Mahabharata

Shalya Parva, Adhyaya 31

Containing 60 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shalya Parva, Adhyaya 31, Verse 1

एवं संतर्ज्यमानस्तु मम पुत्रो महीपतिः

प्रकृत्या मन्युमान्वीरः कथमासीत्परंतपः

Mahabharata

Shalya Parva, Adhyaya 31, Verse 2

न हि संतर्जना तेन श्रुतपूर्वा कदाचन

राजभावेन मान्यश्च सर्वलोकस्य सोऽभवत्

Mahabharata

Shalya Parva, Adhyaya 31, Verse 3

इयं च पृथिवी सर्वा सम्लेच्छाटविका भृशम्

प्रसादाद्ध्रियते यस्य प्रत्यक्षं तव संजय

Mahabharata

Shalya Parva, Adhyaya 31, Verse 4

स तथा तर्ज्यमानस्तु पाण्डुपुत्रैर्विशेषतः

विहीनश्च स्वकैर्भृत्यैर्निर्जने चावृतो भृशम्

Mahabharata

Shalya Parva, Adhyaya 31, Verse 5

श्रुत्वा स कटुका वाचो जययुक्ताः पुनः पुनः

किमब्रवीत्पाण्डवेयांस्तन्ममाचक्ष्व संजय

Mahabharata

Shalya Parva, Adhyaya 31, Verse 6

तर्ज्यमानस्तदा राजन्नुदकस्थस्तवात्मजः

युधिष्ठिरेण राजेन्द्र भ्रातृभिः सहितेन ह

Mahabharata

Shalya Parva, Adhyaya 31, Verse 7

श्रुत्वा स कटुका वाचो विषमस्थो जनाधिपः

दीर्घमुष्णं च निःश्वस्य सलिलस्थः पुनः पुनः

Mahabharata

Shalya Parva, Adhyaya 31, Verse 8

सलिलान्तर्गतो राजा धुन्वन्हस्तौ पुनः पुनः

मनश्चकार युद्धाय राजानं चाभ्यभाषत

Mahabharata

Shalya Parva, Adhyaya 31, Verse 9

यूयं ससुहृदः पार्थाः सर्वे सरथवाहनाः

अहमेकः परिद्यूनो विरथो हतवाहनः

Mahabharata

Shalya Parva, Adhyaya 31, Verse 10

आत्तशस्त्रै रथगतैर्बहुभिः परिवारितः

कथमेकः पदातिः सन्नशस्त्रो योद्धुमुत्सहे

Mahabharata

Shalya Parva, Adhyaya 31, Verse 11

एकैकेन तु मां यूयं योधयध्वं युधिष्ठिर

न ह्येको बहुभिर्वीरैर्न्याय्यं योधयितुं युधि

Mahabharata

Shalya Parva, Adhyaya 31, Verse 12

विशेषतो विकवचः श्रान्तश्चापः समाश्रितः

भृशं विक्षतगात्रश्च श्रान्तवाहनसैनिकः

Mahabharata

Shalya Parva, Adhyaya 31, Verse 13

न मे त्वत्तो भयं राजन्न च पार्थाद्वृकोदरात्

फल्गुनाद्वासुदेवाद्वा पाञ्चालेभ्योऽथ वा पुनः

Mahabharata

Shalya Parva, Adhyaya 31, Verse 14

यमाभ्यां युयुधानाद्वा ये चान्ये तव सैनिकाः

एकः सर्वानहं क्रुद्धो न तान्योद्धुमिहोत्सहे

Mahabharata

Shalya Parva, Adhyaya 31, Verse 15

धर्ममूला सतां कीर्तिर्मनुष्याणां जनाधिप

धर्मं चैवेह कीर्तिं च पालयन्प्रब्रवीम्यहम्

Mahabharata

Shalya Parva, Adhyaya 31, Verse 16

अहमुत्थाय वः सर्वान्प्रतियोत्स्यामि संयुगे

अन्वंशाभ्यागतान्सर्वानृतून्संवत्सरो यथा

Mahabharata

Shalya Parva, Adhyaya 31, Verse 17

अद्य वः सरथान्साश्वानशस्त्रो विरथोऽपि सन्

नक्षत्राणीव सर्वाणि सविता रात्रिसंक्षये

तेजसा नाशयिष्यामि स्थिरीभवत पाण्डवाः

Mahabharata

Shalya Parva, Adhyaya 31, Verse 18

अद्यानृण्यं गमिष्यामि क्षत्रियाणां यशस्विनाम्

बाह्लीकद्रोणभीष्माणां कर्णस्य च महात्मनः

Mahabharata

Shalya Parva, Adhyaya 31, Verse 19

जयद्रथस्य शूरस्य भगदत्तस्य चोभयोः

मद्रराजस्य शल्यस्य भूरिश्रवस एव च

Mahabharata

Shalya Parva, Adhyaya 31, Verse 20

पुत्राणां भरतश्रेष्ठ शकुनेः सौबलस्य च

मित्राणां सुहृदां चैव बान्धवानां तथैव च

Mahabharata

Shalya Parva, Adhyaya 31, Verse 21

आनृण्यमद्य गच्छामि हत्वा त्वां भ्रातृभिः सह

एतावदुक्त्वा वचनं विरराम जनाधिपः

Mahabharata

Shalya Parva, Adhyaya 31, Verse 22

दिष्ट्या त्वमपि जानीषे क्षत्रधर्मं सुयोधन

दिष्ट्या ते वर्तते बुद्धिर्युद्धायैव महाभुज

Mahabharata

Shalya Parva, Adhyaya 31, Verse 23

दिष्ट्या शूरोऽसि कौरव्य दिष्ट्या जानासि संगरम्

यस्त्वमेको हि नः सर्वान्संयुगे योद्धुमिच्छसि

Mahabharata

Shalya Parva, Adhyaya 31, Verse 24

एक एकेन संगम्य यत्ते संमतमायुधम्

तत्त्वमादाय युध्यस्व प्रेक्षकास्ते वयं स्थिताः

Mahabharata

Shalya Parva, Adhyaya 31, Verse 25

अयमिष्टं च ते कामं वीर भूयो ददाम्यहम्

हत्वैकं भवतो राज्यं हतो वा स्वर्गमाप्नुहि

Mahabharata

Shalya Parva, Adhyaya 31, Verse 26

एकश्चेद्योद्धुमाक्रन्दे वरोऽद्य मम दीयते

आयुधानामियं चापि वृता त्वत्संमते गदा

Mahabharata

Shalya Parva, Adhyaya 31, Verse 27

भ्रातॄणां भवतामेकः शक्यं मां योऽभिमन्यते

पदातिर्गदया संख्ये स युध्यतु मया सह

Mahabharata

Shalya Parva, Adhyaya 31, Verse 28

वृत्तानि रथयुद्धानि विचित्राणि पदे पदे

इदमेकं गदायुद्धं भवत्वद्याद्भुतं महत्

Mahabharata

Shalya Parva, Adhyaya 31, Verse 29

अन्नानामपि पर्यायं कर्तुमिच्छन्ति मानवाः

युद्धानामपि पर्यायो भवत्वनुमते तव

Mahabharata

Shalya Parva, Adhyaya 31, Verse 30

गदया त्वां महाबाहो विजेष्यामि सहानुजम्

पाञ्चालान्सृञ्जयांश्चैव ये चान्ये तव सैनिकाः