Mahabharata

Shalya Parva, Adhyaya 7

Containing 44 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shalya Parva, Adhyaya 7, Verse 1

व्यतीतायां रजन्यां तु राजा दुर्योधनस्तदा

अब्रवीत्तावकान्सर्वान्संनह्यन्तां महारथाः

Mahabharata

Shalya Parva, Adhyaya 7, Verse 2

राज्ञस्तु मतमाज्ञाय समनह्यत सा चमूः

अयोजयन्रथांस्तूर्णं पर्यधावंस्तथापरे

Mahabharata

Shalya Parva, Adhyaya 7, Verse 3

अकल्प्यन्त च मातङ्गाः समनह्यन्त पत्तयः

हयानास्तरणोपेतांश्चक्रुरन्ये सहस्रशः

Mahabharata

Shalya Parva, Adhyaya 7, Verse 4

वादित्राणां च निनदः प्रादुरासीद्विशां पते

बोधनार्थं हि योधानां सैन्यानां चाप्युदीर्यताम्

Mahabharata

Shalya Parva, Adhyaya 7, Verse 5

ततो बलानि सर्वाणि सेनाशिष्टानि भारत

संनद्धान्येव ददृशुर्मृत्युं कृत्वा निवर्तनम्

Mahabharata

Shalya Parva, Adhyaya 7, Verse 6

शल्यं सेनापतिं कृत्वा मद्रराजं महारथाः

प्रविभज्य बलं सर्वमनीकेषु व्यवस्थिताः

Mahabharata

Shalya Parva, Adhyaya 7, Verse 7

ततः सर्वे समागम्य पुत्रेण तव सैनिकाः

कृपश्च कृतवर्मा च द्रौणिः शल्योऽथ सौबलः

Mahabharata

Shalya Parva, Adhyaya 7, Verse 8

अन्ये च पार्थिवाः शेषाः समयं चक्रिरे तदा

न न एकेन योद्धव्यं कथंचिदपि पाण्डवैः

Mahabharata

Shalya Parva, Adhyaya 7, Verse 9

यो ह्येकः पाण्डवैर्युध्येद्यो वा युध्यन्तमुत्सृजेत्

स पञ्चभिर्भवेद्युक्तः पातकैः सोपपातकैः

अन्योन्यं परिरक्षद्भिर्योद्धव्यं सहितैश्च नः

Mahabharata

Shalya Parva, Adhyaya 7, Verse 10

एवं ते समयं कृत्वा सर्वे तत्र महारथाः

मद्रराजं पुरस्कृत्य तूर्णमभ्यद्रवन्परान्

Mahabharata

Shalya Parva, Adhyaya 7, Verse 11

तथैव पाण्डवा राजन्व्यूह्य सैन्यं महारणे

अभ्ययुः कौरवान्सर्वान्योत्स्यमानाः समन्ततः

Mahabharata

Shalya Parva, Adhyaya 7, Verse 12

तद्बलं भरतश्रेष्ठ क्षुब्धार्णवसमस्वनम्

समुद्धूतार्णवाकारमुद्धूतरथकुञ्जरम्

Mahabharata

Shalya Parva, Adhyaya 7, Verse 13

द्रोणस्य भीष्मस्य च वै राधेयस्य च मे श्रुतम्

पातनं शंस मे भूयः शल्यस्याथ सुतस्य मे

Mahabharata

Shalya Parva, Adhyaya 7, Verse 14

कथं रणे हतः शल्यो धर्मराजेन संजय

भीमेन च महाबाहुः पुत्रो दुर्योधनो मम

Mahabharata

Shalya Parva, Adhyaya 7, Verse 15

क्षयं मनुष्यदेहानां रथनागाश्वसंक्षयम्

शृणु राजन्स्थिरो भूत्वा संग्रामं शंसतो मम

Mahabharata

Shalya Parva, Adhyaya 7, Verse 16

आशा बलवती राजन्पुत्राणां तेऽभवत्तदा

हते भीष्मे च द्रोणे च सूतपुत्रे च पातिते

शल्यः पार्थान्रणे सर्वान्निहनिष्यति मारिष

Mahabharata

Shalya Parva, Adhyaya 7, Verse 17

तामाशां हृदये कृत्वा समाश्वास्य च भारत

मद्रराजं च समरे समाश्रित्य महारथम्

नाथवन्तमथात्मानममन्यत सुतस्तव

Mahabharata

Shalya Parva, Adhyaya 7, Verse 18

यदा कर्णे हते पार्थाः सिंहनादं प्रचक्रिरे

तदा राजन्धार्तराष्ट्रानाविवेश महद्भयम्

Mahabharata

Shalya Parva, Adhyaya 7, Verse 19

तान्समाश्वास्य तु तदा मद्रराजः प्रतापवान्

व्यूह्य व्यूहं महाराज सर्वतोभद्रमृद्धिमत्

Mahabharata

Shalya Parva, Adhyaya 7, Verse 20

प्रत्युद्यातो रणे पार्थान्मद्रराजः प्रतापवान्

विधुन्वन्कार्मुकं चित्रं भारघ्नं वेगवत्तरम्

Mahabharata

Shalya Parva, Adhyaya 7, Verse 21

रथप्रवरमास्थाय सैन्धवाश्वं महारथः

तस्य सीता महाराज रथस्थाशोभयद्रथम्

Mahabharata

Shalya Parva, Adhyaya 7, Verse 22

स तेन संवृतो वीरो रथेनामित्रकर्शनः

तस्थौ शूरो महाराज पुत्राणां ते भयप्रणुत्

Mahabharata

Shalya Parva, Adhyaya 7, Verse 23

प्रयाणे मद्रराजोऽभून्मुखं व्यूहस्य दंशितः

मद्रकैः सहितो वीरैः कर्णपुत्रैश्च दुर्जयैः

Mahabharata

Shalya Parva, Adhyaya 7, Verse 24

सव्येऽभूत्कृतवर्मा च त्रिगर्तैः परिवारितः

गौतमो दक्षिणे पार्श्वे शकैश्च यवनैः सह

Mahabharata

Shalya Parva, Adhyaya 7, Verse 25

अश्वत्थामा पृष्ठतोऽभूत्काम्बोजैः परिवारितः

दुर्योधनोऽभवन्मध्ये रक्षितः कुरुपुंगवैः

Mahabharata

Shalya Parva, Adhyaya 7, Verse 26

हयानीकेन महता सौबलश्चापि संवृतः

प्रययौ सर्वसैन्येन कैतव्यश्च महारथः

Mahabharata

Shalya Parva, Adhyaya 7, Verse 27

पाण्डवाश्च महेष्वासा व्यूह्य सैन्यमरिंदमाः

त्रिधा भूत्वा महाराज तव सैन्यमुपाद्रवन्

Mahabharata

Shalya Parva, Adhyaya 7, Verse 28

धृष्टद्युम्नः शिखण्डी च सात्यकिश्च महारथः

शल्यस्य वाहिनीं तूर्णमभिदुद्रुवुराहवे

Mahabharata

Shalya Parva, Adhyaya 7, Verse 29

ततो युधिष्ठिरो राजा स्वेनानीकेन संवृतः

शल्यमेवाभिदुद्राव जिघांसुर्भरतर्षभ

Mahabharata

Shalya Parva, Adhyaya 7, Verse 30

हार्दिक्यं तु महेष्वासमर्जुनः शत्रुपूगहा

संशप्तकगणांश्चैव वेगतोऽभिविदुद्रुवे