Shalya Parva, Adhyaya 4, Verse 1
एवमुक्तस्ततो राजा गौतमेन यशस्विना
निःश्वस्य दीर्घमुष्णं च तूष्णीमासीद्विशां पते
Containing 50 sacred Sanskrit shlokas with multi-author commentaries and translations.
एवमुक्तस्ततो राजा गौतमेन यशस्विना
निःश्वस्य दीर्घमुष्णं च तूष्णीमासीद्विशां पते
ततो मुहूर्तं स ध्यात्वा धार्तराष्ट्रो महामनाः
कृपं शारद्वतं वाक्यमित्युवाच परंतपः
यत्किंचित्सुहृदा वाच्यं तत्सर्वं श्रावितो ह्यहम्
कृतं च भवता सर्वं प्राणान्संत्यज्य युध्यता
गाहमानमनीकानि युध्यमानं महारथैः
पाण्डवैरतितेजोभिर्लोकस्त्वामनुदृष्टवान्
सुहृदा यदिदं वाच्यं भवता श्रावितो ह्यहम्
न मां प्रीणाति तत्सर्वं मुमूर्षोरिव भेषजम्
हेतुकारणसंयुक्तं हितं वचनमुत्तमम्
उच्यमानं महाबाहो न मे विप्राग्र्य रोचते
राज्याद्विनिकृतोऽस्माभिः कथं सोऽस्मासु विश्वसेत्
अक्षद्यूते च नृपतिर्जितोऽस्माभिर्महाधनः
स कथं मम वाक्यानि श्रद्दध्याद्भूय एव तु
तथा दौत्येन संप्राप्तः कृष्णः पार्थहिते रतः
प्रलब्धश्च हृषीकेशस्तच्च कर्म विरोधितम्
स च मे वचनं ब्रह्मन्कथमेवाभिमंस्यते
विललाप हि यत्कृष्णा सभामध्ये समेयुषी
न तन्मर्षयते कृष्णो न राज्यहरणं तथा
एकप्राणावुभौ कृष्णावन्योन्यं प्रति संहतौ
पुरा यच्छ्रुतमेवासीदद्य पश्यामि तत्प्रभो
स्वस्रीयं च हतं श्रुत्वा दुःखं स्वपिति केशवः
कृतागसो वयं तस्य स मदर्थं कथं क्षमेत्
अभिमन्योर्विनाशेन न शर्म लभतेऽर्जुनः
स कथं मद्धिते यत्नं प्रकरिष्यति याचितः
मध्यमः पाण्डवस्तीक्ष्णो भीमसेनो महाबलः
प्रतिज्ञातं च तेनोग्रं स भज्येत न संनमेत्
उभौ तौ बद्धनिस्त्रिंशावुभौ चाबद्धकङ्कटौ
कृतवैरावुभौ वीरौ यमावपि यमोपमौ
धृष्टद्युम्नः शिखण्डी च कृतवैरौ मया सह
तौ कथं मद्धिते यत्नं प्रकुर्यातां द्विजोत्तम
दुःशासनेन यत्कृष्णा एकवस्त्रा रजस्वला
परिक्लिष्टा सभामध्ये सर्वलोकस्य पश्यतः
तथा विवसनां दीनां स्मरन्त्यद्यापि पाण्डवाः
न निवारयितुं शक्याः संग्रामात्ते परंतपाः
यदा च द्रौपदी कृष्णा मद्विनाशाय दुःखिता
उग्रं तेपे तपः कृष्णा भर्तॄणामर्थसिद्धये
स्थण्डिले नित्यदा शेते यावद्वैरस्य यातना
निक्षिप्य मानं दर्पं च वासुदेवसहोदरा
कृष्णायाः प्रेष्यवद्भूत्वा शुश्रूषां कुरुते सदा
इति सर्वं समुन्नद्धं न निर्वाति कथंचन
अभिमन्योर्विनाशेन स संधेयः कथं मया
कथं च नाम भुक्त्वेमां पृथिवीं सागराम्बराम्
पाण्डवानां प्रसादेन भुञ्जीयां राज्यमल्पकम्
उपर्युपरि राज्ञां वै ज्वलितो भास्करो यथा
युधिष्ठिरं कथं पश्चादनुयास्यामि दासवत्
कथं भुक्त्वा स्वयं भोगान्दत्त्वा दायांश्च पुष्कलान्
कृपणं वर्तयिष्यामि कृपणैः सह जीविकाम्
नाभ्यसूयामि ते वाक्यमुक्तं स्निग्धं हितं त्वया
न तु संधिमहं मन्ये प्राप्तकालं कथंचन
सुनीतमनुपश्यामि सुयुद्धेन परंतप
नायं क्लीबयितुं कालः संयोद्धुं काल एव नः
इष्टं मे बहुभिर्यज्ञैर्दत्ता विप्रेषु दक्षिणाः
प्राप्ताः क्रमश्रुता वेदाः शत्रूणां मूर्ध्नि च स्थितम्
भृत्या मे सुभृतास्तात दीनश्चाभ्युद्धृतो जनः
यातानि परराष्ट्राणि स्वराष्ट्रमनुपालितम्
भुक्ताश्च विविधा भोगास्त्रिवर्गः सेवितो मया
पितॄणां गतमानृण्यं क्षत्रधर्मस्य चोभयोः
न ध्रुवं सुखमस्तीह कुतो राज्यं कुतो यशः
इह कीर्तिर्विधातव्या सा च युद्धेन नान्यथा
गृहे यत्क्षत्रियस्यापि निधनं तद्विगर्हितम्
अधर्मः सुमहानेष यच्छय्यामरणं गृहे