Shalya Parva, Adhyaya 12, Verse 1
पीडिते धर्मराजे तु मद्रराजेन मारिष
सात्यकिर्भीमसेनश्च माद्रीपुत्रौ च पाण्डवौ
परिवार्य रथैः शल्यं पीडयामासुराहवे
Containing 45 sacred Sanskrit shlokas with multi-author commentaries and translations.
पीडिते धर्मराजे तु मद्रराजेन मारिष
सात्यकिर्भीमसेनश्च माद्रीपुत्रौ च पाण्डवौ
परिवार्य रथैः शल्यं पीडयामासुराहवे
तमेकं बहुभिर्दृष्ट्वा पीड्यमानं महारथैः
साधुवादो महाञ्जज्ञे सिद्धाश्चासन्प्रहर्षिताः
आश्चर्यमित्यभाषन्त मुनयश्चापि संगताः
भीमसेनो रणे शल्यं शल्यभूतं पराक्रमे
एकेन विद्ध्वा बाणेन पुनर्विव्याध सप्तभिः
सात्यकिश्च शतेनैनं धर्मपुत्रपरीप्सया
मद्रेश्वरमवाकीर्य सिंहनादमथानदत्
नकुलः पञ्चभिश्चैनं सहदेवश्च सप्तभिः
विद्ध्वा तं तु ततस्तूर्णं पुनर्विव्याध सप्तभिः
स तु शूरो रणे यत्तः पीडितस्तैर्महारथैः
विकृष्य कार्मुकं घोरं वेगघ्नं भारसाधनम्
सात्यकिं पञ्चविंशत्या शल्यो विव्याध मारिष
भीमसेनं त्रिसप्तत्या नकुलं सप्तभिस्तथा
ततः सविशिखं चापं सहदेवस्य धन्विनः
छित्त्वा भल्लेन समरे विव्याधैनं त्रिसप्तभिः
सहदेवस्तु समरे मातुलं भूरिवर्चसम्
सज्यमन्यद्धनुः कृत्वा पञ्चभिः समताडयत्
शरैराशीविषाकारैर्ज्वलज्ज्वलनसंनिभैः
सारथिं चास्य समरे शरेणानतपर्वणा
विव्याध भृशसंक्रुद्धस्तं च भूयस्त्रिभिः शरैः
भीमसेनस्त्रिसप्तत्या सात्यकिर्नवभिः शरैः
धर्मराजस्तथा षष्ट्या गात्रे शल्यं समर्पयत्
ततः शल्यो महाराज निर्विद्धस्तैर्महारथैः
सुस्राव रुधिरं गात्रैर्गैरिकं पर्वतो यथा
तांश्च सर्वान्महेष्वासान्पञ्चभिः पञ्चभिः शरैः
विव्याध तरसा राजंस्तदद्भुतमिवाभवत्
ततोऽपरेण भल्लेन धर्मपुत्रस्य मारिष
धनुश्चिच्छेद समरे सज्यं स सुमहारथः
अथान्यद्धनुरादाय धर्मपुत्रो महारथः
साश्वसूतध्वजरथं शल्यं प्राच्छादयच्छरैः
स च्छाद्यमानः समरे धर्मपुत्रस्य सायकैः
युधिष्ठिरमथाविध्यद्दशभिर्निशितैः शरैः
सात्यकिस्तु ततः क्रुद्धो धर्मपुत्रे शरार्दिते
मद्राणामधिपं शूरं शरौघैः समवारयत्
स सात्यकेः प्रचिच्छेद क्षुरप्रेण महद्धनुः
भीमसेनमुखांस्तांश्च त्रिभिस्त्रिभिरताडयत्
तस्य क्रुद्धो महाराज सात्यकिः सत्यविक्रमः
तोमरं प्रेषयामास स्वर्णदण्डं महाधनम्
भीमसेनोऽथ नाराचं ज्वलन्तमिव पन्नगम्
नकुलः समरे शक्तिं सहदेवो गदां शुभाम्
धर्मराजः शतघ्नीं तु जिघांसुः शल्यमाहवे
तानापतत एवाशु पञ्चानां वै भुजच्युतान्
सात्यकिप्रहितं शल्यो भल्लैश्चिच्छेद तोमरम्
भीमेन प्रहितं चापि शरं कनकभूषणम्
द्विधा चिच्छेद समरे कृतहस्तः प्रतापवान्
नकुलप्रेषितां शक्तिं हेमदण्डां भयावहाम्
गदां च सहदेवेन शरौघैः समवारयत्
शराभ्यां च शतघ्नीं तां राज्ञश्चिच्छेद भारत
पश्यतां पाण्डुपुत्राणां सिंहनादं ननाद च
नामृष्यत्तं तु शैनेयः शत्रोर्विजयमाहवे
अथान्यद्धनुरादाय सात्यकिः क्रोधमूर्छितः
द्वाभ्यां मद्रेश्वरं विद्ध्वा सारथिं च त्रिभिः शरैः
ततः शल्यो महाराज सर्वांस्तान्दशभिः शरैः
विव्याध सुभृशं क्रुद्धस्तोत्त्रैरिव महाद्विपान्
ते वार्यमाणाः समरे मद्रराज्ञा महारथाः
न शेकुः प्रमुखे स्थातुं तस्य शत्रुनिषूदनाः
ततो दुर्योधनो राजा दृष्ट्वा शल्यस्य विक्रमम्
निहतान्पाण्डवान्मेने पाञ्चालानथ सृञ्जयान्
ततो राजन्महाबाहुर्भीमसेनः प्रतापवान्
संत्यज्य मनसा प्राणान्मद्राधिपमयोधयत्
नकुलः सहदेवश्च सात्यकिश्च महारथः
परिवार्य तदा शल्यं समन्ताद्व्यकिरञ्शरैः