Shalya Parva, Adhyaya 29, Verse 1
हतेषु सर्वसैन्येषु पाण्डुपुत्रै रणाजिरे
मम सैन्यावशिष्टास्ते किमकुर्वत संजय
Containing 66 sacred Sanskrit shlokas with multi-author commentaries and translations.
हतेषु सर्वसैन्येषु पाण्डुपुत्रै रणाजिरे
मम सैन्यावशिष्टास्ते किमकुर्वत संजय
कृतवर्मा कृपश्चैव द्रोणपुत्रश्च वीर्यवान्
दुर्योधनश्च मन्दात्मा राजा किमकरोत्तदा
संप्राद्रवत्सु दारेषु क्षत्रियाणां महात्मनाम्
विद्रुते शिबिरे शून्ये भृशोद्विग्नास्त्रयो रथाः
निशम्य पाण्डुपुत्राणां तदा विजयिनां स्वनम्
विद्रुतं शिबिरं दृष्ट्वा सायाह्ने राजगृद्धिनः
स्थानं नारोचयंस्तत्र ततस्ते ह्रदमभ्ययुः
युधिष्ठिरोऽपि धर्मात्मा भ्रातृभिः सहितो रणे
हृष्टः पर्यपतद्राजन्दुर्योधनवधेप्सया
मार्गमाणास्तु संक्रुद्धास्तव पुत्रं जयैषिणः
यत्नतोऽन्वेषमाणास्तु नैवापश्यञ्जनाधिपम्
स हि तीव्रेण वेगेन गदापाणिरपाक्रमत्
तं ह्रदं प्राविशच्चापि विष्टभ्यापः स्वमायया
यदा तु पाण्डवाः सर्वे सुपरिश्रान्तवाहनाः
ततः स्वशिबिरं प्राप्य व्यतिष्ठन्सहसैनिकाः
ततः कृपश्च द्रौणिश्च कृतवर्मा च सात्वतः
संनिविष्टेषु पार्थेषु प्रयातास्तं ह्रदं शनैः
ते तं ह्रदं समासाद्य यत्र शेते जनाधिपः
अभ्यभाषन्त दुर्धर्षं राजानं सुप्तमम्भसि
राजन्नुत्तिष्ठ युध्यस्व सहास्माभिर्युधिष्ठिरम्
जित्वा वा पृथिवीं भुङ्क्ष्व हतो वा स्वर्गमाप्नुहि
तेषामपि बलं सर्वं हतं दुर्योधन त्वया
प्रतिरब्धाश्च भूयिष्ठं ये शिष्टास्तत्र सैनिकाः
न ते वेगं विषहितुं शक्तास्तव विशां पते
अस्माभिरभिगुप्तस्य तस्मादुत्तिष्ठ भारत
दिष्ट्या पश्यामि वो मुक्तानीदृशात्पुरुषक्षयात्
पाण्डुकौरवसंमर्दाज्जीवमानान्नरर्षभान्
विजेष्यामो वयं सर्वे विश्रान्ता विगतक्लमाः
भवन्तश्च परिश्रान्ता वयं च भृशविक्षताः
उदीर्णं च बलं तेषां तेन युद्धं न रोचये
न त्वेतदद्भुतं वीरा यद्वो महदिदं मनः
अस्मासु च परा भक्तिर्न तु कालः पराक्रमे
विश्रम्यैकां निशामद्य भवद्भिः सहितो रणे
प्रतियोत्स्याम्यहं शत्रूञ्श्वो न मेऽस्त्यत्र संशयः
एवमुक्तोऽब्रवीद्द्रौणी राजानं युद्धदुर्मदम्
उत्तिष्ठ राजन्भद्रं ते विजेष्यामो रणे परान्
इष्टापूर्तेन दानेन सत्येन च जपेन च
शपे राजन्यथा ह्यद्य निहनिष्यामि सोमकान्
मा स्म यज्ञकृतां प्रीतिं प्राप्नुयां सज्जनोचिताम्
यदीमां रजनीं व्युष्टां न निहन्मि परान्रणे
नाहत्वा सर्वपाञ्चालान्विमोक्ष्ये कवचं विभो
इति सत्यं ब्रवीम्येतत्तन्मे शृणु जनाधिप
तेषु संभाषमाणेषु व्याधास्तं देशमाययुः
मांसभारपरिश्रान्ताः पानीयार्थं यदृच्छया
ते हि नित्यं महाराज भीमसेनस्य लुब्धकाः
मांसभारानुपाजह्रुर्भक्त्या परमया विभो
ते तत्र विष्ठितास्तेषां सर्वं तद्वचनं रहः
दुर्योधनवचश्चैव शुश्रुवुः संगता मिथः
तेऽपि सर्वे महेष्वासा अयुद्धार्थिनि कौरवे
निर्बन्धं परमं चक्रुस्तदा वै युद्धकाङ्क्षिणः
तांस्तथा समुदीक्ष्याथ कौरवाणां महारथान्
अयुद्धमनसं चैव राजानं स्थितमम्भसि
तेषां श्रुत्वा च संवादं राज्ञश्च सलिले सतः
व्याधाभ्यजानन्राजेन्द्र सलिलस्थं सुयोधनम्
ते पूर्वं पाण्डुपुत्रेण पृष्टा ह्यासन्सुतं तव
यदृच्छोपगतास्तत्र राजानं परिमार्गिताः
ततस्ते पाण्डुपुत्रस्य स्मृत्वा तद्भाषितं तदा
अन्योन्यमब्रुवन्राजन्मृगव्याधाः शनैरिदम्
दुर्योधनं ख्यापयामो धनं दास्यति पाण्डवः
सुव्यक्तमिति नः ख्यातो ह्रदे दुर्योधनो नृपः