Mahabharata

Shalya Parva, Adhyaya 34

Containing 81 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shalya Parva, Adhyaya 34, Verse 1

पूर्वमेव यदा रामस्तस्मिन्युद्ध उपस्थिते

आमन्त्र्य केशवं यातो वृष्णिभिः सहितः प्रभुः

Mahabharata

Shalya Parva, Adhyaya 34, Verse 2

साहाय्यं धार्तराष्ट्रस्य न च कर्तास्मि केशव

न चैव पाण्डुपुत्राणां गमिष्यामि यथागतम्

Mahabharata

Shalya Parva, Adhyaya 34, Verse 3

एवमुक्त्वा तदा रामो यातः शत्रुनिबर्हणः

तस्य चागमनं भूयो ब्रह्मञ्शंसितुमर्हसि

Mahabharata

Shalya Parva, Adhyaya 34, Verse 4

आख्याहि मे विस्तरतः कथं राम उपस्थितः

कथं च दृष्टवान्युद्धं कुशलो ह्यसि सत्तम

Mahabharata

Shalya Parva, Adhyaya 34, Verse 5

उपप्लव्ये निविष्टेषु पाण्डवेषु महात्मसु

प्रेषितो धृतराष्ट्रस्य समीपं मधुसूदनः

शमं प्रति महाबाहो हितार्थं सर्वदेहिनाम्

Mahabharata

Shalya Parva, Adhyaya 34, Verse 6

स गत्वा हास्तिनपुरं धृतराष्ट्रं समेत्य च

उक्तवान्वचनं तथ्यं हितं चैव विशेषतः

न च तत्कृतवान्राजा यथाख्यातं हि ते पुरा

Mahabharata

Shalya Parva, Adhyaya 34, Verse 7

अनवाप्य शमं तत्र कृष्णः पुरुषसत्तमः

आगच्छत महाबाहुरुपप्लव्यं जनाधिप

Mahabharata

Shalya Parva, Adhyaya 34, Verse 8

ततः प्रत्यागतः कृष्णो धार्तराष्ट्रविसर्जितः

अक्रियायां नरव्याघ्र पाण्डवानिदमब्रवीत्

Mahabharata

Shalya Parva, Adhyaya 34, Verse 9

न कुर्वन्ति वचो मह्यं कुरवः कालचोदिताः

निर्गच्छध्वं पाण्डवेयाः पुष्येण सहिता मया

Mahabharata

Shalya Parva, Adhyaya 34, Verse 10

ततो विभज्यमानेषु बलेषु बलिनां वरः

प्रोवाच भ्रातरं कृष्णं रौहिणेयो महामनाः

Mahabharata

Shalya Parva, Adhyaya 34, Verse 11

तेषामपि महाबाहो साहाय्यं मधुसूदन

क्रियतामिति तत्कृष्णो नास्य चक्रे वचस्तदा

Mahabharata

Shalya Parva, Adhyaya 34, Verse 12

ततो मन्युपरीतात्मा जगाम यदुनन्दनः

तीर्थयात्रां हलधरः सरस्वत्यां महायशाः

मैत्रे नक्षत्रयोगे स्म सहितः सर्वयादवैः

Mahabharata

Shalya Parva, Adhyaya 34, Verse 13

आश्रयामास भोजस्तु दुर्योधनमरिंदमः

युयुधानेन सहितो वासुदेवस्तु पाण्डवान्

Mahabharata

Shalya Parva, Adhyaya 34, Verse 14

रौहिणेये गते शूरे पुष्येण मधुसूदनः

पाण्डवेयान्पुरस्कृत्य ययावभिमुखः कुरून्

Mahabharata

Shalya Parva, Adhyaya 34, Verse 15

गच्छन्नेव पथिस्थस्तु रामः प्रेष्यानुवाच ह

संभारांस्तीर्थयात्रायां सर्वोपकरणानि च

आनयध्वं द्वारकाया अग्नीन्वै याजकांस्तथा

Mahabharata

Shalya Parva, Adhyaya 34, Verse 16

सुवर्णं रजतं चैव धेनूर्वासांसि वाजिनः

कुञ्जरांश्च रथांश्चैव खरोष्ट्रं वाहनानि च

क्षिप्रमानीयतां सर्वं तीर्थहेतोः परिच्छदम्

Mahabharata

Shalya Parva, Adhyaya 34, Verse 17

प्रतिस्रोतः सरस्वत्या गच्छध्वं शीघ्रगामिनः

ऋत्विजश्चानयध्वं वै शतशश्च द्विजर्षभान्

Mahabharata

Shalya Parva, Adhyaya 34, Verse 18

एवं संदिश्य तु प्रेष्यान्बलदेवो महाबलः

तीर्थयात्रां ययौ राजन्कुरूणां वैशसे तदा

सरस्वतीं प्रतिस्रोतः समुद्रादभिजग्मिवान्

Mahabharata

Shalya Parva, Adhyaya 34, Verse 19

ऋत्विग्भिश्च सुहृद्भिश्च तथान्यैर्द्विजसत्तमैः

रथैर्गजैस्तथाश्वैश्च प्रेष्यैश्च भरतर्षभ

गोखरोष्ट्रप्रयुक्तैश्च यानैश्च बहुभिर्वृतः

Mahabharata

Shalya Parva, Adhyaya 34, Verse 20

श्रान्तानां क्लान्तवपुषां शिशूनां विपुलायुषाम्

तानि यानानि देशेषु प्रतीक्ष्यन्ते स्म भारत

बुभुक्षितानामर्थाय कॢप्तमन्नं समन्ततः

Mahabharata

Shalya Parva, Adhyaya 34, Verse 21

यो यो यत्र द्विजो भोक्तुं कामं कामयते तदा

तस्य तस्य तु तत्रैवमुपजह्रुस्तदा नृप

Mahabharata

Shalya Parva, Adhyaya 34, Verse 22

तत्र स्थिता नरा राजन्रौहिणेयस्य शासनात्

भक्ष्यपेयस्य कुर्वन्ति राशींस्तत्र समन्ततः

Mahabharata

Shalya Parva, Adhyaya 34, Verse 23

वासांसि च महार्हाणि पर्यङ्कास्तरणानि च

पूजार्थं तत्र कॢप्तानि विप्राणां सुखमिच्छताम्

Mahabharata

Shalya Parva, Adhyaya 34, Verse 24

यत्र यः स्वपते विप्रः क्षत्रियो वापि भारत

तत्र तत्र तु तस्यैव सर्वं कॢप्तमदृश्यत

Mahabharata

Shalya Parva, Adhyaya 34, Verse 25

यथासुखं जनः सर्वस्तिष्ठते याति वा तदा

यातुकामस्य यानानि पानानि तृषितस्य च

Mahabharata

Shalya Parva, Adhyaya 34, Verse 26

बुभुक्षितस्य चान्नानि स्वादूनि भरतर्षभ

उपजह्रुर्नरास्तत्र वस्त्राण्याभरणानि च

Mahabharata

Shalya Parva, Adhyaya 34, Verse 27

स पन्थाः प्रबभौ राजन्सर्वस्यैव सुखावहः

स्वर्गोपमस्तदा वीर नराणां तत्र गच्छताम्

Mahabharata

Shalya Parva, Adhyaya 34, Verse 28

नित्यप्रमुदितोपेतः स्वादुभक्षः शुभान्वितः

विपण्यापणपण्यानां नानाजनशतैर्वृतः

नानाद्रुमलतोपेतो नानारत्नविभूषितः

Mahabharata

Shalya Parva, Adhyaya 34, Verse 29

ततो महात्मा नियमे स्थितात्मा; पुण्येषु तीर्थेषु वसूनि राजन्

ददौ द्विजेभ्यः क्रतुदक्षिणाश्च; यदुप्रवीरो हलभृत्प्रतीतः

Mahabharata

Shalya Parva, Adhyaya 34, Verse 30

दोग्ध्रीश्च धेनूश्च सहस्रशो वै; सुवाससः काञ्चनबद्धशृङ्गीः

हयांश्च नानाविधदेशजाता;न्यानानि दासीश्च तथा द्विजेभ्यः