabharata

Shalya Parva, Adhyaya 41, Verse 11

इयं सरस्वती तूर्णं मत्समीपं तपोधनम्

आनयिष्यति वेगेन वसिष्ठं जपतां वरम्

इहागतं द्विजश्रेष्ठं हनिष्यामि न संशयः

Mahabharata

Shalya Parva, Adhyaya 41, Verse 12

एवं निश्चित्य भगवान्विश्वामित्रो महामुनिः

सस्मार सरितां श्रेष्ठां क्रोधसंरक्तलोचनः

Mahabharata

Shalya Parva, Adhyaya 41, Verse 13

सा ध्याता मुनिना तेन व्याकुलत्वं जगाम ह

जज्ञे चैनं महावीर्यं महाकोपं च भामिनी

Mahabharata

Shalya Parva, Adhyaya 41, Verse 14

तत एनं वेपमाना विवर्णा प्राञ्जलिस्तदा

उपतस्थे मुनिवरं विश्वामित्रं सरस्वती

Mahabharata

Shalya Parva, Adhyaya 41, Verse 15

हतवीरा यथा नारी साभवद्दुःखिता भृशम्

ब्रूहि किं करवाणीति प्रोवाच मुनिसत्तमम्

Mahabharata

Shalya Parva, Adhyaya 41, Verse 16

तामुवाच मुनिः क्रुद्धो वसिष्ठं शीघ्रमानय

यावदेनं निहन्म्यद्य तच्छ्रुत्वा व्यथिता नदी

Mahabharata

Shalya Parva, Adhyaya 41, Verse 17

साञ्जलिं तु ततः कृत्वा पुण्डरीकनिभेक्षणा

विव्यथे सुविरूढेव लता वायुसमीरिता

Mahabharata

Shalya Parva, Adhyaya 41, Verse 18

तथागतां तु तां दृष्ट्वा वेपमानां कृताञ्जलिम्

विश्वामित्रोऽब्रवीत्क्रुद्धो वसिष्ठं शीघ्रमानय

Mahabharata

Shalya Parva, Adhyaya 41, Verse 19

ततो भीता सरिच्छ्रेष्ठा चिन्तयामास भारत

उभयोः शापयोर्भीता कथमेतद्भविष्यति

Mahabharata

Shalya Parva, Adhyaya 41, Verse 20

साभिगम्य वसिष्ठं तु इममर्थमचोदयत्

यदुक्ता सरितां श्रेष्ठा विश्वामित्रेण धीमता

Mahabharata

Shalya Parva, Adhyaya 41, Verse 21

उभयोः शापयोर्भीता वेपमाना पुनः पुनः

चिन्तयित्वा महाशापमृषिवित्रासिता भृशम्

Mahabharata

Shalya Parva, Adhyaya 41, Verse 22

तां कृशां च विवर्णां च दृष्ट्वा चिन्तासमन्विताम्

उवाच राजन्धर्मात्मा वसिष्ठो द्विपदां वरः

Mahabharata

Shalya Parva, Adhyaya 41, Verse 23

त्राह्यात्मानं सरिच्छ्रेष्ठे वह मां शीघ्रगामिनी

विश्वामित्रः शपेद्धि त्वां मा कृथास्त्वं विचारणाम्

Mahabharata

Shalya Parva, Adhyaya 41, Verse 24

तस्य तद्वचनं श्रुत्वा कृपाशीलस्य सा सरित्

चिन्तयामास कौरव्य किं कृतं सुकृतं भवेत्

Mahabharata

Shalya Parva, Adhyaya 41, Verse 25

तस्याश्चिन्ता समुत्पन्ना वसिष्ठो मय्यतीव हि

कृतवान्हि दयां नित्यं तस्य कार्यं हितं मया

Mahabharata

Shalya Parva, Adhyaya 41, Verse 26

अथ कूले स्वके राजञ्जपन्तमृषिसत्तमम्

जुह्वानं कौशिकं प्रेक्ष्य सरस्वत्यभ्यचिन्तयत्

Mahabharata

Shalya Parva, Adhyaya 41, Verse 27

इदमन्तरमित्येव ततः सा सरितां वरा

कूलापहारमकरोत्स्वेन वेगेन सा सरित्

Mahabharata

Shalya Parva, Adhyaya 41, Verse 28

तेन कूलापहारेण मैत्रावरुणिरौह्यत

उह्यमानश्च तुष्टाव तदा राजन्सरस्वतीम्

Mahabharata

Shalya Parva, Adhyaya 41, Verse 29

पितामहस्य सरसः प्रवृत्तासि सरस्वति

व्याप्तं चेदं जगत्सर्वं तवैवाम्भोभिरुत्तमैः

Mahabharata

Shalya Parva, Adhyaya 41, Verse 30

त्वमेवाकाशगा देवि मेघेषूत्सृजसे पयः

सर्वाश्चापस्त्वमेवेति त्वत्तो वयमधीमहे