Mahabharata

Shalya Parva, Adhyaya 8

Containing 46 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shalya Parva, Adhyaya 8, Verse 1

ततः प्रववृते युद्धं कुरूणां भयवर्धनम्

सृञ्जयैः सह राजेन्द्र घोरं देवासुरोपमम्

Mahabharata

Shalya Parva, Adhyaya 8, Verse 2

नरा रथा गजौघाश्च सादिनश्च सहस्रशः

वाजिनश्च पराक्रान्ताः समाजग्मुः परस्परम्

Mahabharata

Shalya Parva, Adhyaya 8, Verse 3

नागानां भीमरूपाणां द्रवतां निस्वनो महान्

अश्रूयत यथा काले जलदानां नभस्तले

Mahabharata

Shalya Parva, Adhyaya 8, Verse 4

नागैरभ्याहताः केचित्सरथा रथिनोऽपतन्

व्यद्रवन्त रणे वीरा द्राव्यमाणा मदोत्कटैः

Mahabharata

Shalya Parva, Adhyaya 8, Verse 5

हयौघान्पादरक्षांश्च रथिनस्तत्र शिक्षिताः

शरैः संप्रेषयामासुः परलोकाय भारत

Mahabharata

Shalya Parva, Adhyaya 8, Verse 6

सादिनः शिक्षिता राजन्परिवार्य महारथान्

विचरन्तो रणेऽभ्यघ्नन्प्रासशक्त्यृष्टिभिस्तथा

Mahabharata

Shalya Parva, Adhyaya 8, Verse 7

धन्विनः पुरुषाः केचित्संनिवार्य महारथान्

एकं बहव आसाद्य प्रेषयेयुर्यमक्षयम्

Mahabharata

Shalya Parva, Adhyaya 8, Verse 8

नागं रथवरांश्चान्ये परिवार्य महारथाः

सोत्तरायुधिनं जघ्नुर्द्रवमाणा महारवम्

Mahabharata

Shalya Parva, Adhyaya 8, Verse 9

तथा च रथिनं क्रुद्धं विकिरन्तं शरान्बहून्

नागा जघ्नुर्महाराज परिवार्य समन्ततः

Mahabharata

Shalya Parva, Adhyaya 8, Verse 10

नागो नागमभिद्रुत्य रथी च रथिनं रणे

शक्तितोमरनाराचैर्निजघ्नुस्तत्र तत्र ह

Mahabharata

Shalya Parva, Adhyaya 8, Verse 11

पादातानवमृद्नन्तो रथवारणवाजिनः

रणमध्ये व्यदृश्यन्त कुर्वन्तो महदाकुलम्

Mahabharata

Shalya Parva, Adhyaya 8, Verse 12

हयाश्च पर्यधावन्त चामरैरुपशोभिताः

हंसा हिमवतः प्रस्थे पिबन्त इव मेदिनीम्

Mahabharata

Shalya Parva, Adhyaya 8, Verse 13

तेषां तु वाजिनां भूमिः खुरैश्चित्रा विशां पते

अशोभत यथा नारी करजक्षतविक्षता

Mahabharata

Shalya Parva, Adhyaya 8, Verse 14

वाजिनां खुरशब्देन रथनेमिस्वनेन च

पत्तीनां चापि शब्देन नागानां बृंहितेन च

Mahabharata

Shalya Parva, Adhyaya 8, Verse 15

वादित्राणां च घोषेण शङ्खानां निस्वनेन च

अभवन्नादिता भूमिर्निर्घातैरिव भारत

Mahabharata

Shalya Parva, Adhyaya 8, Verse 16

धनुषां कूजमानानां निस्त्रिंशानां च दीप्यताम्

कवचानां प्रभाभिश्च न प्राज्ञायत किंचन

Mahabharata

Shalya Parva, Adhyaya 8, Verse 17

बहवो बाहवश्छिन्ना नागराजकरोपमाः

उद्वेष्टन्ते विवेष्टन्ते वेगं कुर्वन्ति दारुणम्

Mahabharata

Shalya Parva, Adhyaya 8, Verse 18

शिरसां च महाराज पततां वसुधातले

च्युतानामिव तालेभ्यः फलानां श्रूयते स्वनः

Mahabharata

Shalya Parva, Adhyaya 8, Verse 19

शिरोभिः पतितैर्भाति रुधिरार्द्रैर्वसुंधरा

तपनीयनिभैः काले नलिनैरिव भारत

Mahabharata

Shalya Parva, Adhyaya 8, Verse 20

उद्वृत्तनयनैस्तैस्तु गतसत्त्वैः सुविक्षतैः

व्यभ्राजत महाराज पुण्डरीकैरिवावृता

Mahabharata

Shalya Parva, Adhyaya 8, Verse 21

बाहुभिश्चन्दनादिग्धैः सकेयूरैर्महाधनैः

पतितैर्भाति राजेन्द्र मही शक्रध्वजैरिव

Mahabharata

Shalya Parva, Adhyaya 8, Verse 22

ऊरुभिश्च नरेन्द्राणां विनिकृत्तैर्महाहवे

हस्तिहस्तोपमैरन्यैः संवृतं तद्रणाङ्गणम्

Mahabharata

Shalya Parva, Adhyaya 8, Verse 23

कबन्धशतसंकीर्णं छत्रचामरशोभितम्

सेनावनं तच्छुशुभे वनं पुष्पाचितं यथा

Mahabharata

Shalya Parva, Adhyaya 8, Verse 24

तत्र योधा महाराज विचरन्तो ह्यभीतवत्

दृश्यन्ते रुधिराक्ताङ्गाः पुष्पिता इव किंशुकाः

Mahabharata

Shalya Parva, Adhyaya 8, Verse 25

मातङ्गाश्चाप्यदृश्यन्त शरतोमरपीडिताः

पतन्तस्तत्र तत्रैव छिन्नाभ्रसदृशा रणे

Mahabharata

Shalya Parva, Adhyaya 8, Verse 26

गजानीकं महाराज वध्यमानं महात्मभिः

व्यदीर्यत दिशः सर्वा वातनुन्ना घना इव

Mahabharata

Shalya Parva, Adhyaya 8, Verse 27

ते गजा घनसंकाशाः पेतुरुर्व्यां समन्ततः

वज्ररुग्णा इव बभुः पर्वता युगसंक्षये

Mahabharata

Shalya Parva, Adhyaya 8, Verse 28

हयानां सादिभिः सार्धं पतितानां महीतले

राशयः संप्रदृश्यन्ते गिरिमात्रास्ततस्ततः

Mahabharata

Shalya Parva, Adhyaya 8, Verse 29

संजज्ञे रणभूमौ तु परलोकवहा नदी

शोणितोदा रथावर्ता ध्वजवृक्षास्थिशर्करा

Mahabharata

Shalya Parva, Adhyaya 8, Verse 30

भुजनक्रा धनुःस्रोता हस्तिशैला हयोपला

मेदोमज्जाकर्दमिनी छत्रहंसा गदोडुपा