Shalya Parva, Adhyaya 9, Verse 1
तत्प्रभग्नं बलं दृष्ट्वा मद्रराजः प्रतापवान्
उवाच सारथिं तूर्णं चोदयाश्वान्महाजवान्
Containing 65 sacred Sanskrit shlokas with multi-author commentaries and translations.
तत्प्रभग्नं बलं दृष्ट्वा मद्रराजः प्रतापवान्
उवाच सारथिं तूर्णं चोदयाश्वान्महाजवान्
एष तिष्ठति वै राजा पाण्डुपुत्रो युधिष्ठिरः
छत्रेण ध्रियमाणेन पाण्डुरेण विराजता
अत्र मां प्रापय क्षिप्रं पश्य मे सारथे बलम्
न समर्था हि मे पार्थाः स्थातुमद्य पुरो युधि
एवमुक्तस्ततः प्रायान्मद्रराजस्य सारथिः
यत्र राजा सत्यसंधो धर्मराजो युधिष्ठिरः
आपतन्तं च सहसा पाण्डवानां महद्बलम्
दधारैको रणे शल्यो वेलेवोद्धृतमर्णवम्
पाण्डवानां बलौघस्तु शल्यमासाद्य मारिष
व्यतिष्ठत तदा युद्धे सिन्धोर्वेग इवाचलम्
मद्रराजं तु समरे दृष्ट्वा युद्धाय विष्ठितम्
कुरवः संन्यवर्तन्त मृत्युं कृत्वा निवर्तनम्
तेषु राजन्निवृत्तेषु व्यूढानीकेषु भागशः
प्रावर्तत महारौद्रः संग्रामः शोणितोदकः
समार्छच्चित्रसेनेन नकुलो युद्धदुर्मदः
तौ परस्परमासाद्य चित्रकार्मुकधारिणौ
मेघाविव यथोद्वृत्तौ दक्षिणोत्तरवर्षिणौ
शरतोयैः सिषिचतुस्तौ परस्परमाहवे
नान्तरं तत्र पश्यामि पाण्डवस्येतरस्य वा
उभौ कृतास्त्रौ बलिनौ रथचर्याविशारदौ
परस्परवधे यत्तौ छिद्रान्वेषणतत्परौ
चित्रसेनस्तु भल्लेन पीतेन निशितेन च
नकुलस्य महाराज मुष्टिदेशेऽच्छिनद्धनुः
अथैनं छिन्नधन्वानं रुक्मपुङ्खैः शिलाशितैः
त्रिभिः शरैरसंभ्रान्तो ललाटे वै समर्पयत्
हयांश्चास्य शरैस्तीक्ष्णैः प्रेषयामास मृत्यवे
तथा ध्वजं सारथिं च त्रिभिस्त्रिभिरपातयत्
स शत्रुभुजनिर्मुक्तैर्ललाटस्थैस्त्रिभिः शरैः
नकुलः शुशुभे राजंस्त्रिशृङ्ग इव पर्वतः
स छिन्नधन्वा विरथः खड्गमादाय चर्म च
रथादवातरद्वीरः शैलाग्रादिव केसरी
पद्भ्यामापततस्तस्य शरवृष्टिमवासृजत्
नकुलोऽप्यग्रसत्तां वै चर्मणा लघुविक्रमः
चित्रसेनरथं प्राप्य चित्रयोधी जितश्रमः
आरुरोह महाबाहुः सर्वसैन्यस्य पश्यतः
सकुण्डलं समुकुटं सुनसं स्वायतेक्षणम्
चित्रसेनशिरः कायादपाहरत पाण्डवः
स पपात रथोपस्थाद्दिवाकरसमप्रभः
चित्रसेनं विशस्तं तु दृष्ट्वा तत्र महारथाः
साधुवादस्वनांश्चक्रुः सिंहनादांश्च पुष्कलान्
विशस्तं भ्रातरं दृष्ट्वा कर्णपुत्रौ महारथौ
सुषेणः सत्यसेनश्च मुञ्चन्तौ निशिताञ्शरान्
ततोऽभ्यधावतां तूर्णं पाण्डवं रथिनां वरम्
जिघांसन्तौ यथा नागं व्याघ्रौ राजन्महावने
तावभ्यधावतां तीक्ष्णौ द्वावप्येनं महारथम्
शरौघान्सम्यगस्यन्तौ जीमूतौ सलिलं यथा
स शरैः सर्वतो विद्धः प्रहृष्ट इव पाण्डवः
अन्यत्कार्मुकमादाय रथमारुह्य वीर्यवान्
अतिष्ठत रणे वीरः क्रुद्धरूप इवान्तकः
तस्य तौ भ्रातरौ राजञ्शरैः संनतपर्वभिः
रथं विशकलीकर्तुं समारब्धौ विशां पते
ततः प्रहस्य नकुलश्चतुर्भिश्चतुरो रणे
जघान निशितैस्तीक्ष्णैः सत्यसेनस्य वाजिनः
ततः संधाय नाराचं रुक्मपुङ्खं शिलाशितम्
धनुश्चिच्छेद राजेन्द्र सत्यसेनस्य पाण्डवः
अथान्यं रथमास्थाय धनुरादाय चापरम्
सत्यसेनः सुषेणश्च पाण्डवं पर्यधावताम्
अविध्यत्तावसंभ्रान्तौ माद्रीपुत्रः प्रतापवान्
द्वाभ्यां द्वाभ्यां महाराज शराभ्यां रणमूर्धनि
सुषेणस्तु ततः क्रुद्धः पाण्डवस्य महद्धनुः
चिच्छेद प्रहसन्युद्धे क्षुरप्रेण महारथः