Shalya Parva, Adhyaya 30, Verse 1
ततस्तेष्वपयातेषु रथेषु त्रिषु पाण्डवाः
तं ह्रदं प्रत्यपद्यन्त यत्र दुर्योधनोऽभवत्
Containing 68 sacred Sanskrit shlokas with multi-author commentaries and translations.
ततस्तेष्वपयातेषु रथेषु त्रिषु पाण्डवाः
तं ह्रदं प्रत्यपद्यन्त यत्र दुर्योधनोऽभवत्
आसाद्य च कुरुश्रेष्ठ तदा द्वैपायनह्रदम्
स्तम्भितं धार्तराष्ट्रेण दृष्ट्वा तं सलिलाशयम्
वासुदेवमिदं वाक्यमब्रवीत्कुरुनन्दनः
पश्येमां धार्तराष्ट्रेण मायामप्सु प्रयोजिताम्
विष्टभ्य सलिलं शेते नास्य मानुषतो भयम्
दैवीं मायामिमां कृत्वा सलिलान्तर्गतो ह्ययम्
निकृत्या निकृतिप्रज्ञो न मे जीवन्विमोक्ष्यते
यद्यस्य समरे साह्यं कुरुते वज्रभृत्स्वयम्
तथाप्येनं हतं युद्धे लोको द्रक्ष्यति माधव
मायाविन इमां मायां मायया जहि भारत
मायावी मायया वध्यः सत्यमेतद्युधिष्ठिर
क्रियाभ्युपायैर्बहुलैर्मायामप्सु प्रयोज्य ह
जहि त्वं भरतश्रेष्ठ पापात्मानं सुयोधनम्
क्रियाभ्युपायैरिन्द्रेण निहता दैत्यदानवाः
क्रियाभ्युपायैर्बहुभिर्बलिर्बद्धो महात्मना
क्रियाभ्युपायैः पूर्वं हि हिरण्याक्षो महासुरः
हिरण्यकशिपुश्चैव क्रिययैव निषूदितौ
वृत्रश्च निहतो राजन्क्रिययैव न संशयः
तथा पौलस्त्यतनयो रावणो नाम राक्षसः
रामेण निहतो राजन्सानुबन्धः सहानुगः
क्रियया योगमास्थाय तथा त्वमपि विक्रम
क्रियाभ्युपायैर्निहतो मया राजन्पुरातने
तारकश्च महादैत्यो विप्रचित्तिश्च वीर्यवान्
वातापिरिल्वलश्चैव त्रिशिराश्च तथा विभो
सुन्दोपसुन्दावसुरौ क्रिययैव निषूदितौ
क्रियाभ्युपायैरिन्द्रेण त्रिदिवं भुज्यते विभो
क्रिया बलवती राजन्नान्यत्किंचिद्युधिष्ठिर
दैत्याश्च दानवाश्चैव राक्षसाः पार्थिवास्तथा
क्रियाभ्युपायैर्निहताः क्रियां तस्मात्समाचर
इत्युक्तो वासुदेवेन पाण्डवः संशितव्रतः
जलस्थं तं महाराज तव पुत्रं महाबलम्
अभ्यभाषत कौन्तेयः प्रहसन्निव भारत
सुयोधन किमर्थोऽयमारम्भोऽप्सु कृतस्त्वया
सर्वं क्षत्रं घातयित्वा स्वकुलं च विशां पते
जलाशयं प्रविष्टोऽद्य वाञ्छञ्जीवितमात्मनः
उत्तिष्ठ राजन्युध्यस्व सहास्माभिः सुयोधन
स च दर्पो नरश्रेष्ठ स च मानः क्व ते गतः
यस्त्वं संस्तभ्य सलिलं भीतो राजन्व्यवस्थितः
सर्वे त्वां शूर इत्येव जना जल्पन्ति संसदि
व्यर्थं तद्भवतो मन्ये शौर्यं सलिलशायिनः
उत्तिष्ठ राजन्युध्यस्व क्षत्रियोऽसि कुलोद्भवः
कौरवेयो विशेषेण कुले जन्म च संस्मर
स कथं कौरवे वंशे प्रशंसञ्जन्म चात्मनः
युद्धाद्भीतस्ततस्तोयं प्रविश्य प्रतितिष्ठसि
अयुद्धमव्यवस्थानं नैष धर्मः सनातनः
अनार्यजुष्टमस्वर्ग्यं रणे राजन्पलायनम्
कथं पारमगत्वा हि युद्धे त्वं वै जिजीविषुः
इमान्निपतितान्दृष्ट्वा पुत्रान्भ्रातॄन्पितॄंस्तथा
संबन्धिनो वयस्यांश्च मातुलान्बान्धवांस्तथा
घातयित्वा कथं तात ह्रदे तिष्ठसि सांप्रतम्
शूरमानी न शूरस्त्वं मिथ्या वदसि भारत
शूरोऽहमिति दुर्बुद्धे सर्वलोकस्य शृण्वतः
न हि शूराः पलायन्ते शत्रून्दृष्ट्वा कथंचन
ब्रूहि वा त्वं यया धृत्या शूर त्यजसि संगरम्
स त्वमुत्तिष्ठ युध्यस्व विनीय भयमात्मनः
घातयित्वा सर्वसैन्यं भ्रातॄंश्चैव सुयोधन
नेदानीं जीविते बुद्धिः कार्या धर्मचिकीर्षया
क्षत्रधर्ममपाश्रित्य त्वद्विधेन सुयोधन
यत्तत्कर्णमुपाश्रित्य शकुनिं चापि सौबलम्
अमर्त्य इव संमोहात्त्वमात्मानं न बुद्धवान्
तत्पापं सुमहत्कृत्वा प्रतियुध्यस्व भारत
कथं हि त्वद्विधो मोहाद्रोचयेत पलायनम्