Shalya Parva, Adhyaya 35, Verse 1
तस्मान्नदीगतं चापि उदपानं यशस्विनः
त्रितस्य च महाराज जगामाथ हलायुधः
Containing 53 sacred Sanskrit shlokas with multi-author commentaries and translations.
तस्मान्नदीगतं चापि उदपानं यशस्विनः
त्रितस्य च महाराज जगामाथ हलायुधः
तत्र दत्त्वा बहु द्रव्यं पूजयित्वा तथा द्विजान्
उपस्पृश्य च तत्रैव प्रहृष्टो मुसलायुधः
तत्र धर्मपरो ह्यासीत्त्रितः स सुमहातपाः
कूपे च वसता तेन सोमः पीतो महात्मना
तत्र चैनं समुत्सृज्य भ्रातरौ जग्मतुर्गृहान्
ततस्तौ वै शशापाथ त्रितो ब्राह्मणसत्तमः
उदपानं कथं ब्रह्मन्कथं च सुमहातपाः
पतितः किं च संत्यक्तो भ्रातृभ्यां द्विजसत्तमः
कूपे कथं च हित्वैनं भ्रातरौ जग्मतुर्गृहान्
एतदाचक्ष्व मे ब्रह्मन्यदि श्राव्यं हि मन्यसे
आसन्पूर्वयुगे राजन्मुनयो भ्रातरस्त्रयः
एकतश्च द्वितश्चैव त्रितश्चादित्यसंनिभाः
सर्वे प्रजापतिसमाः प्रजावन्तस्तथैव च
ब्रह्मलोकजितः सर्वे तपसा ब्रह्मवादिनः
तेषां तु तपसा प्रीतो नियमेन दमेन च
अभवद्गौतमो नित्यं पिता धर्मरतः सदा
स तु दीर्घेण कालेन तेषां प्रीतिमवाप्य च
जगाम भगवान्स्थानमनुरूपमिवात्मनः
राजानस्तस्य ये पूर्वे याज्या ह्यासन्महात्मनः
ते सर्वे स्वर्गते तस्मिंस्तस्य पुत्रानपूजयन्
तेषां तु कर्मणा राजंस्तथैवाध्ययनेन च
त्रितः स श्रेष्ठतां प्राप यथैवास्य पिता तथा
तं स्म सर्वे महाभागा मुनयः पुण्यलक्षणाः
अपूजयन्महाभागं तथा विद्वत्तयैव तु
कदाचिद्धि ततो राजन्भ्रातरावेकतद्वितौ
यज्ञार्थं चक्रतुश्चित्तं धनार्थं च विशेषतः
तयोश्चिन्ता समभवत्त्रितं गृह्य परंतप
याज्यान्सर्वानुपादाय प्रतिगृह्य पशूंस्ततः
सोमं पास्यामहे हृष्टाः प्राप्य यज्ञं महाफलम्
चक्रुश्चैव महाराज भ्रातरस्त्रय एव ह
तथा तु ते परिक्रम्य याज्यान्सर्वान्पशून्प्रति
याजयित्वा ततो याज्याँल्लब्ध्वा च सुबहून्पशून्
याज्येन कर्मणा तेन प्रतिगृह्य विधानतः
प्राचीं दिशं महात्मान आजग्मुस्ते महर्षयः
त्रितस्तेषां महाराज पुरस्ताद्याति हृष्टवत्
एकतश्च द्वितश्चैव पृष्ठतः कालयन्पशून्
तयोश्चिन्ता समभवद्दृष्ट्वा पशुगणं महत्
कथं न स्युरिमा गाव आवाभ्यां वै विना त्रितम्
तावन्योन्यं समाभाष्य एकतश्च द्वितश्च ह
यदूचतुर्मिथः पापौ तन्निबोध जनेश्वर
त्रितो यज्ञेषु कुशलस्त्रितो वेदेषु निष्ठितः
अन्यास्त्रितो बहुतरा गावः समुपलप्स्यते
तदावां सहितौ भूत्वा गाः प्रकाल्य व्रजावहे
त्रितोऽपि गच्छतां काममावाभ्यां वै विनाकृतः
तेषामागच्छतां रात्रौ पथिस्थाने वृकोऽभवत्
तथा कूपोऽविदूरेऽभूत्सरस्वत्यास्तटे महान्
अथ त्रितो वृकं दृष्ट्वा पथि तिष्ठन्तमग्रतः
तद्भयादपसर्पन्वै तस्मिन्कूपे पपात ह
अगाधे सुमहाघोरे सर्वभूतभयंकरे
त्रितस्ततो महाभागः कूपस्थो मुनिसत्तमः
आर्तनादं ततश्चक्रे तौ तु शुश्रुवतुर्मुनी
तं ज्ञात्वा पतितं कूपे भ्रातरावेकतद्वितौ
वृकत्रासाच्च लोभाच्च समुत्सृज्य प्रजग्मतुः
भ्रातृभ्यां पशुलुब्धाभ्यामुत्सृष्टः स महातपाः
उदपाने महाराज निर्जले पांसुसंवृते
त्रित आत्मानमालक्ष्य कूपे वीरुत्तृणावृते
निमग्नं भरतश्रेष्ठ पापकृन्नरके यथा
बुद्ध्या ह्यगणयत्प्राज्ञो मृत्योर्भीतो ह्यसोमपः
सोमः कथं नु पातव्य इहस्थेन मया भवेत्