Mahabharata

Shalya Parva, Adhyaya 14

Containing 41 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shalya Parva, Adhyaya 14, Verse 1

दुर्योधनो महाराज धृष्टद्युम्नश्च पार्षतः

चक्रतुः सुमहद्युद्धं शरशक्तिसमाकुलम्

Mahabharata

Shalya Parva, Adhyaya 14, Verse 2

तयोरासन्महाराज शरधाराः सहस्रशः

अम्बुदानां यथा काले जलधाराः समन्ततः

Mahabharata

Shalya Parva, Adhyaya 14, Verse 3

राजा तु पार्षतं विद्ध्वा शरैः पञ्चभिरायसैः

द्रोणहन्तारमुग्रेषुः पुनर्विव्याध सप्तभिः

Mahabharata

Shalya Parva, Adhyaya 14, Verse 4

धृष्टद्युम्नस्तु समरे बलवान्दृढविक्रमः

सप्तत्या विशिखानां वै दुर्योधनमपीडयत्

Mahabharata

Shalya Parva, Adhyaya 14, Verse 5

पीडितं प्रेक्ष्य राजानं सोदर्या भरतर्षभ

महत्या सेनया सार्धं परिवव्रुः स्म पार्षतम्

Mahabharata

Shalya Parva, Adhyaya 14, Verse 6

स तैः परिवृतः शूरैः सर्वतोऽतिरथैर्भृशम्

व्यचरत्समरे राजन्दर्शयन्हस्तलाघवम्

Mahabharata

Shalya Parva, Adhyaya 14, Verse 7

शिखण्डी कृतवर्माणं गौतमं च महारथम्

प्रभद्रकैः समायुक्तो योधयामास धन्विनौ

Mahabharata

Shalya Parva, Adhyaya 14, Verse 8

तत्रापि सुमहद्युद्धं घोररूपं विशां पते

प्राणान्संत्यजतां युद्धे प्राणद्यूताभिदेवने

Mahabharata

Shalya Parva, Adhyaya 14, Verse 9

शल्यस्तु शरवर्षाणि विमुञ्चन्सर्वतोदिशम्

पाण्डवान्पीडयामास ससात्यकिवृकोदरान्

Mahabharata

Shalya Parva, Adhyaya 14, Verse 10

तथोभौ च यमौ युद्धे यमतुल्यपराक्रमौ

योधयामास राजेन्द्र वीर्येण च बलेन च

Mahabharata

Shalya Parva, Adhyaya 14, Verse 11

शल्यसायकनुन्नानां पाण्डवानां महामृधे

त्रातारं नाध्यगच्छन्त केचित्तत्र महारथाः

Mahabharata

Shalya Parva, Adhyaya 14, Verse 12

ततस्तु नकुलः शूरो धर्मराजे प्रपीडिते

अभिदुद्राव वेगेन मातुलं माद्रिनन्दनः

Mahabharata

Shalya Parva, Adhyaya 14, Verse 13

संछाद्य समरे शल्यं नकुलः परवीरहा

विव्याध चैनं दशभिः स्मयमानः स्तनान्तरे

Mahabharata

Shalya Parva, Adhyaya 14, Verse 14

सर्वपारशवैर्बाणैः कर्मारपरिमार्जितैः

स्वर्णपुङ्खैः शिलाधौतैर्धनुर्यन्त्रप्रचोदितैः

Mahabharata

Shalya Parva, Adhyaya 14, Verse 15

शल्यस्तु पीडितस्तेन स्वस्रीयेण महात्मना

नकुलं पीडयामास पत्रिभिर्नतपर्वभिः

Mahabharata

Shalya Parva, Adhyaya 14, Verse 16

ततो युधिष्ठिरो राजा भीमसेनोऽथ सात्यकिः

सहदेवश्च माद्रेयो मद्रराजमुपाद्रवन्

Mahabharata

Shalya Parva, Adhyaya 14, Verse 17

तानापतत एवाशु पूरयानान्रथस्वनैः

दिशश्च प्रदिशश्चैव कम्पयानांश्च मेदिनीम्

प्रतिजग्राह समरे सेनापतिरमित्रजित्

Mahabharata

Shalya Parva, Adhyaya 14, Verse 18

युधिष्ठिरं त्रिभिर्विद्ध्वा भीमसेनं च सप्तभिः

सात्यकिं च शतेनाजौ सहदेवं त्रिभिः शरैः

Mahabharata

Shalya Parva, Adhyaya 14, Verse 19

ततस्तु सशरं चापं नकुलस्य महात्मनः

मद्रेश्वरः क्षुरप्रेण तदा चिच्छेद मारिष

तदशीर्यत विच्छिन्नं धनुः शल्यस्य सायकैः

Mahabharata

Shalya Parva, Adhyaya 14, Verse 20

अथान्यद्धनुरादाय माद्रीपुत्रो महारथः

मद्रराजरथं तूर्णं पूरयामास पत्रिभिः

Mahabharata

Shalya Parva, Adhyaya 14, Verse 21

युधिष्ठिरस्तु मद्रेशं सहदेवश्च मारिष

दशभिर्दशभिर्बाणैरुरस्येनमविध्यताम्

Mahabharata

Shalya Parva, Adhyaya 14, Verse 22

भीमसेनस्ततः षष्ट्या सात्यकिर्नवभिः शरैः

मद्रराजमभिद्रुत्य जघ्नतुः कङ्कपत्रिभिः

Mahabharata

Shalya Parva, Adhyaya 14, Verse 23

मद्रराजस्ततः क्रुद्धः सात्यकिं नवभिः शरैः

विव्याध भूयः सप्तत्या शराणां नतपर्वणाम्

Mahabharata

Shalya Parva, Adhyaya 14, Verse 24

अथास्य सशरं चापं मुष्टौ चिच्छेद मारिष

हयांश्च चतुरः संख्ये प्रेषयामास मृत्यवे

Mahabharata

Shalya Parva, Adhyaya 14, Verse 25

विरथं सात्यकिं कृत्वा मद्रराजो महाबलः

विशिखानां शतेनैनमाजघान समन्ततः

Mahabharata

Shalya Parva, Adhyaya 14, Verse 26

माद्रीपुत्रौ तु संरब्धौ भीमसेनं च पाण्डवम्

युधिष्ठिरं च कौरव्य विव्याध दशभिः शरैः

Mahabharata

Shalya Parva, Adhyaya 14, Verse 27

तत्राद्भुतमपश्याम मद्रराजस्य पौरुषम्

यदेनं सहिताः पार्था नाभ्यवर्तन्त संयुगे

Mahabharata

Shalya Parva, Adhyaya 14, Verse 28

अथान्यं रथमास्थाय सात्यकिः सत्यविक्रमः

पीडितान्पाण्डवान्दृष्ट्वा मद्रराजवशं गतान्

अभिदुद्राव वेगेन मद्राणामधिपं बली

Mahabharata

Shalya Parva, Adhyaya 14, Verse 29

आपतन्तं रथं तस्य शल्यः समितिशोभनः

प्रत्युद्ययौ रथेनैव मत्तो मत्तमिव द्विपम्

Mahabharata

Shalya Parva, Adhyaya 14, Verse 30

स संनिपातस्तुमुलो बभूवाद्भुतदर्शनः

सात्यकेश्चैव शूरस्य मद्राणामधिपस्य च

यादृशो वै पुरा वृत्तः शम्बरामरराजयोः