Shalya Parva, Adhyaya 39, Verse 1
कथमार्ष्टिषेणो भगवान्विपुलं तप्तवांस्तपः
सिन्धुद्वीपः कथं चापि ब्राह्मण्यं लब्धवांस्तदा
Containing 32 sacred Sanskrit shlokas with multi-author commentaries and translations.
कथमार्ष्टिषेणो भगवान्विपुलं तप्तवांस्तपः
सिन्धुद्वीपः कथं चापि ब्राह्मण्यं लब्धवांस्तदा
देवापिश्च कथं ब्रह्मन्विश्वामित्रश्च सत्तम
तन्ममाचक्ष्व भगवन्परं कौतूहलं हि मे
पुरा कृतयुगे राजन्नार्ष्टिषेणो द्विजोत्तमः
वसन्गुरुकुले नित्यं नित्यमध्ययने रतः
तस्य राजन्गुरुकुले वसतो नित्यमेव ह
समाप्तिं नागमद्विद्या नापि वेदा विशां पते
स निर्विण्णस्ततो राजंस्तपस्तेपे महातपाः
ततो वै तपसा तेन प्राप्य वेदाननुत्तमान्
स विद्वान्वेदयुक्तश्च सिद्धश्चाप्यृषिसत्तमः
तत्र तीर्थे वरान्प्रादात्त्रीनेव सुमहातपाः
अस्मिंस्तीर्थे महानद्या अद्यप्रभृति मानवः
आप्लुतो वाजिमेधस्य फलं प्राप्नोति पुष्कलम्
अद्यप्रभृति नैवात्र भयं व्यालाद्भविष्यति
अपि चाल्पेन यत्नेन फलं प्राप्स्यति पुष्कलम्
एवमुक्त्वा महातेजा जगाम त्रिदिवं मुनिः
एवं सिद्धः स भगवानार्ष्टिषेणः प्रतापवान्
तस्मिन्नेव तदा तीर्थे सिन्धुद्वीपः प्रतापवान्
देवापिश्च महाराज ब्राह्मण्यं प्रापतुर्महत्
तथा च कौशिकस्तात तपोनित्यो जितेन्द्रियः
तपसा वै सुतप्तेन ब्राह्मणत्वमवाप्तवान्
गाधिर्नाम महानासीत्क्षत्रियः प्रथितो भुवि
तस्य पुत्रोऽभवद्राजन्विश्वामित्रः प्रतापवान्
स राजा कौशिकस्तात महायोग्यभवत्किल
स पुत्रमभिषिच्याथ विश्वामित्रं महातपाः
देहन्यासे मनश्चक्रे तमूचुः प्रणताः प्रजाः
न गन्तव्यं महाप्राज्ञ त्राहि चास्मान्महाभयात्
एवमुक्तः प्रत्युवाच ततो गाधिः प्रजास्तदा
विश्वस्य जगतो गोप्ता भविष्यति सुतो मम
इत्युक्त्वा तु ततो गाधिर्विश्वामित्रं निवेश्य च
जगाम त्रिदिवं राजन्विश्वामित्रोऽभवन्नृपः
न च शक्नोति पृथिवीं यत्नवानपि रक्षितुम्
ततः शुश्राव राजा स राक्षसेभ्यो महाभयम्
निर्ययौ नगराच्चापि चतुरङ्गबलान्वितः
स गत्वा दूरमध्वानं वसिष्ठाश्रममभ्ययात्
तस्य ते सैनिका राजंश्चक्रुस्तत्रानयान्बहून्
ततस्तु भगवान्विप्रो वसिष्ठोऽऽश्रममभ्ययात्
ददृशे च ततः सर्वं भज्यमानं महावनम्
तस्य क्रुद्धो महाराज वसिष्ठो मुनिसत्तमः
सृजस्व शबरान्घोरानिति स्वां गामुवाच ह
तथोक्ता सासृजद्धेनुः पुरुषान्घोरदर्शनान्
ते च तद्बलमासाद्य बभञ्जुः सर्वतोदिशम्
तद्दृष्ट्वा विद्रुतं सैन्यं विश्वामित्रस्तु गाधिजः
तपः परं मन्यमानस्तपस्येव मनो दधे
सोऽस्मिंस्तीर्थवरे राजन्सरस्वत्याः समाहितः
नियमैश्चोपवासैश्च कर्शयन्देहमात्मनः
जलाहारो वायुभक्षः पर्णाहारश्च सोऽभवत्
तथा स्थण्डिलशायी च ये चान्ये नियमाः पृथक्
असकृत्तस्य देवास्तु व्रतविघ्नं प्रचक्रिरे
न चास्य नियमाद्बुद्धिरपयाति महात्मनः
ततः परेण यत्नेन तप्त्वा बहुविधं तपः
तेजसा भास्कराकारो गाधिजः समपद्यत
तपसा तु तथा युक्तं विश्वामित्रं पितामहः
अमन्यत महातेजा वरदो वरमस्य तत्
स तु वव्रे वरं राजन्स्यामहं ब्राह्मणस्त्विति
तथेति चाब्रवीद्ब्रह्मा सर्वलोकपितामहः
स लब्ध्वा तपसोग्रेण ब्राह्मणत्वं महायशाः
विचचार महीं कृत्स्नां कृतकामः सुरोपमः
तस्मिंस्तीर्थवरे रामः प्रदाय विविधं वसु
पयस्विनीस्तथा धेनूर्यानानि शयनानि च