Mahabharata

Shalya Parva, Adhyaya 33

Containing 18 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shalya Parva, Adhyaya 33, Verse 1

तस्मिन्युद्धे महाराज संप्रवृत्ते सुदारुणे

उपविष्टेषु सर्वेषु पाण्डवेषु महात्मसु

Mahabharata

Shalya Parva, Adhyaya 33, Verse 2

ततस्तालध्वजो रामस्तयोर्युद्ध उपस्थिते

श्रुत्वा तच्छिष्ययो राजन्नाजगाम हलायुधः

Mahabharata

Shalya Parva, Adhyaya 33, Verse 3

तं दृष्ट्वा परमप्रीताः पूजयित्वा नराधिपाः

शिष्ययोः कौशलं युद्धे पश्य रामेति चाब्रुवन्

Mahabharata

Shalya Parva, Adhyaya 33, Verse 4

अब्रवीच्च तदा रामो दृष्ट्वा कृष्णं च पाण्डवम्

दुर्योधनं च कौरव्यं गदापाणिमवस्थितम्

Mahabharata

Shalya Parva, Adhyaya 33, Verse 5

चत्वारिंशदहान्यद्य द्वे च मे निःसृतस्य वै

पुष्येण संप्रयातोऽस्मि श्रवणे पुनरागतः

शिष्ययोर्वै गदायुद्धं द्रष्टुकामोऽस्मि माधव

Mahabharata

Shalya Parva, Adhyaya 33, Verse 6

ततो युधिष्ठिरो राजा परिष्वज्य हलायुधम्

स्वागतं कुशलं चास्मै पर्यपृच्छद्यथातथम्

Mahabharata

Shalya Parva, Adhyaya 33, Verse 7

कृष्णौ चापि महेष्वासावभिवाद्य हलायुधम्

सस्वजाते परिप्रीतौ प्रियमाणौ यशस्विनौ

Mahabharata

Shalya Parva, Adhyaya 33, Verse 8

माद्रीपुत्रौ तथा शूरौ द्रौपद्याः पञ्च चात्मजाः

अभिवाद्य स्थिता राजन्रौहिणेयं महाबलम्

Mahabharata

Shalya Parva, Adhyaya 33, Verse 9

भीमसेनोऽथ बलवान्पुत्रस्तव जनाधिप

तथैव चोद्यतगदौ पूजयामासतुर्बलम्

Mahabharata

Shalya Parva, Adhyaya 33, Verse 10

स्वागतेन च ते तत्र प्रतिपूज्य पुनः पुनः

पश्य युद्धं महाबाहो इति ते राममब्रुवन्

एवमूचुर्महात्मानं रौहिणेयं नराधिपाः

Mahabharata

Shalya Parva, Adhyaya 33, Verse 11

परिष्वज्य तदा रामः पाण्डवान्सृञ्जयानपि

अपृच्छत्कुशलं सर्वान्पाण्डवांश्चामितौजसः

तथैव ते समासाद्य पप्रच्छुस्तमनामयम्

Mahabharata

Shalya Parva, Adhyaya 33, Verse 12

प्रत्यभ्यर्च्य हली सर्वान्क्षत्रियांश्च महामनाः

कृत्वा कुशलसंयुक्तां संविदं च यथावयः

Mahabharata

Shalya Parva, Adhyaya 33, Verse 13

जनार्दनं सात्यकिं च प्रेम्णा स परिषस्वजे

मूर्ध्नि चैतावुपाघ्राय कुशलं पर्यपृच्छत

Mahabharata

Shalya Parva, Adhyaya 33, Verse 14

तौ चैनं विधिवद्राजन्पूजयामासतुर्गुरुम्

ब्रह्माणमिव देवेशमिन्द्रोपेन्द्रौ मुदा युतौ

Mahabharata

Shalya Parva, Adhyaya 33, Verse 15

ततोऽब्रवीद्धर्मसुतो रौहिणेयमरिंदमम्

इदं भ्रात्रोर्महायुद्धं पश्य रामेति भारत

Mahabharata

Shalya Parva, Adhyaya 33, Verse 16

तेषां मध्ये महाबाहुः श्रीमान्केशवपूर्वजः

न्यविशत्परमप्रीतः पूज्यमानो महारथैः

Mahabharata

Shalya Parva, Adhyaya 33, Verse 17

स बभौ राजमध्यस्थो नीलवासाः सितप्रभः

दिवीव नक्षत्रगणैः परिकीर्णो निशाकरः

Mahabharata

Shalya Parva, Adhyaya 33, Verse 18

ततस्तयोः संनिपातस्तुमुलो रोमहर्षणः

आसीदन्तकरो राजन्वैरस्य तव पुत्रयोः