Mahabharata

Shalya Parva, Adhyaya 38

Containing 33 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shalya Parva, Adhyaya 38, Verse 1

उषित्वा तत्र रामस्तु संपूज्याश्रमवासिनः

तथा मङ्कणके प्रीतिं शुभां चक्रे हलायुधः

Mahabharata

Shalya Parva, Adhyaya 38, Verse 2

दत्त्वा दानं द्विजातिभ्यो रजनीं तामुपोष्य च

पूजितो मुनिसंघैश्च प्रातरुत्थाय लाङ्गली

Mahabharata

Shalya Parva, Adhyaya 38, Verse 3

अनुज्ञाप्य मुनीन्सर्वान्स्पृष्ट्वा तोयं च भारत

प्रययौ त्वरितो रामस्तीर्थहेतोर्महाबलः

Mahabharata

Shalya Parva, Adhyaya 38, Verse 4

तत औशनसं तीर्थमाजगाम हलायुधः

कपालमोचनं नाम यत्र मुक्तो महामुनिः

Mahabharata

Shalya Parva, Adhyaya 38, Verse 5

महता शिरसा राजन्ग्रस्तजङ्घो महोदरः

राक्षसस्य महाराज रामक्षिप्तस्य वै पुरा

Mahabharata

Shalya Parva, Adhyaya 38, Verse 6

तत्र पूर्वं तपस्तप्तं काव्येन सुमहात्मना

यत्रास्य नीतिरखिला प्रादुर्भूता महात्मनः

तत्रस्थश्चिन्तयामास दैत्यदानवविग्रहम्

Mahabharata

Shalya Parva, Adhyaya 38, Verse 7

तत्प्राप्य च बलो राजंस्तीर्थप्रवरमुत्तमम्

विधिवद्धि ददौ वित्तं ब्राह्मणानां महात्मनाम्

Mahabharata

Shalya Parva, Adhyaya 38, Verse 8

कपालमोचनं ब्रह्मन्कथं यत्र महामुनिः

मुक्तः कथं चास्य शिरो लग्नं केन च हेतुना

Mahabharata

Shalya Parva, Adhyaya 38, Verse 9

पुरा वै दण्डकारण्ये राघवेण महात्मना

वसता राजशार्दूल राक्षसास्तत्र हिंसिताः

Mahabharata

Shalya Parva, Adhyaya 38, Verse 10

जनस्थाने शिरश्छिन्नं राक्षसस्य दुरात्मनः

क्षुरेण शितधारेण तत्पपात महावने

Mahabharata

Shalya Parva, Adhyaya 38, Verse 11

महोदरस्य तल्लग्नं जङ्घायां वै यदृच्छया

वने विचरतो राजन्नस्थि भित्त्वास्फुरत्तदा

Mahabharata

Shalya Parva, Adhyaya 38, Verse 12

स तेन लग्नेन तदा द्विजातिर्न शशाक ह

अभिगन्तुं महाप्राज्ञस्तीर्थान्यायतनानि च

Mahabharata

Shalya Parva, Adhyaya 38, Verse 13

स पूतिना विस्रवता वेदनार्तो महामुनिः

जगाम सर्वतीर्थानि पृथिव्यामिति नः श्रुतम्

Mahabharata

Shalya Parva, Adhyaya 38, Verse 14

स गत्वा सरितः सर्वाः समुद्रांश्च महातपाः

कथयामास तत्सर्वमृषीणां भावितात्मनाम्

Mahabharata

Shalya Parva, Adhyaya 38, Verse 15

आप्लुतः सर्वतीर्थेषु न च मोक्षमवाप्तवान्

स तु शुश्राव विप्रेन्द्रो मुनीनां वचनं महत्

Mahabharata

Shalya Parva, Adhyaya 38, Verse 16

सरस्वत्यास्तीर्थवरं ख्यातमौशनसं तदा

सर्वपापप्रशमनं सिद्धक्षेत्रमनुत्तमम्

Mahabharata

Shalya Parva, Adhyaya 38, Verse 17

स तु गत्वा ततस्तत्र तीर्थमौशनसं द्विजः

तत औशनसे तीर्थे तस्योपस्पृशतस्तदा

तच्छिरश्चरणं मुक्त्वा पपातान्तर्जले तदा

Mahabharata

Shalya Parva, Adhyaya 38, Verse 18

ततः स विरुजो राजन्पूतात्मा वीतकल्मषः

आजगामाश्रमं प्रीतः कृतकृत्यो महोदरः

Mahabharata

Shalya Parva, Adhyaya 38, Verse 19

सोऽथ गत्वाश्रमं पुण्यं विप्रमुक्तो महातपाः

कथयामास तत्सर्वमृषीणां भावितात्मनाम्

Mahabharata

Shalya Parva, Adhyaya 38, Verse 20

ते श्रुत्वा वचनं तस्य ततस्तीर्थस्य मानद

कपालमोचनमिति नाम चक्रुः समागताः

Mahabharata

Shalya Parva, Adhyaya 38, Verse 21

तत्र दत्त्वा बहून्दायान्विप्रान्संपूज्य माधवः

जगाम वृष्णिप्रवरो रुषङ्गोराश्रमं तदा

Mahabharata

Shalya Parva, Adhyaya 38, Verse 22

यत्र तप्तं तपो घोरमार्ष्टिषेणेन भारत

ब्राह्मण्यं लब्धवांस्तत्र विश्वामित्रो महामुनिः

Mahabharata

Shalya Parva, Adhyaya 38, Verse 23

ततो हलधरः श्रीमान्ब्राह्मणैः परिवारितः

जगाम यत्र राजेन्द्र रुषङ्गुस्तनुमत्यजत्

Mahabharata

Shalya Parva, Adhyaya 38, Verse 24

रुषङ्गुर्ब्राह्मणो वृद्धस्तपोनित्यश्च भारत

देहन्यासे कृतमना विचिन्त्य बहुधा बहु

Mahabharata

Shalya Parva, Adhyaya 38, Verse 25

ततः सर्वानुपादाय तनयान्वै महातपाः

रुषङ्गुरब्रवीत्तत्र नयध्वं मा पृथूदकम्

Mahabharata

Shalya Parva, Adhyaya 38, Verse 26

विज्ञायातीतवयसं रुषङ्गुं ते तपोधनाः

तं वै तीर्थमुपानिन्युः सरस्वत्यास्तपोधनम्

Mahabharata

Shalya Parva, Adhyaya 38, Verse 27

स तैः पुत्रैस्तदा धीमानानीतो वै सरस्वतीम्

पुण्यां तीर्थशतोपेतां विप्रसंघैर्निषेविताम्

Mahabharata

Shalya Parva, Adhyaya 38, Verse 28

स तत्र विधिना राजन्नाप्लुतः सुमहातपाः

ज्ञात्वा तीर्थगुणांश्चैव प्राहेदमृषिसत्तमः

सुप्रीतः पुरुषव्याघ्र सर्वान्पुत्रानुपासतः

Mahabharata

Shalya Parva, Adhyaya 38, Verse 29

सरस्वत्युत्तरे तीरे यस्त्यजेदात्मनस्तनुम्

पृथूदके जप्यपरो नैनं श्वोमरणं तपेत्

Mahabharata

Shalya Parva, Adhyaya 38, Verse 30

तत्राप्लुत्य स धर्मात्मा उपस्पृश्य हलायुधः

दत्त्वा चैव बहून्दायान्विप्राणां विप्रवत्सलः