Shalya Parva, Adhyaya 11, Verse 1
पतितं प्रेक्ष्य यन्तारं शल्यः सर्वायसीं गदाम्
आदाय तरसा राजंस्तस्थौ गिरिरिवाचलः
Containing 63 sacred Sanskrit shlokas with multi-author commentaries and translations.
पतितं प्रेक्ष्य यन्तारं शल्यः सर्वायसीं गदाम्
आदाय तरसा राजंस्तस्थौ गिरिरिवाचलः
तं दीप्तमिव कालाग्निं पाशहस्तमिवान्तकम्
सशृङ्गमिव कैलासं सवज्रमिव वासवम्
सशूलमिव हर्यक्षं वने मत्तमिव द्विपम्
जवेनाभ्यपतद्भीमः प्रगृह्य महतीं गदाम्
ततः शङ्खप्रणादश्च तूर्याणां च सहस्रशः
सिंहनादश्च संजज्ञे शूराणां हर्षवर्धनः
प्रेक्षन्तः सर्वतस्तौ हि योधा योधमहाद्विपौ
तावकाश्च परे चैव साधु साध्वित्यथाब्रुवन्
न हि मद्राधिपादन्यो रामाद्वा यदुनन्दनात्
सोढुमुत्सहते वेगं भीमसेनस्य संयुगे
तथा मद्राधिपस्यापि गदावेगं महात्मनः
सोढुमुत्सहते नान्यो योधो युधि वृकोदरात्
तौ वृषाविव नर्दन्तौ मण्डलानि विचेरतुः
आवल्गितौ गदाहस्तौ मद्रराजवृकोदरौ
मण्डलावर्तमार्गेषु गदाविहरणेषु च
निर्विशेषमभूद्युद्धं तयोः पुरुषसिंहयोः
तप्तहेममयैः शुभ्रैर्बभूव भयवर्धनी
अग्निज्वालैरिवाविद्धा पट्टैः शल्यस्य सा गदा
तथैव चरतो मार्गान्मण्डलेषु महात्मनः
विद्युदभ्रप्रतीकाशा भीमस्य शुशुभे गदा
ताडिता मद्रराजेन भीमस्य गदया गदा
दीप्यमानेव वै राजन्ससृजे पावकार्चिषः
तथा भीमेन शल्यस्य ताडिता गदया गदा
अङ्गारवर्षं मुमुचे तदद्भुतमिवाभवत्
दन्तैरिव महानागौ शृङ्गैरिव महर्षभौ
तोत्त्रैरिव तदान्योन्यं गदाग्राभ्यां निजघ्नतुः
तौ गदानिहतैर्गात्रैः क्षणेन रुधिरोक्षितौ
प्रेक्षणीयतरावास्तां पुष्पिताविव किंशुकौ
गदया मद्रराजेन सव्यदक्षिणमाहतः
भीमसेनो महाबाहुर्न चचालाचलो यथा
तथा भीमगदावेगैस्ताड्यमानो मुहुर्मुहुः
शल्यो न विव्यथे राजन्दन्तिनेवाहतो गिरिः
शुश्रुवे दिक्षु सर्वासु तयोः पुरुषसिंहयोः
गदानिपातसंह्रादो वज्रयोरिव निस्वनः
निवृत्य तु महावीर्यौ समुच्छ्रितगदावुभौ
पुनरन्तरमार्गस्थौ मण्डलानि विचेरतुः
अथाभ्येत्य पदान्यष्टौ संनिपातोऽभवत्तयोः
उद्यम्य लोहदण्डाभ्यामतिमानुषकर्मणोः
प्रार्थयानौ तदान्योऽन्यं मण्डलानि विचेरतुः
क्रियाविशेषं कृतिनौ दर्शयामासतुस्तदा
अथोद्यम्य गदे घोरे सशृङ्गाविव पर्वतौ
तावाजघ्नतुरन्योन्यं यथा भूमिचलेऽचलौ
तौ परस्परवेगाच्च गदाभ्यां च भृशाहतौ
युगपत्पेततुर्वीरावुभाविन्द्रध्वजाविव
उभयोः सेनयोर्वीरास्तदा हाहाकृतोऽभवन्
भृशं मर्मण्यभिहतावुभावास्तां सुविह्वलौ
ततः सगदमारोप्य मद्राणामृषभं रथे
अपोवाह कृपः शल्यं तूर्णमायोधनादपि
क्षीबवद्विह्वलत्वात्तु निमेषात्पुनरुत्थितः
भीमसेनो गदापाणिः समाह्वयत मद्रपम्
ततस्तु तावकाः शूरा नानाशस्त्रसमायुताः
नानावादित्रशब्देन पाण्डुसेनामयोधयन्
भुजावुच्छ्रित्य शस्त्रं च शब्देन महता ततः
अभ्यद्रवन्महाराज दुर्योधनपुरोगमाः
तदनीकमभिप्रेक्ष्य ततस्ते पाण्डुनन्दनाः
प्रययुः सिंहनादेन दुर्योधनवधेप्सया
तेषामापततां तूर्णं पुत्रस्ते भरतर्षभ
प्रासेन चेकितानं वै विव्याध हृदये भृशम्