Mahabharata

Shalya Parva, Adhyaya 18

Containing 65 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shalya Parva, Adhyaya 18, Verse 1

पातिते युधि दुर्धर्षे मद्रराजे महारथे

तावकास्तव पुत्राश्च प्रायशो विमुखाभवन्

Mahabharata

Shalya Parva, Adhyaya 18, Verse 2

वणिजो नावि भिन्नायां यथागाधेऽप्लवेऽर्णवे

अपारे पारमिच्छन्तो हते शूरे महात्मनि

Mahabharata

Shalya Parva, Adhyaya 18, Verse 3

मद्रराजे महाराज वित्रस्ताः शरविक्षताः

अनाथा नाथमिच्छन्तो मृगाः सिंहार्दिता इव

Mahabharata

Shalya Parva, Adhyaya 18, Verse 4

वृषा यथा भग्नशृङ्गाः शीर्णदन्ता गजा इव

मध्याह्ने प्रत्यपायाम निर्जिता धर्मसूनुना

Mahabharata

Shalya Parva, Adhyaya 18, Verse 5

न संधातुमनीकानि न च राजन्पराक्रमे

आसीद्बुद्धिर्हते शल्ये तव योधस्य कस्यचित्

Mahabharata

Shalya Parva, Adhyaya 18, Verse 6

भीष्मे द्रोणे च निहते सूतपुत्रे च भारत

यद्दुःखं तव योधानां भयं चासीद्विशां पते

तद्भयं स च नः शोको भूय एवाभ्यवर्तत

Mahabharata

Shalya Parva, Adhyaya 18, Verse 7

निराशाश्च जये तस्मिन्हते शल्ये महारथे

हतप्रवीरा विध्वस्ता विकृत्ताश्च शितैः शरैः

मद्रराजे हते राजन्योधास्ते प्राद्रवन्भयात्

Mahabharata

Shalya Parva, Adhyaya 18, Verse 8

अश्वानन्ये गजानन्ये रथानन्ये महारथाः

आरुह्य जवसंपन्नाः पादाताः प्राद्रवन्भयात्

Mahabharata

Shalya Parva, Adhyaya 18, Verse 9

द्विसाहस्राश्च मातङ्गा गिरिरूपाः प्रहारिणः

संप्राद्रवन्हते शल्ये अङ्कुशाङ्गुष्ठचोदिताः

Mahabharata

Shalya Parva, Adhyaya 18, Verse 10

ते रणाद्भरतश्रेष्ठ तावकाः प्राद्रवन्दिशः

धावन्तश्चाप्यदृश्यन्त श्वसमानाः शरातुराः

Mahabharata

Shalya Parva, Adhyaya 18, Verse 11

तान्प्रभग्नान्द्रुतान्दृष्ट्वा हतोत्साहान्पराजितान्

अभ्यद्रवन्त पाञ्चालाः पाण्डवाश्च जयैषिणः

Mahabharata

Shalya Parva, Adhyaya 18, Verse 12

बाणशब्दरवश्चापि सिंहनादश्च पुष्कलः

शङ्खशब्दश्च शूराणां दारुणः समपद्यत

Mahabharata

Shalya Parva, Adhyaya 18, Verse 13

दृष्ट्वा तु कौरवं सैन्यं भयत्रस्तं प्रविद्रुतम्

अन्योन्यं समभाषन्त पाञ्चालाः पाण्डवैः सह

Mahabharata

Shalya Parva, Adhyaya 18, Verse 14

अद्य राजा सत्यधृतिर्जितामित्रो युधिष्ठिरः

अद्य दुर्योधनो हीनो दीप्तया नृपतिश्रिया

Mahabharata

Shalya Parva, Adhyaya 18, Verse 15

अद्य श्रुत्वा हतं पुत्रं धृतराष्ट्रो जनेश्वरः

निःसंज्ञः पतितो भूमौ किल्बिषं प्रतिपद्यताम्

Mahabharata

Shalya Parva, Adhyaya 18, Verse 16

अद्य जानातु कौन्तेयं समर्थं सर्वधन्विनाम्

अद्यात्मानं च दुर्मेधा गर्हयिष्यति पापकृत्

अद्य क्षत्तुर्वचः सत्यं स्मरतां ब्रुवतो हितम्

Mahabharata

Shalya Parva, Adhyaya 18, Verse 17

अद्यप्रभृति पार्थांश्च प्रेष्यभूत उपाचरन्

विजानातु नृपो दुःखं यत्प्राप्तं पाण्डुनन्दनैः

Mahabharata

Shalya Parva, Adhyaya 18, Verse 18

अद्य कृष्णस्य माहात्म्यं जानातु स महीपतिः

अद्यार्जुनधनुर्घोषं घोरं जानातु संयुगे

Mahabharata

Shalya Parva, Adhyaya 18, Verse 19

अस्त्राणां च बलं सर्वं बाह्वोश्च बलमाहवे

अद्य ज्ञास्यति भीमस्य बलं घोरं महात्मनः

Mahabharata

Shalya Parva, Adhyaya 18, Verse 20

हते दुर्योधने युद्धे शक्रेणेवासुरे मये

यत्कृतं भीमसेनेन दुःशासनवधे तदा

नान्यः कर्तास्ति लोके तदृते भीमं महाबलम्

Mahabharata

Shalya Parva, Adhyaya 18, Verse 21

जानीतामद्य ज्येष्ठस्य पाण्डवस्य पराक्रमम्

मद्रराजं हतं श्रुत्वा देवैरपि सुदुःसहम्

Mahabharata

Shalya Parva, Adhyaya 18, Verse 22

अद्य ज्ञास्यति संग्रामे माद्रीपुत्रौ महाबलौ

निहते सौबले शूरे गान्धारेषु च सर्वशः

Mahabharata

Shalya Parva, Adhyaya 18, Verse 23

कथं तेषां जयो न स्याद्येषां योद्धा धनंजयः

सात्यकिर्भीमसेनश्च धृष्टद्युम्नश्च पार्षतः

Mahabharata

Shalya Parva, Adhyaya 18, Verse 24

द्रौपद्यास्तनयाः पञ्च माद्रीपुत्रौ च पाण्डवौ

शिखण्डी च महेष्वासो राजा चैव युधिष्ठिरः

Mahabharata

Shalya Parva, Adhyaya 18, Verse 25

येषां च जगतां नाथो नाथः कृष्णो जनार्दनः

कथं तेषां जयो न स्याद्येषां धर्मो व्यपाश्रयः

Mahabharata

Shalya Parva, Adhyaya 18, Verse 26

भीष्मं द्रोणं च कर्णं च मद्रराजानमेव च

तथान्यान्नृपतीन्वीराञ्शतशोऽथ सहस्रशः

Mahabharata

Shalya Parva, Adhyaya 18, Verse 27

कोऽन्यः शक्तो रणे जेतुमृते पार्थं युधिष्ठिरम्

यस्य नाथो हृषीकेशः सदा धर्मयशोनिधिः

Mahabharata

Shalya Parva, Adhyaya 18, Verse 28

इत्येवं वदमानास्ते हर्षेण महता युताः

प्रभग्नांस्तावकान्राजन्सृञ्जयाः पृष्ठतोऽन्वयुः

Mahabharata

Shalya Parva, Adhyaya 18, Verse 29

धनंजयो रथानीकमभ्यवर्तत वीर्यवान्

माद्रीपुत्रौ च शकुनिं सात्यकिश्च महारथः

Mahabharata

Shalya Parva, Adhyaya 18, Verse 30

तान्प्रेक्ष्य द्रवतः सर्वान्भीमसेनभयार्दितान्

दुर्योधनस्तदा सूतमब्रवीदुत्स्मयन्निव