Mahabharata

Shalya Parva, Adhyaya 27

Containing 63 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shalya Parva, Adhyaya 27, Verse 1

तस्मिन्प्रवृत्ते संग्रामे नरवाजिगजक्षये

शकुनिः सौबलो राजन्सहदेवं समभ्ययात्

Mahabharata

Shalya Parva, Adhyaya 27, Verse 2

ततोऽस्यापततस्तूर्णं सहदेवः प्रतापवान्

शरौघान्प्रेषयामास पतंगानिव शीघ्रगान्

उलूकश्च रणे भीमं विव्याध दशभिः शरैः

Mahabharata

Shalya Parva, Adhyaya 27, Verse 3

शकुनिस्तु महाराज भीमं विद्ध्वा त्रिभिः शरैः

सायकानां नवत्या वै सहदेवमवाकिरत्

Mahabharata

Shalya Parva, Adhyaya 27, Verse 4

ते शूराः समरे राजन्समासाद्य परस्परम्

विव्यधुर्निशितैर्बाणैः कङ्कबर्हिणवाजितैः

स्वर्णपुङ्खैः शिलाधौतैरा कर्णात्प्रहितैः शरैः

Mahabharata

Shalya Parva, Adhyaya 27, Verse 5

तेषां चापभुजोत्सृष्टा शरवृष्टिर्विशां पते

आच्छादयद्दिशः सर्वा धाराभिरिव तोयदः

Mahabharata

Shalya Parva, Adhyaya 27, Verse 6

ततः क्रुद्धो रणे भीमः सहदेवश्च भारत

चेरतुः कदनं संख्ये कुर्वन्तौ सुमहाबलौ

Mahabharata

Shalya Parva, Adhyaya 27, Verse 7

ताभ्यां शरशतैश्छन्नं तद्बलं तव भारत

अन्धकारमिवाकाशमभवत्तत्र तत्र ह

Mahabharata

Shalya Parva, Adhyaya 27, Verse 8

अश्वैर्विपरिधावद्भिः शरच्छन्नैर्विशां पते

तत्र तत्र कृतो मार्गो विकर्षद्भिर्हतान्बहून्

Mahabharata

Shalya Parva, Adhyaya 27, Verse 9

निहतानां हयानां च सहैव हययोधिभिः

वर्मभिर्विनिकृत्तैश्च प्रासैश्छिन्नैश्च मारिष

संछन्ना पृथिवी जज्ञे कुसुमैः शबला इव

Mahabharata

Shalya Parva, Adhyaya 27, Verse 10

योधास्तत्र महाराज समासाद्य परस्परम्

व्यचरन्त रणे क्रुद्धा विनिघ्नन्तः परस्परम्

Mahabharata

Shalya Parva, Adhyaya 27, Verse 11

उद्वृत्तनयनै रोषात्संदष्टौष्ठपुटैर्मुखैः

सकुण्डलैर्मही छन्ना पद्मकिञ्जल्कसंनिभैः

Mahabharata

Shalya Parva, Adhyaya 27, Verse 12

भुजैश्छिन्नैर्महाराज नागराजकरोपमैः

साङ्गदैः सतनुत्रैश्च सासिप्रासपरश्वधैः

Mahabharata

Shalya Parva, Adhyaya 27, Verse 13

कबन्धैरुत्थितैश्छिन्नैर्नृत्यद्भिश्चापरैर्युधि

क्रव्यादगणसंकीर्णा घोराभूत्पृथिवी विभो

Mahabharata

Shalya Parva, Adhyaya 27, Verse 14

अल्पावशिष्टे सैन्ये तु कौरवेयान्महाहवे

प्रहृष्टाः पाण्डवा भूत्वा निन्यिरे यमसादनम्

Mahabharata

Shalya Parva, Adhyaya 27, Verse 15

एतस्मिन्नन्तरे शूरः सौबलेयः प्रतापवान्

प्रासेन सहदेवस्य शिरसि प्राहरद्भृशम्

स विह्वलो महाराज रथोपस्थ उपाविशत्

Mahabharata

Shalya Parva, Adhyaya 27, Verse 16

सहदेवं तथा दृष्ट्वा भीमसेनः प्रतापवान्

सर्वसैन्यानि संक्रुद्धो वारयामास भारत

Mahabharata

Shalya Parva, Adhyaya 27, Verse 17

निर्बिभेद च नाराचैः शतशोऽथ सहस्रशः

विनिर्भिद्याकरोच्चैव सिंहनादमरिंदम

Mahabharata

Shalya Parva, Adhyaya 27, Verse 18

तेन शब्देन वित्रस्ताः सर्वे सहयवारणाः

प्राद्रवन्सहसा भीताः शकुनेश्च पदानुगाः

Mahabharata

Shalya Parva, Adhyaya 27, Verse 19

प्रभग्नानथ तान्दृष्ट्वा राजा दुर्योधनोऽब्रवीत्

निवर्तध्वमधर्मज्ञा युध्यध्वं किं सृतेन वः

Mahabharata

Shalya Parva, Adhyaya 27, Verse 20

इह कीर्तिं समाधाय प्रेत्य लोकान्समश्नुते

प्राणाञ्जहाति यो वीरो युधि पृष्ठमदर्शयन्

Mahabharata

Shalya Parva, Adhyaya 27, Verse 21

एवमुक्तास्तु ते राज्ञा सौबलस्य पदानुगाः

पाण्डवानभ्यवर्तन्त मृत्युं कृत्वा निवर्तनम्

Mahabharata

Shalya Parva, Adhyaya 27, Verse 22

द्रवद्भिस्तत्र राजेन्द्र कृतः शब्दोऽतिदारुणः

क्षुब्धसागरसंकाशः क्षुभितः सर्वतोऽभवत्

Mahabharata

Shalya Parva, Adhyaya 27, Verse 23

तांस्तदापततो दृष्ट्वा सौबलस्य पदानुगान्

प्रत्युद्ययुर्महाराज पाण्डवा विजये वृताः

Mahabharata

Shalya Parva, Adhyaya 27, Verse 24

प्रत्याश्वस्य च दुर्धर्षः सहदेवो विशां पते

शकुनिं दशभिर्विद्ध्वा हयांश्चास्य त्रिभिः शरैः

धनुश्चिच्छेद च शरैः सौबलस्य हसन्निव

Mahabharata

Shalya Parva, Adhyaya 27, Verse 25

अथान्यद्धनुरादाय शकुनिर्युद्धदुर्मदः

विव्याध नकुलं षष्ट्या भीमसेनं च सप्तभिः

Mahabharata

Shalya Parva, Adhyaya 27, Verse 26

उलूकोऽपि महाराज भीमं विव्याध सप्तभिः

सहदेवं च सप्तत्या परीप्सन्पितरं रणे

Mahabharata

Shalya Parva, Adhyaya 27, Verse 27

तं भीमसेनः समरे विव्याध निशितैः शरैः

शकुनिं च चतुःषष्ट्या पार्श्वस्थांश्च त्रिभिस्त्रिभिः

Mahabharata

Shalya Parva, Adhyaya 27, Verse 28

ते हन्यमाना भीमेन नाराचैस्तैलपायितैः

सहदेवं रणे क्रुद्धाश्छादयञ्शरवृष्टिभिः

पर्वतं वारिधाराभिः सविद्युत इवाम्बुदाः

Mahabharata

Shalya Parva, Adhyaya 27, Verse 29

ततोऽस्यापततः शूरः सहदेवः प्रतापवान्

उलूकस्य महाराज भल्लेनापाहरच्छिरः

Mahabharata

Shalya Parva, Adhyaya 27, Verse 30

स जगाम रथाद्भूमिं सहदेवेन पातितः

रुधिराप्लुतसर्वाङ्गो नन्दयन्पाण्डवान्युधि