Mahabharata

Shalya Parva, Adhyaya 11

Containing 63 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shalya Parva, Adhyaya 11, Verse 1

पतितं प्रेक्ष्य यन्तारं शल्यः सर्वायसीं गदाम्

आदाय तरसा राजंस्तस्थौ गिरिरिवाचलः

Mahabharata

Shalya Parva, Adhyaya 11, Verse 2

तं दीप्तमिव कालाग्निं पाशहस्तमिवान्तकम्

सशृङ्गमिव कैलासं सवज्रमिव वासवम्

Mahabharata

Shalya Parva, Adhyaya 11, Verse 3

सशूलमिव हर्यक्षं वने मत्तमिव द्विपम्

जवेनाभ्यपतद्भीमः प्रगृह्य महतीं गदाम्

Mahabharata

Shalya Parva, Adhyaya 11, Verse 4

ततः शङ्खप्रणादश्च तूर्याणां च सहस्रशः

सिंहनादश्च संजज्ञे शूराणां हर्षवर्धनः

Mahabharata

Shalya Parva, Adhyaya 11, Verse 5

प्रेक्षन्तः सर्वतस्तौ हि योधा योधमहाद्विपौ

तावकाश्च परे चैव साधु साध्वित्यथाब्रुवन्

Mahabharata

Shalya Parva, Adhyaya 11, Verse 6

न हि मद्राधिपादन्यो रामाद्वा यदुनन्दनात्

सोढुमुत्सहते वेगं भीमसेनस्य संयुगे

Mahabharata

Shalya Parva, Adhyaya 11, Verse 7

तथा मद्राधिपस्यापि गदावेगं महात्मनः

सोढुमुत्सहते नान्यो योधो युधि वृकोदरात्

Mahabharata

Shalya Parva, Adhyaya 11, Verse 8

तौ वृषाविव नर्दन्तौ मण्डलानि विचेरतुः

आवल्गितौ गदाहस्तौ मद्रराजवृकोदरौ

Mahabharata

Shalya Parva, Adhyaya 11, Verse 9

मण्डलावर्तमार्गेषु गदाविहरणेषु च

निर्विशेषमभूद्युद्धं तयोः पुरुषसिंहयोः

Mahabharata

Shalya Parva, Adhyaya 11, Verse 10

तप्तहेममयैः शुभ्रैर्बभूव भयवर्धनी

अग्निज्वालैरिवाविद्धा पट्टैः शल्यस्य सा गदा

Mahabharata

Shalya Parva, Adhyaya 11, Verse 11

तथैव चरतो मार्गान्मण्डलेषु महात्मनः

विद्युदभ्रप्रतीकाशा भीमस्य शुशुभे गदा

Mahabharata

Shalya Parva, Adhyaya 11, Verse 12

ताडिता मद्रराजेन भीमस्य गदया गदा

दीप्यमानेव वै राजन्ससृजे पावकार्चिषः

Mahabharata

Shalya Parva, Adhyaya 11, Verse 13

तथा भीमेन शल्यस्य ताडिता गदया गदा

अङ्गारवर्षं मुमुचे तदद्भुतमिवाभवत्

Mahabharata

Shalya Parva, Adhyaya 11, Verse 14

दन्तैरिव महानागौ शृङ्गैरिव महर्षभौ

तोत्त्रैरिव तदान्योन्यं गदाग्राभ्यां निजघ्नतुः

Mahabharata

Shalya Parva, Adhyaya 11, Verse 15

तौ गदानिहतैर्गात्रैः क्षणेन रुधिरोक्षितौ

प्रेक्षणीयतरावास्तां पुष्पिताविव किंशुकौ

Mahabharata

Shalya Parva, Adhyaya 11, Verse 16

गदया मद्रराजेन सव्यदक्षिणमाहतः

भीमसेनो महाबाहुर्न चचालाचलो यथा

Mahabharata

Shalya Parva, Adhyaya 11, Verse 17

तथा भीमगदावेगैस्ताड्यमानो मुहुर्मुहुः

शल्यो न विव्यथे राजन्दन्तिनेवाहतो गिरिः

Mahabharata

Shalya Parva, Adhyaya 11, Verse 18

शुश्रुवे दिक्षु सर्वासु तयोः पुरुषसिंहयोः

गदानिपातसंह्रादो वज्रयोरिव निस्वनः

Mahabharata

Shalya Parva, Adhyaya 11, Verse 19

निवृत्य तु महावीर्यौ समुच्छ्रितगदावुभौ

पुनरन्तरमार्गस्थौ मण्डलानि विचेरतुः

Mahabharata

Shalya Parva, Adhyaya 11, Verse 20

अथाभ्येत्य पदान्यष्टौ संनिपातोऽभवत्तयोः

उद्यम्य लोहदण्डाभ्यामतिमानुषकर्मणोः

Mahabharata

Shalya Parva, Adhyaya 11, Verse 21

प्रार्थयानौ तदान्योऽन्यं मण्डलानि विचेरतुः

क्रियाविशेषं कृतिनौ दर्शयामासतुस्तदा

Mahabharata

Shalya Parva, Adhyaya 11, Verse 22

अथोद्यम्य गदे घोरे सशृङ्गाविव पर्वतौ

तावाजघ्नतुरन्योन्यं यथा भूमिचलेऽचलौ

Mahabharata

Shalya Parva, Adhyaya 11, Verse 23

तौ परस्परवेगाच्च गदाभ्यां च भृशाहतौ

युगपत्पेततुर्वीरावुभाविन्द्रध्वजाविव

Mahabharata

Shalya Parva, Adhyaya 11, Verse 24

उभयोः सेनयोर्वीरास्तदा हाहाकृतोऽभवन्

भृशं मर्मण्यभिहतावुभावास्तां सुविह्वलौ

Mahabharata

Shalya Parva, Adhyaya 11, Verse 25

ततः सगदमारोप्य मद्राणामृषभं रथे

अपोवाह कृपः शल्यं तूर्णमायोधनादपि

Mahabharata

Shalya Parva, Adhyaya 11, Verse 26

क्षीबवद्विह्वलत्वात्तु निमेषात्पुनरुत्थितः

भीमसेनो गदापाणिः समाह्वयत मद्रपम्

Mahabharata

Shalya Parva, Adhyaya 11, Verse 27

ततस्तु तावकाः शूरा नानाशस्त्रसमायुताः

नानावादित्रशब्देन पाण्डुसेनामयोधयन्

Mahabharata

Shalya Parva, Adhyaya 11, Verse 28

भुजावुच्छ्रित्य शस्त्रं च शब्देन महता ततः

अभ्यद्रवन्महाराज दुर्योधनपुरोगमाः

Mahabharata

Shalya Parva, Adhyaya 11, Verse 29

तदनीकमभिप्रेक्ष्य ततस्ते पाण्डुनन्दनाः

प्रययुः सिंहनादेन दुर्योधनवधेप्सया

Mahabharata

Shalya Parva, Adhyaya 11, Verse 30

तेषामापततां तूर्णं पुत्रस्ते भरतर्षभ

प्रासेन चेकितानं वै विव्याध हृदये भृशम्