Mahabharata

Shalya Parva, Adhyaya 40

Containing 35 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shalya Parva, Adhyaya 40, Verse 1

ब्रह्मयोनिभिराकीर्णं जगाम यदुनन्दनः

यत्र दाल्भ्यो बको राजन्पश्वर्थं सुमहातपाः

जुहाव धृतराष्ट्रस्य राष्ट्रं वैचित्रवीर्यिणः

Mahabharata

Shalya Parva, Adhyaya 40, Verse 2

तपसा घोररूपेण कर्शयन्देहमात्मनः

क्रोधेन महताविष्टो धर्मात्मा वै प्रतापवान्

Mahabharata

Shalya Parva, Adhyaya 40, Verse 3

पुरा हि नैमिषेयाणां सत्रे द्वादशवार्षिके

वृत्ते विश्वजितोऽन्ते वै पाञ्चालानृषयोऽगमन्

Mahabharata

Shalya Parva, Adhyaya 40, Verse 4

तत्रेश्वरमयाचन्त दक्षिणार्थं मनीषिणः

बलान्वितान्वत्सतरान्निर्व्याधीनेकविंशतिम्

Mahabharata

Shalya Parva, Adhyaya 40, Verse 5

तानब्रवीद्बको वृद्धो विभजध्वं पशूनिति

पशूनेतानहं त्यक्त्वा भिक्षिष्ये राजसत्तमम्

Mahabharata

Shalya Parva, Adhyaya 40, Verse 6

एवमुक्त्वा ततो राजन्नृषीन्सर्वान्प्रतापवान्

जगाम धृतराष्ट्रस्य भवनं ब्राह्मणोत्तमः

Mahabharata

Shalya Parva, Adhyaya 40, Verse 7

स समीपगतो भूत्वा धृतराष्ट्रं जनेश्वरम्

अयाचत पशून्दाल्भ्यः स चैनं रुषितोऽब्रवीत्

Mahabharata

Shalya Parva, Adhyaya 40, Verse 8

यदृच्छया मृता दृष्ट्वा गास्तदा नृपसत्तम

एतान्पशून्नय क्षिप्रं ब्रह्मबन्धो यदीच्छसि

Mahabharata

Shalya Parva, Adhyaya 40, Verse 9

ऋषिस्त्वथ वचः श्रुत्वा चिन्तयामास धर्मवित्

अहो बत नृशंसं वै वाक्यमुक्तोऽस्मि संसदि

Mahabharata

Shalya Parva, Adhyaya 40, Verse 10

चिन्तयित्वा मुहूर्तं च रोषाविष्टो द्विजोत्तमः

मतिं चक्रे विनाशाय धृतराष्ट्रस्य भूपतेः

Mahabharata

Shalya Parva, Adhyaya 40, Verse 11

स उत्कृत्य मृतानां वै मांसानि द्विजसत्तमः

जुहाव धृतराष्ट्रस्य राष्ट्रं नरपतेः पुरा

Mahabharata

Shalya Parva, Adhyaya 40, Verse 12

अवकीर्णे सरस्वत्यास्तीर्थे प्रज्वाल्य पावकम्

बको दाल्भ्यो महाराज नियमं परमास्थितः

स तैरेव जुहावास्य राष्ट्रं मांसैर्महातपाः

Mahabharata

Shalya Parva, Adhyaya 40, Verse 13

तस्मिंस्तु विधिवत्सत्रे संप्रवृत्ते सुदारुणे

अक्षीयत ततो राष्ट्रं धृतराष्ट्रस्य पार्थिव

Mahabharata

Shalya Parva, Adhyaya 40, Verse 14

छिद्यमानं यथानन्तं वनं परशुना विभो

बभूवापहतं तच्चाप्यवकीर्णमचेतनम्

Mahabharata

Shalya Parva, Adhyaya 40, Verse 15

दृष्ट्वा तदवकीर्णं तु राष्ट्रं स मनुजाधिपः

बभूव दुर्मना राजंश्चिन्तयामास च प्रभुः

Mahabharata

Shalya Parva, Adhyaya 40, Verse 16

मोक्षार्थमकरोद्यत्नं ब्राह्मणैः सहितः पुरा

अथासौ पार्थिवः खिन्नस्ते च विप्रास्तदा नृप

Mahabharata

Shalya Parva, Adhyaya 40, Verse 17

यदा चापि न शक्नोति राष्ट्रं मोचयितुं नृप

अथ वैप्राश्निकांस्तत्र पप्रच्छ जनमेजय

Mahabharata

Shalya Parva, Adhyaya 40, Verse 18

ततो वैप्राश्निकाः प्राहुः पशुविप्रकृतस्त्वया

मांसैरभिजुहोतीति तव राष्ट्रं मुनिर्बकः

Mahabharata

Shalya Parva, Adhyaya 40, Verse 19

तेन ते हूयमानस्य राष्ट्रस्यास्य क्षयो महान्

तस्यैतत्तपसः कर्म येन ते ह्यनयो महान्

अपां कुञ्जे सरस्वत्यास्तं प्रसादय पार्थिव

Mahabharata

Shalya Parva, Adhyaya 40, Verse 20

सरस्वतीं ततो गत्वा स राजा बकमब्रवीत्

निपत्य शिरसा भूमौ प्राञ्जलिर्भरतर्षभ

Mahabharata

Shalya Parva, Adhyaya 40, Verse 21

प्रसादये त्वा भगवन्नपराधं क्षमस्व मे

मम दीनस्य लुब्धस्य मौर्ख्येण हतचेतसः

त्वं गतिस्त्वं च मे नाथः प्रसादं कर्तुमर्हसि

Mahabharata

Shalya Parva, Adhyaya 40, Verse 22

तं तथा विलपन्तं तु शोकोपहतचेतसम्

दृष्ट्वा तस्य कृपा जज्ञे राष्ट्रं तच्च व्यमोचयत्

Mahabharata

Shalya Parva, Adhyaya 40, Verse 23

ऋषिः प्रसन्नस्तस्याभूत्संरम्भं च विहाय सः

मोक्षार्थं तस्य राष्ट्रस्य जुहाव पुनराहुतिम्

Mahabharata

Shalya Parva, Adhyaya 40, Verse 24

मोक्षयित्वा ततो राष्ट्रं प्रतिगृह्य पशून्बहून्

हृष्टात्मा नैमिषारण्यं जगाम पुनरेव हि

Mahabharata

Shalya Parva, Adhyaya 40, Verse 25

धृतराष्ट्रोऽपि धर्मात्मा स्वस्थचेता महामनाः

स्वमेव नगरं राजा प्रतिपेदे महर्द्धिमत्

Mahabharata

Shalya Parva, Adhyaya 40, Verse 26

तत्र तीर्थे महाराज बृहस्पतिरुदारधीः

असुराणामभावाय भावाय च दिवौकसाम्

Mahabharata

Shalya Parva, Adhyaya 40, Verse 27

मांसैरपि जुहावेष्टिमक्षीयन्त ततोऽसुराः

दैवतैरपि संभग्ना जितकाशिभिराहवे

Mahabharata

Shalya Parva, Adhyaya 40, Verse 28

तत्रापि विधिवद्दत्त्वा ब्राह्मणेभ्यो महायशाः

वाजिनः कुञ्जरांश्चैव रथांश्चाश्वतरीयुतान्

Mahabharata

Shalya Parva, Adhyaya 40, Verse 29

रत्नानि च महार्हाणि धनं धान्यं च पुष्कलम्

ययौ तीर्थं महाबाहुर्यायातं पृथिवीपते

Mahabharata

Shalya Parva, Adhyaya 40, Verse 30

यत्र यज्ञे ययातेस्तु महाराज सरस्वती

सर्पिः पयश्च सुस्राव नाहुषस्य महात्मनः