Shalya Parva, Adhyaya 36, Verse 1
ततो विनशनं राजन्नाजगाम हलायुधः
शूद्राभीरान्प्रति द्वेषाद्यत्र नष्टा सरस्वती
Containing 63 sacred Sanskrit shlokas with multi-author commentaries and translations.
ततो विनशनं राजन्नाजगाम हलायुधः
शूद्राभीरान्प्रति द्वेषाद्यत्र नष्टा सरस्वती
यस्मात्सा भरतश्रेष्ठ द्वेषान्नष्टा सरस्वती
तस्मात्तदृषयो नित्यं प्राहुर्विनशनेति ह
तच्चाप्युपस्पृश्य बलः सरस्वत्यां महाबलः
सुभूमिकं ततोऽगच्छत्सरस्वत्यास्तटे वरे
तत्र चाप्सरसः शुभ्रा नित्यकालमतन्द्रिताः
क्रीडाभिर्विमलाभिश्च क्रीडन्ति विमलाननाः
तत्र देवाः सगन्धर्वा मासि मासि जनेश्वर
अभिगच्छन्ति तत्तीर्थं पुण्यं ब्राह्मणसेवितम्
तत्रादृश्यन्त गन्धर्वास्तथैवाप्सरसां गणाः
समेत्य सहिता राजन्यथाप्राप्तं यथासुखम्
तत्र मोदन्ति देवाश्च पितरश्च सवीरुधः
पुण्यैः पुष्पैः सदा दिव्यैः कीर्यमाणाः पुनः पुनः
आक्रीडभूमिः सा राजंस्तासामप्सरसां शुभा
सुभूमिकेति विख्याता सरस्वत्यास्तटे वरे
तत्र स्नात्वा च दत्त्वा च वसु विप्रेषु माधवः
श्रुत्वा गीतं च तद्दिव्यं वादित्राणां च निःस्वनम्
छायाश्च विपुला दृष्ट्वा देवगन्धर्वरक्षसाम्
गन्धर्वाणां ततस्तीर्थमागच्छद्रोहिणीसुतः
विश्वावसुमुखास्तत्र गन्धर्वास्तपसान्विताः
नृत्तवादित्रगीतं च कुर्वन्ति सुमनोरमम्
तत्र दत्त्वा हलधरो विप्रेभ्यो विविधं वसु
अजाविकं गोखरोष्ट्रं सुवर्णं रजतं तथा
भोजयित्वा द्विजान्कामैः संतर्प्य च महाधनैः
प्रययौ सहितो विप्रैः स्तूयमानश्च माधवः
तस्माद्गन्धर्वतीर्थाच्च महाबाहुररिंदमः
गर्गस्रोतो महातीर्थमाजगामैककुण्डली
यत्र गर्गेण वृद्धेन तपसा भावितात्मना
कालज्ञानगतिश्चैव ज्योतिषां च व्यतिक्रमः
उत्पाता दारुणाश्चैव शुभाश्च जनमेजय
सरस्वत्याः शुभे तीर्थे विहिता वै महात्मना
तस्य नाम्ना च तत्तीर्थं गर्गस्रोत इति स्मृतम्
तत्र गर्गं महाभागमृषयः सुव्रता नृप
उपासां चक्रिरे नित्यं कालज्ञानं प्रति प्रभो
तत्र गत्वा महाराज बलः श्वेतानुलेपनः
विधिवद्धि धनं दत्त्वा मुनीनां भावितात्मनाम्
उच्चावचांस्तथा भक्ष्यान्द्विजेभ्यो विप्रदाय सः
नीलवासास्ततोऽगच्छच्छङ्खतीर्थं महायशाः
तत्रापश्यन्महाशङ्खं महामेरुमिवोच्छ्रितम्
श्वेतपर्वतसंकाशमृषिसंघैर्निषेवितम्
सरस्वत्यास्तटे जातं नगं तालध्वजो बली
यक्षा विद्याधराश्चैव राक्षसाश्चामितौजसः
पिशाचाश्चामितबला यत्र सिद्धाः सहस्रशः
ते सर्वे ह्यशनं त्यक्त्वा फलं तस्य वनस्पतेः
व्रतैश्च नियमैश्चैव काले काले स्म भुञ्जते
प्राप्तैश्च नियमैस्तैस्तैर्विचरन्तः पृथक्पृथक्
अदृश्यमाना मनुजैर्व्यचरन्पुरुषर्षभ
एवं ख्यातो नरपते लोकेऽस्मिन्स वनस्पतिः
तत्र तीर्थं सरस्वत्याः पावनं लोकविश्रुतम्
तस्मिंश्च यदुशार्दूलो दत्त्वा तीर्थे यशस्विनाम्
ताम्रायसानि भाण्डानि वस्त्राणि विविधानि च
पूजयित्वा द्विजांश्चैव पूजितश्च तपोधनैः
पुण्यं द्वैतवनं राजन्नाजगाम हलायुधः
तत्र गत्वा मुनीन्दृष्ट्वा नानावेषधरान्बलः
आप्लुत्य सलिले चापि पूजयामास वै द्विजान्
तथैव दत्त्वा विप्रेभ्यः परिभोगान्सुपुष्कलान्
ततः प्रायाद्बलो राजन्दक्षिणेन सरस्वतीम्
गत्वा चैव महाबाहुर्नातिदूरं महायशाः
धर्मात्मा नागधन्वानं तीर्थमागमदच्युतः
यत्र पन्नगराजस्य वासुकेः संनिवेशनम्
महाद्युतेर्महाराज बहुभिः पन्नगैर्वृतम्
यत्रासन्नृषयः सिद्धाः सहस्राणि चतुर्दश