Mahabharata

Shalya Parva, Adhyaya 20

Containing 36 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shalya Parva, Adhyaya 20, Verse 1

तस्मिंस्तु निहते शूरे शाल्वे समितिशोभने

तवाभज्यद्बलं वेगाद्वातेनेव महाद्रुमः

Mahabharata

Shalya Parva, Adhyaya 20, Verse 2

तत्प्रभग्नं बलं दृष्ट्वा कृतवर्मा महारथः

दधार समरे शूरः शत्रुसैन्यं महाबलः

Mahabharata

Shalya Parva, Adhyaya 20, Verse 3

संनिवृत्तास्तु ते शूरा दृष्ट्वा सात्वतमाहवे

शैलोपमं स्थितं राजन्कीर्यमाणं शरैर्युधि

Mahabharata

Shalya Parva, Adhyaya 20, Verse 4

ततः प्रववृते युद्धं कुरूणां पाण्डवैः सह

निवृत्तानां महाराज मृत्युं कृत्वा निवर्तनम्

Mahabharata

Shalya Parva, Adhyaya 20, Verse 5

तत्राश्चर्यमभूद्युद्धं सात्वतस्य परैः सह

यदेको वारयामास पाण्डुसेनां दुरासदाम्

Mahabharata

Shalya Parva, Adhyaya 20, Verse 6

तेषामन्योन्यसुहृदां कृते कर्मणि दुष्करे

सिंहनादः प्रहृष्टानां दिवःस्पृक्सुमहानभूत्

Mahabharata

Shalya Parva, Adhyaya 20, Verse 7

तेन शब्देन वित्रस्तान्पाञ्चालान्भरतर्षभ

शिनेर्नप्ता महाबाहुरन्वपद्यत सात्यकिः

Mahabharata

Shalya Parva, Adhyaya 20, Verse 8

स समासाद्य राजानं क्षेमधूर्तिं महाबलम्

सप्तभिर्निशितैर्बाणैरनयद्यमसादनम्

Mahabharata

Shalya Parva, Adhyaya 20, Verse 9

तमायान्तं महाबाहुं प्रवपन्तं शिताञ्शरान्

जवेनाभ्यपतद्धीमान्हार्दिक्यः शिनिपुंगवम्

Mahabharata

Shalya Parva, Adhyaya 20, Verse 10

तौ सिंहाविव नर्दन्तौ धन्विनौ रथिनां वरौ

अन्योन्यमभ्यधावेतां शस्त्रप्रवरधारिणौ

Mahabharata

Shalya Parva, Adhyaya 20, Verse 11

पाण्डवाः सह पाञ्चालैर्योधाश्चान्ये नृपोत्तमाः

प्रेक्षकाः समपद्यन्त तयोः पुरुषसिंहयोः

Mahabharata

Shalya Parva, Adhyaya 20, Verse 12

नाराचैर्वत्सदन्तैश्च वृष्ण्यन्धकमहारथौ

अभिजघ्नतुरन्योन्यं प्रहृष्टाविव कुञ्जरौ

Mahabharata

Shalya Parva, Adhyaya 20, Verse 13

चरन्तौ विविधान्मार्गान्हार्दिक्यशिनिपुंगवौ

मुहुरन्तर्दधाते तौ बाणवृष्ट्या परस्परम्

Mahabharata

Shalya Parva, Adhyaya 20, Verse 14

चापवेगबलोद्धूतान्मार्गणान्वृष्णिसिंहयोः

आकाशे समपश्याम पतंगानिव शीघ्रगान्

Mahabharata

Shalya Parva, Adhyaya 20, Verse 15

तमेकं सत्यकर्माणमासाद्य हृदिकात्मजः

अविध्यन्निशितैर्बाणैश्चतुर्भिश्चतुरो हयान्

Mahabharata

Shalya Parva, Adhyaya 20, Verse 16

स दीर्घबाहुः संक्रुद्धस्तोत्त्रार्दित इव द्विपः

अष्टाभिः कृतवर्माणमविध्यत्परमेषुभिः

Mahabharata

Shalya Parva, Adhyaya 20, Verse 17

ततः पूर्णायतोत्सृष्टैः कृतवर्मा शिलाशितैः

सात्यकिं त्रिभिराहत्य धनुरेकेन चिच्छिदे

Mahabharata

Shalya Parva, Adhyaya 20, Verse 18

निकृत्तं तद्धनुःश्रेष्ठमपास्य शिनिपुंगवः

अन्यदादत्त वेगेन शैनेयः सशरं धनुः

Mahabharata

Shalya Parva, Adhyaya 20, Verse 19

तदादाय धनुःश्रेष्ठं वरिष्ठः सर्वधन्विनाम्

आरोप्य च महावीर्यो महाबुद्धिर्महाबलः

Mahabharata

Shalya Parva, Adhyaya 20, Verse 20

अमृष्यमाणो धनुषश्छेदनं कृतवर्मणा

कुपितोऽतिरथः शीघ्रं कृतवर्माणमभ्ययात्

Mahabharata

Shalya Parva, Adhyaya 20, Verse 21

ततः सुनिशितैर्बाणैर्दशभिः शिनिपुंगवः

जघान सूतमश्वांश्च ध्वजं च कृतवर्मणः

Mahabharata

Shalya Parva, Adhyaya 20, Verse 22

ततो राजन्महेष्वासः कृतवर्मा महारथः

हताश्वसूतं संप्रेक्ष्य रथं हेमपरिष्कृतम्

Mahabharata

Shalya Parva, Adhyaya 20, Verse 23

रोषेण महताविष्टः शूलमुद्यम्य मारिष

चिक्षेप भुजवेगेन जिघांसुः शिनिपुंगवम्

Mahabharata

Shalya Parva, Adhyaya 20, Verse 24

तच्छूलं सात्वतो ह्याजौ निर्भिद्य निशितैः शरैः

चूर्णितं पातयामास मोहयन्निव माधवम्

ततोऽपरेण भल्लेन हृद्येनं समताडयत्

Mahabharata

Shalya Parva, Adhyaya 20, Verse 25

स युद्धे युयुधानेन हताश्वो हतसारथिः

कृतवर्मा कृतास्त्रेण धरणीमन्वपद्यत

Mahabharata

Shalya Parva, Adhyaya 20, Verse 26

तस्मिन्सात्यकिना वीरे द्वैरथे विरथीकृते

समपद्यत सर्वेषां सैन्यानां सुमहद्भयम्

Mahabharata

Shalya Parva, Adhyaya 20, Verse 27

पुत्रस्य तव चात्यर्थं विषादः समपद्यत

हतसूते हताश्वे च विरथे कृतवर्मणि

Mahabharata

Shalya Parva, Adhyaya 20, Verse 28

हताश्वं च समालक्ष्य हतसूतमरिंदमम्

अभ्यधावत्कृपो राजञ्जिघांसुः शिनिपुंगवम्

Mahabharata

Shalya Parva, Adhyaya 20, Verse 29

तमारोप्य रथोपस्थे मिषतां सर्वधन्विनाम्

अपोवाह महाबाहुस्तूर्णमायोधनादपि

Mahabharata

Shalya Parva, Adhyaya 20, Verse 30

शैनेयेऽधिष्ठिते राजन्विरथे कृतवर्मणि

दुर्योधनबलं सर्वं पुनरासीत्पराङ्मुखम्