Shalya Parva, Adhyaya 5, Verse 1
अथ हैमवते प्रस्थे स्थित्वा युद्धाभिनन्दिनः
सर्व एव महाराज योधास्तत्र समागताः
Containing 27 sacred Sanskrit shlokas with multi-author commentaries and translations.
अथ हैमवते प्रस्थे स्थित्वा युद्धाभिनन्दिनः
सर्व एव महाराज योधास्तत्र समागताः
शल्यश्च चित्रसेनश्च शकुनिश्च महारथः
अश्वत्थामा कृपश्चैव कृतवर्मा च सात्वतः
सुषेणोऽरिष्टसेनश्च धृतसेनश्च वीर्यवान्
जयत्सेनश्च राजानस्ते रात्रिमुषितास्ततः
रणे कर्णे हते वीरे त्रासिता जितकाशिभिः
नालभञ्शर्म ते पुत्रा हिमवन्तमृते गिरिम्
तेऽब्रुवन्सहितास्तत्र राजानं सैन्यसंनिधौ
कृतयत्ना रणे राजन्संपूज्य विधिवत्तदा
कृत्वा सेनाप्रणेतारं परांस्त्वं योद्धुमर्हसि
येनाभिगुप्ताः संग्रामे जयेमासुहृदो वयम्
ततो दुर्योधनः स्थित्वा रथे रथवरोत्तमम्
सर्वयुद्धविभागज्ञमन्तकप्रतिमं युधि
स्वङ्गं प्रच्छन्नशिरसं कम्बुग्रीवं प्रियंवदम्
व्याकोशपद्माभिमुखं व्याघ्रास्यं मेरुगौरवम्
स्थाणोर्वृषस्य सदृशं स्कन्धनेत्रगतिस्वरैः
पुष्टश्लिष्टायतभुजं सुविस्तीर्णघनोरसम्
जवे बले च सदृशमरुणानुजवातयोः
आदित्यस्य त्विषा तुल्यं बुद्ध्या चोशनसा समम्
कान्तिरूपमुखैश्वर्यैस्त्रिभिश्चन्द्रमसोपमम्
काञ्चनोपलसंघातैः सदृशं श्लिष्टसंधिकम्
सुवृत्तोरुकटीजङ्घं सुपादं स्वङ्गुलीनखम्
स्मृत्वा स्मृत्वैव च गुणान्धात्रा यत्नाद्विनिर्मितम्
सर्वलक्षणसंपन्नं निपुणं श्रुतिसागरम्
जेतारं तरसारीणामजेयं शत्रुभिर्बलात्
दशाङ्गं यश्चतुष्पादमिष्वस्त्रं वेद तत्त्वतः
साङ्गांश्च चतुरो वेदान्सम्यगाख्यानपञ्चमान्
आराध्य त्र्यम्बकं यत्नाद्व्रतैरुग्रैर्महातपाः
अयोनिजायामुत्पन्नो द्रोणेनायोनिजेन यः
तमप्रतिमकर्माणं रूपेणासदृशं भुवि
पारगं सर्वविद्यानां गुणार्णवमनिन्दितम्
तमभ्येत्यात्मजस्तुभ्यमश्वत्थामानमब्रवीत्
यं पुरस्कृत्य सहिता युधि जेष्याम पाण्डवान्
गुरुपुत्रोऽद्य सर्वेषामस्माकं परमा गतिः
भवांस्तस्मान्नियोगात्ते कोऽस्तु सेनापतिर्मम
अयं कुलेन वीर्येण तेजसा यशसा श्रिया
सर्वैर्गुणैः समुदितः शल्यो नोऽस्तु चमूपतिः
भागिनेयान्निजांस्त्यक्त्वा कृतज्ञोऽस्मानुपागतः
महासेनो महाबाहुर्महासेन इवापरः
एनं सेनापतिं कृत्वा नृपतिं नृपसत्तम
शक्यः प्राप्तुं जयोऽस्माभिर्देवैः स्कन्दमिवाजितम्
तथोक्ते द्रोणपुत्रेण सर्व एव नराधिपाः
परिवार्य स्थिताः शल्यं जयशब्दांश्च चक्रिरे
युद्धाय च मतिं चक्रूरावेशं च परं ययुः
ततो दुर्योधनः शल्यं भूमौ स्थित्वा रथे स्थितम्
उवाच प्राञ्जलिर्भूत्वा रामभीष्मसमं रणे
अयं स कालः संप्राप्तो मित्राणां मित्रवत्सल
यत्र मित्रममित्रं वा परीक्षन्ते बुधा जनाः
स भवानस्तु नः शूरः प्रणेता वाहिनीमुखे
रणं च याते भवति पाण्डवा मन्दचेतसः
भविष्यन्ति सहामात्याः पाञ्चालाश्च निरुद्यमाः
यत्तु मां मन्यसे राजन्कुरुराज करोमि तत्
त्वत्प्रियार्थं हि मे सर्वं प्राणा राज्यं धनानि च
सेनापत्येन वरये त्वामहं मातुलातुलम्
सोऽस्मान्पाहि युधां श्रेष्ठ स्कन्दो देवानिवाहवे
अभिषिच्यस्व राजेन्द्र देवानामिव पावकिः
जहि शत्रून्रणे वीर महेन्द्रो दानवानिव