Mahabharata

Shalya Parva, Adhyaya 24

Containing 56 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shalya Parva, Adhyaya 24, Verse 1

अस्यतां यतमानानां शूराणामनिवर्तिनाम्

संकल्पमकरोन्मोघं गाण्डीवेन धनंजयः

Mahabharata

Shalya Parva, Adhyaya 24, Verse 2

इन्द्राशनिसमस्पर्शानविषह्यान्महौजसः

विसृजन्दृश्यते बाणान्धारा मुञ्चन्निवाम्बुदः

Mahabharata

Shalya Parva, Adhyaya 24, Verse 3

तत्सैन्यं भरतश्रेष्ठ वध्यमानं किरीटिना

संप्रदुद्राव संग्रामात्तव पुत्रस्य पश्यतः

Mahabharata

Shalya Parva, Adhyaya 24, Verse 4

हतधुर्या रथाः केचिद्धतसूतास्तथापरे

भग्नाक्षयुगचक्रेषाः केचिदासन्विशां पते

Mahabharata

Shalya Parva, Adhyaya 24, Verse 5

अन्येषां सायकाः क्षीणास्तथान्ये शरपीडिताः

अक्षता युगपत्केचित्प्राद्रवन्भयपीडिताः

Mahabharata

Shalya Parva, Adhyaya 24, Verse 6

केचित्पुत्रानुपादाय हतभूयिष्ठवाहनाः

विचुक्रुशुः पितॄनन्ये सहायानपरे पुनः

Mahabharata

Shalya Parva, Adhyaya 24, Verse 7

बान्धवांश्च नरव्याघ्र भ्रातॄन्संबन्धिनस्तथा

दुद्रुवुः केचिदुत्सृज्य तत्र तत्र विशां पते

Mahabharata

Shalya Parva, Adhyaya 24, Verse 8

बहवोऽत्र भृशं विद्धा मुह्यमाना महारथाः

निष्टनन्तः स्म दृश्यन्ते पार्थबाणहता नराः

Mahabharata

Shalya Parva, Adhyaya 24, Verse 9

तानन्ये रथमारोप्य समाश्वास्य मुहूर्तकम्

विश्रान्ताश्च वितृष्णाश्च पुनर्युद्धाय जग्मिरे

Mahabharata

Shalya Parva, Adhyaya 24, Verse 10

तानपास्य गताः केचित्पुनरेव युयुत्सवः

कुर्वन्तस्तव पुत्रस्य शासनं युद्धदुर्मदाः

Mahabharata

Shalya Parva, Adhyaya 24, Verse 11

पानीयमपरे पीत्वा पर्याश्वास्य च वाहनम्

वर्माणि च समारोप्य केचिद्भरतसत्तम

Mahabharata

Shalya Parva, Adhyaya 24, Verse 12

समाश्वास्यापरे भ्रातॄन्निक्षिप्य शिबिरेऽपि च

पुत्रानन्ये पितॄनन्ये पुनर्युद्धमरोचयन्

Mahabharata

Shalya Parva, Adhyaya 24, Verse 13

सज्जयित्वा रथान्केचिद्यथामुख्यं विशां पते

आप्लुत्य पाण्डवानीकं पुनर्युद्धमरोचयन्

Mahabharata

Shalya Parva, Adhyaya 24, Verse 14

ते शूराः किङ्किणीजालैः समाच्छन्ना बभासिरे

त्रैलोक्यविजये युक्ता यथा दैतेयदानवाः

Mahabharata

Shalya Parva, Adhyaya 24, Verse 15

आगम्य सहसा केचिद्रथैः स्वर्णविभूषितैः

पाण्डवानामनीकेषु धृष्टद्युम्नमयोधयन्

Mahabharata

Shalya Parva, Adhyaya 24, Verse 16

धृष्टद्युम्नोऽपि पाञ्चाल्यः शिखण्डी च महारथः

नाकुलिश्च शतानीको रथानीकमयोधयन्

Mahabharata

Shalya Parva, Adhyaya 24, Verse 17

पाञ्चाल्यस्तु ततः क्रुद्धः सैन्येन महता वृतः

अभ्यद्रवत्सुसंरब्धस्तावकान्हन्तुमुद्यतः

Mahabharata

Shalya Parva, Adhyaya 24, Verse 18

ततस्त्वापततस्तस्य तव पुत्रो जनाधिप

बाणसंघाननेकान्वै प्रेषयामास भारत

Mahabharata

Shalya Parva, Adhyaya 24, Verse 19

धृष्टद्युम्नस्ततो राजंस्तव पुत्रेण धन्विना

नाराचैर्बहुभिः क्षिप्रं बाह्वोरुरसि चार्पितः

Mahabharata

Shalya Parva, Adhyaya 24, Verse 20

सोऽतिविद्धो महेष्वासस्तोत्त्रार्दित इव द्विपः

तस्याश्वांश्चतुरो बाणैः प्रेषयामास मृत्यवे

सारथेश्चास्य भल्लेन शिरः कायादपाहरत्

Mahabharata

Shalya Parva, Adhyaya 24, Verse 21

ततो दुर्योधनो राजा पृष्ठमारुह्य वाजिनः

अपाक्रामद्धतरथो नातिदूरमरिंदमः

Mahabharata

Shalya Parva, Adhyaya 24, Verse 22

दृष्ट्वा तु हतविक्रान्तं स्वमनीकं महाबलः

तव पुत्रो महाराज प्रययौ यत्र सौबलः

Mahabharata

Shalya Parva, Adhyaya 24, Verse 23

ततो रथेषु भग्नेषु त्रिसाहस्रा महाद्विपाः

पाण्डवान्रथिनः पञ्च समन्तात्पर्यवारयन्

Mahabharata

Shalya Parva, Adhyaya 24, Verse 24

ते वृताः समरे पञ्च गजानीकेन भारत

अशोभन्त नरव्याघ्रा ग्रहा व्याप्ता घनैरिव

Mahabharata

Shalya Parva, Adhyaya 24, Verse 25

ततोऽर्जुनो महाराज लब्धलक्षो महाभुजः

विनिर्ययौ रथेनैव श्वेताश्वः कृष्णसारथिः

Mahabharata

Shalya Parva, Adhyaya 24, Verse 26

तैः समन्तात्परिवृतः कुञ्जरैः पर्वतोपमैः

नाराचैर्विमलैस्तीक्ष्णैर्गजानीकमपोथयत्

Mahabharata

Shalya Parva, Adhyaya 24, Verse 27

तत्रैकबाणनिहतानपश्याम महागजान्

पतितान्पात्यमानांश्च विभिन्नान्सव्यसाचिना

Mahabharata

Shalya Parva, Adhyaya 24, Verse 28

भीमसेनस्तु तान्दृष्ट्वा नागान्मत्तगजोपमः

करेण गृह्य महतीं गदामभ्यपतद्बली

अवप्लुत्य रथात्तूर्णं दण्डपाणिरिवान्तकः

Mahabharata

Shalya Parva, Adhyaya 24, Verse 29

तमुद्यतगदं दृष्ट्वा पाण्डवानां महारथम्

वित्रेसुस्तावकाः सैन्याः शकृन्मूत्रं प्रसुस्रुवुः

आविग्नं च बलं सर्वं गदाहस्ते वृकोदरे

Mahabharata

Shalya Parva, Adhyaya 24, Verse 30

गदया भीमसेनेन भिन्नकुम्भान्रजस्वलान्

धावमानानपश्याम कुञ्जरान्पर्वतोपमान्