Mahabharata

Shalya Parva, Adhyaya 32

Containing 52 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shalya Parva, Adhyaya 32, Verse 1

एवं दुर्योधने राजन्गर्जमाने मुहुर्मुहुः

युधिष्ठिरस्य संक्रुद्धो वासुदेवोऽब्रवीदिदम्

Mahabharata

Shalya Parva, Adhyaya 32, Verse 2

यदि नाम ह्ययं युद्धे वरयेत्त्वां युधिष्ठिर

अर्जुनं नकुलं वापि सहदेवमथापि वा

Mahabharata

Shalya Parva, Adhyaya 32, Verse 3

किमिदं साहसं राजंस्त्वया व्याहृतमीदृशम्

एकमेव निहत्याजौ भव राजा कुरुष्विति

Mahabharata

Shalya Parva, Adhyaya 32, Verse 4

एतेन हि कृता योग्या वर्षाणीह त्रयोदश

आयसे पुरुषे राजन्भीमसेनजिघांसया

Mahabharata

Shalya Parva, Adhyaya 32, Verse 5

कथं नाम भवेत्कार्यमस्माभिर्भरतर्षभ

साहसं कृतवांस्त्वं तु ह्यनुक्रोशान्नृपोत्तम

Mahabharata

Shalya Parva, Adhyaya 32, Verse 6

नान्यमस्यानुपश्यामि प्रतियोद्धारमाहवे

ऋते वृकोदरात्पार्थात्स च नातिकृतश्रमः

Mahabharata

Shalya Parva, Adhyaya 32, Verse 7

तदिदं द्यूतमारब्धं पुनरेव यथा पुरा

विषमं शकुनेश्चैव तव चैव विशां पते

Mahabharata

Shalya Parva, Adhyaya 32, Verse 8

बली भीमः समर्थश्च कृती राजा सुयोधनः

बलवान्वा कृती वेति कृती राजन्विशिष्यते

Mahabharata

Shalya Parva, Adhyaya 32, Verse 9

सोऽयं राजंस्त्वया शत्रुः समे पथि निवेशितः

न्यस्तश्चात्मा सुविषमे कृच्छ्रमापादिता वयम्

Mahabharata

Shalya Parva, Adhyaya 32, Verse 10

को नु सर्वान्विनिर्जित्य शत्रूनेकेन वैरिणा

पणित्वा चैकपाणेन रोचयेदेवमाहवम्

Mahabharata

Shalya Parva, Adhyaya 32, Verse 11

न हि पश्यामि तं लोके गदाहस्तं नरोत्तमम्

युध्येद्दुर्योधनं संख्ये कृतित्वाद्धि विशेषयेत्

Mahabharata

Shalya Parva, Adhyaya 32, Verse 12

फल्गुनं वा भवन्तं वा माद्रीपुत्रावथापि वा

न समर्थानहं मन्ये गदाहस्तस्य संयुगे

Mahabharata

Shalya Parva, Adhyaya 32, Verse 13

स कथं वदसे शत्रुं युध्यस्व गदयेति ह

एकं च नो निहत्याजौ भव राजेति भारत

Mahabharata

Shalya Parva, Adhyaya 32, Verse 14

वृकोदरं समासाद्य संशयो विजये हि नः

न्यायतो युध्यमानानां कृती ह्येष महाबलः

Mahabharata

Shalya Parva, Adhyaya 32, Verse 15

मधुसूदन मा कार्षीर्विषादं यदुनन्दन

अद्य पारं गमिष्यामि वैरस्य भृशदुर्गमम्

Mahabharata

Shalya Parva, Adhyaya 32, Verse 16

अहं सुयोधनं संख्ये हनिष्यामि न संशयः

विजयो वै ध्रुवं कृष्ण धर्मराजस्य दृश्यते

Mahabharata

Shalya Parva, Adhyaya 32, Verse 17

अध्यर्धेन गुणेनेयं गदा गुरुतरी मम

न तथा धार्तराष्ट्रस्य मा कार्षीर्माधव व्यथाम्

Mahabharata

Shalya Parva, Adhyaya 32, Verse 18

सामरानपि लोकांस्त्रीन्नानाशस्त्रधरान्युधि

योधयेयं रणे हृष्टः किमुताद्य सुयोधनम्

Mahabharata

Shalya Parva, Adhyaya 32, Verse 19

तथा संभाषमाणं तु वासुदेवो वृकोदरम्

हृष्टः संपूजयामास वचनं चेदमब्रवीत्

Mahabharata

Shalya Parva, Adhyaya 32, Verse 20

त्वामाश्रित्य महाबाहो धर्मराजो युधिष्ठिरः

निहतारिः स्वकां दीप्तां श्रियं प्राप्तो न संशयः

Mahabharata

Shalya Parva, Adhyaya 32, Verse 21

त्वया विनिहताः सर्वे धृतराष्ट्रसुता रणे

राजानो राजपुत्राश्च नागाश्च विनिपातिताः

Mahabharata

Shalya Parva, Adhyaya 32, Verse 22

कलिङ्गा मागधाः प्राच्या गान्धाराः कुरवस्तथा

त्वामासाद्य महायुद्धे निहताः पाण्डुनन्दन

Mahabharata

Shalya Parva, Adhyaya 32, Verse 23

हत्वा दुर्योधनं चापि प्रयच्छोर्वीं ससागराम्

धर्मराजाय कौन्तेय यथा विष्णुः शचीपतेः

Mahabharata

Shalya Parva, Adhyaya 32, Verse 24

त्वां च प्राप्य रणे पापो धार्तराष्ट्रो विनङ्क्ष्यति

त्वमस्य सक्थिनी भङ्क्त्वा प्रतिज्ञां पारयिष्यसि

Mahabharata

Shalya Parva, Adhyaya 32, Verse 25

यत्नेन तु सदा पार्थ योद्धव्यो धृतराष्ट्रजः

कृती च बलवांश्चैव युद्धशौण्डश्च नित्यदा

Mahabharata

Shalya Parva, Adhyaya 32, Verse 26

ततस्तु सात्यकी राजन्पूजयामास पाण्डवम्

विविधाभिश्च तां वाग्भिः पूजयामास माधवः

Mahabharata

Shalya Parva, Adhyaya 32, Verse 27

पाञ्चालाः पाण्डवेयाश्च धर्मराजपुरोगमाः

तद्वचो भीमसेनस्य सर्व एवाभ्यपूजयन्

Mahabharata

Shalya Parva, Adhyaya 32, Verse 28

ततो भीमबलो भीमो युधिष्ठिरमथाब्रवीत्

सृञ्जयैः सह तिष्ठन्तं तपन्तमिव भास्करम्

Mahabharata

Shalya Parva, Adhyaya 32, Verse 29

अहमेतेन संगम्य संयुगे योद्धुमुत्सहे

न हि शक्तो रणे जेतुं मामेष पुरुषाधमः

Mahabharata

Shalya Parva, Adhyaya 32, Verse 30

अद्य क्रोधं विमोक्ष्यामि निहितं हृदये भृशम्

सुयोधने धार्तराष्ट्रे खाण्डवेऽग्निमिवार्जुनः