Mahabharata

Shalya Parva, Adhyaya 21

Containing 44 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shalya Parva, Adhyaya 21, Verse 1

पुत्रस्तु ते महाराज रथस्थो रथिनां वरः

दुरुत्सहो बभौ युद्धे यथा रुद्रः प्रतापवान्

Mahabharata

Shalya Parva, Adhyaya 21, Verse 2

तस्य बाणसहस्रैस्तु प्रच्छन्ना ह्यभवन्मही

परांश्च सिषिचे बाणैर्धाराभिरिव पर्वतान्

Mahabharata

Shalya Parva, Adhyaya 21, Verse 3

न च सोऽस्ति पुमान्कश्चित्पाण्डवानां महाहवे

हयो गजो रथो वापि योऽस्य बाणैरविक्षतः

Mahabharata

Shalya Parva, Adhyaya 21, Verse 4

यं यं हि समरे योधं प्रपश्यामि विशां पते

स स बाणैश्चितोऽभूद्वै पुत्रेण तव भारत

Mahabharata

Shalya Parva, Adhyaya 21, Verse 5

यथा सैन्येन रजसा समुद्धूतेन वाहिनी

प्रत्यदृश्यत संछन्ना तथा बाणैर्महात्मनः

Mahabharata

Shalya Parva, Adhyaya 21, Verse 6

बाणभूतामपश्याम पृथिवीं पृथिवीपते

दुर्योधनेन प्रकृतां क्षिप्रहस्तेन धन्विना

Mahabharata

Shalya Parva, Adhyaya 21, Verse 7

तेषु योधसहस्रेषु तावकेषु परेषु च

एको दुर्योधनो ह्यासीत्पुमानिति मतिर्मम

Mahabharata

Shalya Parva, Adhyaya 21, Verse 8

तत्राद्भुतमपश्याम तव पुत्रस्य विक्रमम्

यदेकं सहिताः पार्था नात्यवर्तन्त भारत

Mahabharata

Shalya Parva, Adhyaya 21, Verse 9

युधिष्ठिरं शतेनाजौ विव्याध भरतर्षभ

भीमसेनं च सप्तत्या सहदेवं च सप्तभिः

Mahabharata

Shalya Parva, Adhyaya 21, Verse 10

नकुलं च चतुःषष्ट्या धृष्टद्युम्नं च पञ्चभिः

सप्तभिर्द्रौपदेयांश्च त्रिभिर्विव्याध सात्यकिम्

धनुश्चिच्छेद भल्लेन सहदेवस्य मारिष

Mahabharata

Shalya Parva, Adhyaya 21, Verse 11

तदपास्य धनुश्छिन्नं माद्रीपुत्रः प्रतापवान्

अभ्यधावत राजानं प्रगृह्यान्यन्महद्धनुः

ततो दुर्योधनं संख्ये विव्याध दशभिः शरैः

Mahabharata

Shalya Parva, Adhyaya 21, Verse 12

नकुलश्च ततो वीरो राजानं नवभिः शरैः

घोररूपैर्महेष्वासो विव्याध च ननाद च

Mahabharata

Shalya Parva, Adhyaya 21, Verse 13

सात्यकिश्चापि राजानं शरेणानतपर्वणा

द्रौपदेयास्त्रिसप्तत्या धर्मराजश्च सप्तभिः

अशीत्या भीमसेनश्च शरै राजानमार्दयत्

Mahabharata

Shalya Parva, Adhyaya 21, Verse 14

समन्तात्कीर्यमाणस्तु बाणसंघैर्महात्मभिः

न चचाल महाराज सर्वसैन्यस्य पश्यतः

Mahabharata

Shalya Parva, Adhyaya 21, Verse 15

लाघवं सौष्ठवं चापि वीर्यं चैव महात्मनः

अति सर्वाणि भूतानि ददृशुः सर्वमानवाः

Mahabharata

Shalya Parva, Adhyaya 21, Verse 16

धार्तराष्ट्रास्तु राजेन्द्र यात्वा तु स्वल्पमन्तरम्

अपश्यमाना राजानं पर्यवर्तन्त दंशिताः

Mahabharata

Shalya Parva, Adhyaya 21, Verse 17

तेषामापततां घोरस्तुमुलः समजायत

क्षुब्धस्य हि समुद्रस्य प्रावृट्काले यथा निशि

Mahabharata

Shalya Parva, Adhyaya 21, Verse 18

समासाद्य रणे ते तु राजानमपराजितम्

प्रत्युद्ययुर्महेष्वासाः पाण्डवानाततायिनः

Mahabharata

Shalya Parva, Adhyaya 21, Verse 19

भीमसेनं रणे क्रुद्धं द्रोणपुत्रो न्यवारयत्

ततो बाणैर्महाराज प्रमुक्तैः सर्वतोदिशम्

नाज्ञायन्त रणे वीरा न दिशः प्रदिशस्तथा

Mahabharata

Shalya Parva, Adhyaya 21, Verse 20

तावुभौ क्रूरकर्माणावुभौ भारत दुःसहौ

घोररूपमयुध्येतां कृतप्रतिकृतैषिणौ

त्रासयन्तौ जगत्सर्वं ज्याक्षेपविहतत्वचौ

Mahabharata

Shalya Parva, Adhyaya 21, Verse 21

शकुनिस्तु रणे वीरो युधिष्ठिरमपीडयत्

तस्याश्वांश्चतुरो हत्वा सुबलस्य सुतो विभुः

नादं चकार बलवान्सर्वसैन्यानि कम्पयन्

Mahabharata

Shalya Parva, Adhyaya 21, Verse 22

एतस्मिन्नन्तरे वीरं राजानमपराजितम्

अपोवाह रथेनाजौ सहदेवः प्रतापवान्

Mahabharata

Shalya Parva, Adhyaya 21, Verse 23

अथान्यं रथमास्थाय धर्मराजो युधिष्ठिरः

शकुनिं नवभिर्विद्ध्वा पुनर्विव्याध पञ्चभिः

ननाद च महानादं प्रवरः सर्वधन्विनाम्

Mahabharata

Shalya Parva, Adhyaya 21, Verse 24

तद्युद्धमभवच्चित्रं घोररूपं च मारिष

ईक्षितृप्रीतिजननं सिद्धचारणसेवितम्

Mahabharata

Shalya Parva, Adhyaya 21, Verse 25

उलूकस्तु महेष्वासं नकुलं युद्धदुर्मदम्

अभ्यद्रवदमेयात्मा शरवर्षैः समन्ततः

Mahabharata

Shalya Parva, Adhyaya 21, Verse 26

तथैव नकुलः शूरः सौबलस्य सुतं रणे

शरवर्षेण महता समन्तात्पर्यवारयत्

Mahabharata

Shalya Parva, Adhyaya 21, Verse 27

तौ तत्र समरे वीरौ कुलपुत्रौ महारथौ

योधयन्तावपश्येतां परस्परकृतागसौ

Mahabharata

Shalya Parva, Adhyaya 21, Verse 28

तथैव कृतवर्मा तु शैनेयं शत्रुतापनम्

योधयञ्शुशुभे राजन्बलं शक्र इवाहवे

Mahabharata

Shalya Parva, Adhyaya 21, Verse 29

दुर्योधनो धनुश्छित्त्वा धृष्टद्युम्नस्य संयुगे

अथैनं छिन्नधन्वानं विव्याध निशितैः शरैः

Mahabharata

Shalya Parva, Adhyaya 21, Verse 30

धृष्टद्युम्नोऽपि समरे प्रगृह्य परमायुधम्

राजानं योधयामास पश्यतां सर्वधन्विनाम्