Mahabharata

Shalya Parva, Adhyaya 28

Containing 92 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shalya Parva, Adhyaya 28, Verse 1

ततः क्रुद्धा महाराज सौबलस्य पदानुगाः

त्यक्त्वा जीवितमाक्रन्दे पाण्डवान्पर्यवारयन्

Mahabharata

Shalya Parva, Adhyaya 28, Verse 2

तानर्जुनः प्रत्यगृह्णात्सहदेवजये धृतः

भीमसेनश्च तेजस्वी क्रुद्धाशीविषदर्शनः

Mahabharata

Shalya Parva, Adhyaya 28, Verse 3

शक्त्यृष्टिप्रासहस्तानां सहदेवं जिघांसताम्

संकल्पमकरोन्मोघं गाण्डीवेन धनंजयः

Mahabharata

Shalya Parva, Adhyaya 28, Verse 4

प्रगृहीतायुधान्बाहून्योधानामभिधावताम्

भल्लैश्चिच्छेद बीभत्सुः शिरांस्यपि हयानपि

Mahabharata

Shalya Parva, Adhyaya 28, Verse 5

ते हताः प्रत्यपद्यन्त वसुधां विगतासवः

त्वरिता लोकवीरेण प्रहताः सव्यसाचिना

Mahabharata

Shalya Parva, Adhyaya 28, Verse 6

ततो दुर्योधनो राजा दृष्ट्वा स्वबलसंक्षयम्

हतशेषान्समानीय क्रुद्धो रथशतान्विभो

Mahabharata

Shalya Parva, Adhyaya 28, Verse 7

कुञ्जरांश्च हयांश्चैव पादातांश्च परंतप

उवाच सहितान्सर्वान्धार्तराष्ट्र इदं वचः

Mahabharata

Shalya Parva, Adhyaya 28, Verse 8

समासाद्य रणे सर्वान्पाण्डवान्ससुहृद्गणान्

पाञ्चाल्यं चापि सबलं हत्वा शीघ्रं निवर्तत

Mahabharata

Shalya Parva, Adhyaya 28, Verse 9

तस्य ते शिरसा गृह्य वचनं युद्धदुर्मदाः

प्रत्युद्ययू रणे पार्थांस्तव पुत्रस्य शासनात्

Mahabharata

Shalya Parva, Adhyaya 28, Verse 10

तानभ्यापततः शीघ्रं हतशेषान्महारणे

शरैराशीविषाकारैः पाण्डवाः समवाकिरन्

Mahabharata

Shalya Parva, Adhyaya 28, Verse 11

तत्सैन्यं भरतश्रेष्ठ मुहूर्तेन महात्मभिः

अवध्यत रणं प्राप्य त्रातारं नाभ्यविन्दत

प्रतिष्ठमानं तु भयान्नावतिष्ठत दंशितम्

Mahabharata

Shalya Parva, Adhyaya 28, Verse 12

अश्वैर्विपरिधावद्भिः सैन्येन रजसा वृते

न प्राज्ञायन्त समरे दिशश्च प्रदिशस्तथा

Mahabharata

Shalya Parva, Adhyaya 28, Verse 13

ततस्तु पाण्डवानीकान्निःसृत्य बहवो जनाः

अभ्यघ्नंस्तावकान्युद्धे मुहूर्तादिव भारत

ततो निःशेषमभवत्तत्सैन्यं तव भारत

Mahabharata

Shalya Parva, Adhyaya 28, Verse 14

अक्षौहिण्यः समेतास्तु तव पुत्रस्य भारत

एकादश हता युद्धे ताः प्रभो पाण्डुसृञ्जयैः

Mahabharata

Shalya Parva, Adhyaya 28, Verse 15

तेषु राजसहस्रेषु तावकेषु महात्मसु

एको दुर्योधनो राजन्नदृश्यत भृशं क्षतः

Mahabharata

Shalya Parva, Adhyaya 28, Verse 16

ततो वीक्ष्य दिशः सर्वा दृष्ट्वा शून्यां च मेदिनीम्

विहीनः सर्वयोधैश्च पाण्डवान्वीक्ष्य संयुगे

Mahabharata

Shalya Parva, Adhyaya 28, Verse 17

मुदितान्सर्वसिद्धार्थान्नर्दमानान्समन्ततः

बाणशब्दरवांश्चैव श्रुत्वा तेषां महात्मनाम्

Mahabharata

Shalya Parva, Adhyaya 28, Verse 18

दुर्योधनो महाराज कश्मलेनाभिसंवृतः

अपयाने मनश्चक्रे विहीनबलवाहनः

Mahabharata

Shalya Parva, Adhyaya 28, Verse 19

निहते मामके सैन्ये निःशेषे शिबिरे कृते

पाण्डवानां बलं सूत किं नु शेषमभूत्तदा

एतन्मे पृच्छतो ब्रूहि कुशलो ह्यसि संजय

Mahabharata

Shalya Parva, Adhyaya 28, Verse 20

यच्च दुर्योधनो मन्दः कृतवांस्तनयो मम

बलक्षयं तथा दृष्ट्वा स एकः पृथिवीपतिः

Mahabharata

Shalya Parva, Adhyaya 28, Verse 21

रथानां द्वे सहस्रे तु सप्त नागशतानि च

पञ्च चाश्वसहस्राणि पत्तीनां च शतं शताः

Mahabharata

Shalya Parva, Adhyaya 28, Verse 22

एतच्छेषमभूद्राजन्पाण्डवानां महद्बलम्

परिगृह्य हि यद्युद्धे धृष्टद्युम्नो व्यवस्थितः

Mahabharata

Shalya Parva, Adhyaya 28, Verse 23

एकाकी भरतश्रेष्ठ ततो दुर्योधनो नृपः

नापश्यत्समरे कंचित्सहायं रथिनां वरः

Mahabharata

Shalya Parva, Adhyaya 28, Verse 24

नर्दमानान्परांश्चैव स्वबलस्य च संक्षयम्

हतं स्वहयमुत्सृज्य प्राङ्मुखः प्राद्रवद्भयात्

Mahabharata

Shalya Parva, Adhyaya 28, Verse 25

एकादशचमूभर्ता पुत्रो दुर्योधनस्तव

गदामादाय तेजस्वी पदातिः प्रस्थितो ह्रदम्

Mahabharata

Shalya Parva, Adhyaya 28, Verse 26

नातिदूरं ततो गत्वा पद्भ्यामेव नराधिपः

सस्मार वचनं क्षत्तुर्धर्मशीलस्य धीमतः

Mahabharata

Shalya Parva, Adhyaya 28, Verse 27

इदं नूनं महाप्राज्ञो विदुरो दृष्टवान्पुरा

महद्वैशसमस्माकं क्षत्रियाणां च संयुगे

Mahabharata

Shalya Parva, Adhyaya 28, Verse 28

एवं विचिन्तयानस्तु प्रविविक्षुर्ह्रदं नृपः

दुःखसंतप्तहृदयो दृष्ट्वा राजन्बलक्षयम्

Mahabharata

Shalya Parva, Adhyaya 28, Verse 29

पाण्डवाश्च महाराज धृष्टद्युम्नपुरोगमाः

अभ्यधावन्त संक्रुद्धास्तव राजन्बलं प्रति

Mahabharata

Shalya Parva, Adhyaya 28, Verse 30

शक्त्यृष्टिप्रासहस्तानां बलानामभिगर्जताम्

संकल्पमकरोन्मोघं गाण्डीवेन धनंजयः