Mahabharata

Shalya Parva, Adhyaya 23

Containing 64 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shalya Parva, Adhyaya 23, Verse 1

तस्मिञ्शब्दे मृदौ जाते पाण्डवैर्निहते बले

अश्वैः सप्तशतैः शिष्टैरुपावर्तत सौबलः

Mahabharata

Shalya Parva, Adhyaya 23, Verse 2

स यात्वा वाहिनीं तूर्णमब्रवीत्त्वरयन्युधि

युध्यध्वमिति संहृष्टाः पुनः पुनररिंदमः

अपृच्छत्क्षत्रियांस्तत्र क्व नु राजा महारथः

Mahabharata

Shalya Parva, Adhyaya 23, Verse 3

शकुनेस्तु वचः श्रुत्वा त ऊचुर्भरतर्षभ

असौ तिष्ठति कौरव्यो रणमध्ये महारथः

Mahabharata

Shalya Parva, Adhyaya 23, Verse 4

यत्रैतत्सुमहच्छत्रं पूर्णचन्द्रसमप्रभम्

यत्रैते सतलत्राणा रथास्तिष्ठन्ति दंशिताः

Mahabharata

Shalya Parva, Adhyaya 23, Verse 5

यत्रैष शब्दस्तुमुलः पर्जन्यनिनदोपमः

तत्र गच्छ द्रुतं राजंस्ततो द्रक्ष्यसि कौरवम्

Mahabharata

Shalya Parva, Adhyaya 23, Verse 6

एवमुक्तस्तु तैः शूरैः शकुनिः सौबलस्तदा

प्रययौ तत्र यत्रासौ पुत्रस्तव नराधिप

सर्वतः संवृतो वीरैः समरेष्वनिवर्तिभिः

Mahabharata

Shalya Parva, Adhyaya 23, Verse 7

ततो दुर्योधनं दृष्ट्वा रथानीके व्यवस्थितम्

सरथांस्तावकान्सर्वान्हर्षयञ्शकुनिस्ततः

Mahabharata

Shalya Parva, Adhyaya 23, Verse 8

दुर्योधनमिदं वाक्यं हृष्टरूपो विशां पते

कृतकार्यमिवात्मानं मन्यमानोऽब्रवीन्नृपम्

Mahabharata

Shalya Parva, Adhyaya 23, Verse 9

जहि राजन्रथानीकमश्वाः सर्वे जिता मया

नात्यक्त्वा जीवितं संख्ये शक्यो जेतुं युधिष्ठिरः

Mahabharata

Shalya Parva, Adhyaya 23, Verse 10

हते तस्मिन्रथानीके पाण्डवेनाभिपालिते

गजानेतान्हनिष्यामः पदातींश्चेतरांस्तथा

Mahabharata

Shalya Parva, Adhyaya 23, Verse 11

श्रुत्वा तु वचनं तस्य तावका जयगृद्धिनः

जवेनाभ्यपतन्हृष्टाः पाण्डवानामनीकिनीम्

Mahabharata

Shalya Parva, Adhyaya 23, Verse 12

सर्वे विवृततूणीराः प्रगृहीतशरासनाः

शरासनानि धुन्वानाः सिंहनादं प्रचक्रिरे

Mahabharata

Shalya Parva, Adhyaya 23, Verse 13

ततो ज्यातलनिर्घोषः पुनरासीद्विशां पते

प्रादुरासीच्छराणां च सुमुक्तानां सुदारुणः

Mahabharata

Shalya Parva, Adhyaya 23, Verse 14

तान्समीपगतान्दृष्ट्वा जवेनोद्यतकार्मुकान्

उवाच देवकीपुत्रं कुन्तीपुत्रो धनंजयः

Mahabharata

Shalya Parva, Adhyaya 23, Verse 15

चोदयाश्वानसंभ्रान्तः प्रविशैतद्बलार्णवम्

अन्तमद्य गमिष्यामि शत्रूणां निशितैः शरैः

Mahabharata

Shalya Parva, Adhyaya 23, Verse 16

अष्टादश दिनान्यद्य युद्धस्यास्य जनार्दन

वर्तमानस्य महतः समासाद्य परस्परम्

Mahabharata

Shalya Parva, Adhyaya 23, Verse 17

अनन्तकल्पा ध्वजिनी भूत्वा ह्येषां महात्मनाम्

क्षयमद्य गता युद्धे पश्य दैवं यथाविधम्

Mahabharata

Shalya Parva, Adhyaya 23, Verse 18

समुद्रकल्पं तु बलं धार्तराष्ट्रस्य माधव

अस्मानासाद्य संजातं गोष्पदोपममच्युत

Mahabharata

Shalya Parva, Adhyaya 23, Verse 19

हते भीष्मे च संदध्याच्छिवं स्यादिह माधव

न च तत्कृतवान्मूढो धार्तराष्ट्रः सुबालिशः

Mahabharata

Shalya Parva, Adhyaya 23, Verse 20

उक्तं भीष्मेण यद्वाक्यं हितं पथ्यं च माधव

तच्चापि नासौ कृतवान्वीतबुद्धिः सुयोधनः

Mahabharata

Shalya Parva, Adhyaya 23, Verse 21

तस्मिंस्तु पतिते भीष्मे प्रच्युते पृथिवीतले

न जाने कारणं किं नु येन युद्धमवर्तत

Mahabharata

Shalya Parva, Adhyaya 23, Verse 22

मूढांस्तु सर्वथा मन्ये धार्तराष्ट्रान्सुबालिशान्

पतिते शंतनोः पुत्रे येऽकार्षुः संयुगं पुनः

Mahabharata

Shalya Parva, Adhyaya 23, Verse 23

अनन्तरं च निहते द्रोणे ब्रह्मविदां वरे

राधेये च विकर्णे च नैवाशाम्यत वैशसम्

Mahabharata

Shalya Parva, Adhyaya 23, Verse 24

अल्पावशिष्टे सैन्येऽस्मिन्सूतपुत्रे च पातिते

सपुत्रे वै नरव्याघ्रे नैवाशाम्यत वैशसम्

Mahabharata

Shalya Parva, Adhyaya 23, Verse 25

श्रुतायुषि हते शूरे जलसंधे च पौरवे

श्रुतायुधे च नृपतौ नैवाशाम्यत वैशसम्

Mahabharata

Shalya Parva, Adhyaya 23, Verse 26

भूरिश्रवसि शल्ये च शाल्वे चैव जनार्दन

आवन्त्येषु च वीरेषु नैवाशाम्यत वैशसम्

Mahabharata

Shalya Parva, Adhyaya 23, Verse 27

जयद्रथे च निहते राक्षसे चाप्यलायुधे

बाह्लिके सोमदत्ते च नैवाशाम्यत वैशसम्

Mahabharata

Shalya Parva, Adhyaya 23, Verse 28

भगदत्ते हते शूरे काम्बोजे च सुदक्षिणे

दुःशासने च निहते नैवाशाम्यत वैशसम्

Mahabharata

Shalya Parva, Adhyaya 23, Verse 29

दृष्ट्वा च निहताञ्शूरान्पृथङ्माण्डलिकान्नृपान्

बलिनश्च रणे कृष्ण नैवाशाम्यत वैशसम्

Mahabharata

Shalya Parva, Adhyaya 23, Verse 30

अक्षौहिणीपतीन्दृष्ट्वा भीमसेनेन पातितान्

मोहाद्वा यदि वा लोभान्नैवाशाम्यत वैशसम्