Mahabharata

Shalya Parva, Adhyaya 6

Containing 41 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shalya Parva, Adhyaya 6, Verse 1

एतच्छ्रुत्वा वचो राज्ञो मद्रराजः प्रतापवान्

दुर्योधनं तदा राजन्वाक्यमेतदुवाच ह

Mahabharata

Shalya Parva, Adhyaya 6, Verse 2

दुर्योधन महाबाहो शृणु वाक्यविदां वर

यावेतौ मन्यसे कृष्णौ रथस्थौ रथिनां वरौ

न मे तुल्यावुभावेतौ बाहुवीर्ये कथंचन

Mahabharata

Shalya Parva, Adhyaya 6, Verse 3

उद्यतां पृथिवीं सर्वां ससुरासुरमानवाम्

योधयेयं रणमुखे संक्रुद्धः किमु पाण्डवान्

विजेष्ये च रणे पार्थान्सोमकांश्च समागतान्

Mahabharata

Shalya Parva, Adhyaya 6, Verse 4

अहं सेनाप्रणेता ते भविष्यामि न संशयः

तं च व्यूहं विधास्यामि न तरिष्यन्ति यं परे

इति सत्यं ब्रवीम्येष दुर्योधन न संशयः

Mahabharata

Shalya Parva, Adhyaya 6, Verse 5

एवमुक्तस्ततो राजा मद्राधिपतिमञ्जसा

अभ्यषिञ्चत सेनाया मध्ये भरतसत्तम

विधिना शास्त्रदृष्टेन हृष्टरूपो विशां पते

Mahabharata

Shalya Parva, Adhyaya 6, Verse 6

अभिषिक्ते ततस्तस्मिन्सिंहनादो महानभूत्

तव सैन्येष्ववाद्यन्त वादित्राणि च भारत

Mahabharata

Shalya Parva, Adhyaya 6, Verse 7

हृष्टाश्चासंस्तदा योधा मद्रकाश्च महारथाः

तुष्टुवुश्चैव राजानं शल्यमाहवशोभिनम्

Mahabharata

Shalya Parva, Adhyaya 6, Verse 8

जय राजंश्चिरं जीव जहि शत्रून्समागतान्

तव बाहुबलं प्राप्य धार्तराष्ट्रा महाबलाः

निखिलां पृथिवीं सर्वां प्रशासन्तु हतद्विषः

Mahabharata

Shalya Parva, Adhyaya 6, Verse 9

त्वं हि शक्तो रणे जेतुं ससुरासुरमानवान्

मर्त्यधर्माण इह तु किमु सोमकसृञ्जयान्

Mahabharata

Shalya Parva, Adhyaya 6, Verse 10

एवं संस्तूयमानस्तु मद्राणामधिपो बली

हर्षं प्राप तदा वीरो दुरापमकृतात्मभिः

Mahabharata

Shalya Parva, Adhyaya 6, Verse 11

अद्यैवाहं रणे सर्वान्पाञ्चालान्सह पाण्डवैः

निहनिष्यामि राजेन्द्र स्वर्गं यास्यामि वा हतः

Mahabharata

Shalya Parva, Adhyaya 6, Verse 12

अद्य पश्यन्तु मां लोका विचरन्तमभीतवत्

अद्य पाण्डुसुताः सर्वे वासुदेवः ससात्यकिः

Mahabharata

Shalya Parva, Adhyaya 6, Verse 13

पाञ्चालाश्चेदयश्चैव द्रौपदेयाश्च सर्वशः

धृष्टद्युम्नः शिखण्डी च सर्वे चापि प्रभद्रकाः

Mahabharata

Shalya Parva, Adhyaya 6, Verse 14

विक्रमं मम पश्यन्तु धनुषश्च महद्बलम्

लाघवं चास्त्रवीर्यं च भुजयोश्च बलं युधि

Mahabharata

Shalya Parva, Adhyaya 6, Verse 15

अद्य पश्यन्तु मे पार्थाः सिद्धाश्च सह चारणैः

यादृशं मे बलं बाह्वोः संपदस्त्रेषु या च मे

Mahabharata

Shalya Parva, Adhyaya 6, Verse 16

अद्य मे विक्रमं दृष्ट्वा पाण्डवानां महारथाः

प्रतीकारपरा भूत्वा चेष्टन्तां विविधाः क्रियाः

Mahabharata

Shalya Parva, Adhyaya 6, Verse 17

अद्य सैन्यानि पाण्डूनां द्रावयिष्ये समन्ततः

द्रोणभीष्मावति विभो सूतपुत्रं च संयुगे

विचरिष्ये रणे युध्यन्प्रियार्थं तव कौरव

Mahabharata

Shalya Parva, Adhyaya 6, Verse 18

अभिषिक्ते तदा शल्ये तव सैन्येषु मानद

न कर्णव्यसनं किंचिन्मेनिरे तत्र भारत

Mahabharata

Shalya Parva, Adhyaya 6, Verse 19

हृष्टाः सुमनसश्चैव बभूवुस्तत्र सैनिकाः

मेनिरे निहतान्पार्थान्मद्रराजवशं गतान्

Mahabharata

Shalya Parva, Adhyaya 6, Verse 20

प्रहर्षं प्राप्य सेना तु तावकी भरतर्षभ

तां रात्रिं सुखिनी सुप्ता स्वस्थचित्तेव साभवत्

Mahabharata

Shalya Parva, Adhyaya 6, Verse 21

सैन्यस्य तव तं शब्दं श्रुत्वा राजा युधिष्ठिरः

वार्ष्णेयमब्रवीद्वाक्यं सर्वक्षत्रस्य शृण्वतः

Mahabharata

Shalya Parva, Adhyaya 6, Verse 22

मद्रराजः कृतः शल्यो धार्तराष्ट्रेण माधव

सेनापतिर्महेष्वासः सर्वसैन्येषु पूजितः

Mahabharata

Shalya Parva, Adhyaya 6, Verse 23

एतज्ज्ञात्वा यथाभूतं कुरु माधव यत्क्षमम्

भवान्नेता च गोप्ता च विधत्स्व यदनन्तरम्

Mahabharata

Shalya Parva, Adhyaya 6, Verse 24

तमब्रवीन्महाराज वासुदेवो जनाधिपम्

आर्तायनिमहं जाने यथातत्त्वेन भारत

Mahabharata

Shalya Parva, Adhyaya 6, Verse 25

वीर्यवांश्च महातेजा महात्मा च विशेषतः

कृती च चित्रयोधी च संयुक्तो लाघवेन च

Mahabharata

Shalya Parva, Adhyaya 6, Verse 26

यादृग्भीष्मस्तथा द्रोणो यादृक्कर्णश्च संयुगे

तादृशस्तद्विशिष्टो वा मद्रराजो मतो मम

Mahabharata

Shalya Parva, Adhyaya 6, Verse 27

युध्यमानस्य तस्याजौ चिन्तयन्नेव भारत

योद्धारं नाधिगच्छामि तुल्यरूपं जनाधिप

Mahabharata

Shalya Parva, Adhyaya 6, Verse 28

शिखण्ड्यर्जुनभीमानां सात्वतस्य च भारत

धृष्टद्युम्नस्य च तथा बलेनाभ्यधिको रणे

Mahabharata

Shalya Parva, Adhyaya 6, Verse 29

मद्रराजो महाराज सिंहद्विरदविक्रमः

विचरिष्यत्यभीः काले कालः क्रुद्धः प्रजास्विव

Mahabharata

Shalya Parva, Adhyaya 6, Verse 30

तस्याद्य न प्रपश्यामि प्रतियोद्धारमाहवे

त्वामृते पुरुषव्याघ्र शार्दूलसमविक्रमम्