Mahabharata

Shalya Parva, Adhyaya 3

Containing 50 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shalya Parva, Adhyaya 3, Verse 1

शृणु राजन्नवहितो यथा वृत्तो महान्क्षयः

कुरूणां पाण्डवानां च समासाद्य परस्परम्

Mahabharata

Shalya Parva, Adhyaya 3, Verse 2

निहते सूतपुत्रे तु पाण्डवेन महात्मना

विद्रुतेषु च सैन्येषु समानीतेषु चासकृत्

Mahabharata

Shalya Parva, Adhyaya 3, Verse 3

विमुखे तव पुत्रे तु शोकोपहतचेतसि

भृशोद्विग्नेषु सैन्येषु दृष्ट्वा पार्थस्य विक्रमम्

Mahabharata

Shalya Parva, Adhyaya 3, Verse 4

ध्यायमानेषु सैन्येषु दुःखं प्राप्तेषु भारत

बलानां मथ्यमानानां श्रुत्वा निनदमुत्तमम्

Mahabharata

Shalya Parva, Adhyaya 3, Verse 5

अभिज्ञानं नरेन्द्राणां विकृतं प्रेक्ष्य संयुगे

पतितान्रथनीडांश्च रथांश्चापि महात्मनाम्

Mahabharata

Shalya Parva, Adhyaya 3, Verse 6

रणे विनिहतान्नागान्दृष्ट्वा पत्तींश्च मारिष

आयोधनं चातिघोरं रुद्रस्याक्रीडसंनिभम्

Mahabharata

Shalya Parva, Adhyaya 3, Verse 7

अप्रख्यातिं गतानां तु राज्ञां शतसहस्रशः

कृपाविष्टः कृपो राजन्वयःशीलसमन्वितः

Mahabharata

Shalya Parva, Adhyaya 3, Verse 8

अब्रवीत्तत्र तेजस्वी सोऽभिसृत्य जनाधिपम्

दुर्योधनं मन्युवशाद्वचनं वचनक्षमः

Mahabharata

Shalya Parva, Adhyaya 3, Verse 9

दुर्योधन निबोधेदं यत्त्वा वक्ष्यामि कौरव

श्रुत्वा कुरु महाराज यदि ते रोचतेऽनघ

Mahabharata

Shalya Parva, Adhyaya 3, Verse 10

न युद्धधर्माच्छ्रेयान्वै पन्था राजेन्द्र विद्यते

यं समाश्रित्य युध्यन्ते क्षत्रियाः क्षत्रियर्षभ

Mahabharata

Shalya Parva, Adhyaya 3, Verse 11

पुत्रो भ्राता पिता चैव स्वस्रेयो मातुलस्तथा

संबन्धिबान्धवाश्चैव योध्या वै क्षत्रजीविना

Mahabharata

Shalya Parva, Adhyaya 3, Verse 12

वधे चैव परो धर्मस्तथाधर्मः पलायने

ते स्म घोरां समापन्ना जीविकां जीवितार्थिनः

Mahabharata

Shalya Parva, Adhyaya 3, Verse 13

तत्र त्वां प्रतिवक्ष्यामि किंचिदेव हितं वचः

हते भीष्मे च द्रोणे च कर्णे चैव महारथे

Mahabharata

Shalya Parva, Adhyaya 3, Verse 14

जयद्रथे च निहते तव भ्रातृषु चानघ

लक्ष्मणे तव पुत्रे च किं शेषं पर्युपास्महे

Mahabharata

Shalya Parva, Adhyaya 3, Verse 15

येषु भारं समासज्य राज्ये मतिमकुर्महि

ते संत्यज्य तनूर्याताः शूरा ब्रह्मविदां गतिम्

Mahabharata

Shalya Parva, Adhyaya 3, Verse 16

वयं त्विह विनाभूता गुणवद्भिर्महारथैः

कृपणं वर्तयिष्याम पातयित्वा नृपान्बहून्

Mahabharata

Shalya Parva, Adhyaya 3, Verse 17

सर्वैरपि च जीवद्भिर्बीभत्सुरपराजितः

कृष्णनेत्रो महाबाहुर्देवैरपि दुरासदः

Mahabharata

Shalya Parva, Adhyaya 3, Verse 18

इन्द्रकार्मुकवज्राभमिन्द्रकेतुमिवोच्छ्रितम्

वानरं केतुमासाद्य संचचाल महाचमूः

Mahabharata

Shalya Parva, Adhyaya 3, Verse 19

सिंहनादेन भीमस्य पाञ्चजन्यस्वनेन च

गाण्डीवस्य च निर्घोषात्संहृष्यन्ति मनांसि नः

Mahabharata

Shalya Parva, Adhyaya 3, Verse 20

चरन्तीव महाविद्युन्मुष्णन्ती नयनप्रभाम्

अलातमिव चाविद्धं गाण्डीवं समदृश्यत

Mahabharata

Shalya Parva, Adhyaya 3, Verse 21

जाम्बूनदविचित्रं च धूयमानं महद्धनुः

दृश्यते दिक्षु सर्वासु विद्युदभ्रघनेष्विव

Mahabharata

Shalya Parva, Adhyaya 3, Verse 22

उह्यमानश्च कृष्णेन वायुनेव बलाहकः

तावकं तद्बलं राजन्नर्जुनोऽस्त्रविदां वरः

गहनं शिशिरे कक्षं ददाहाग्निरिवोत्थितः

Mahabharata

Shalya Parva, Adhyaya 3, Verse 23

गाहमानमनीकानि महेन्द्रसदृशप्रभम्

धनंजयमपश्याम चतुर्दन्तमिव द्विपम्

Mahabharata

Shalya Parva, Adhyaya 3, Verse 24

विक्षोभयन्तं सेनां ते त्रासयन्तं च पार्थिवान्

धनंजयमपश्याम नलिनीमिव कुञ्जरम्

Mahabharata

Shalya Parva, Adhyaya 3, Verse 25

त्रासयन्तं तथा योधान्धनुर्घोषेण पाण्डवम्

भूय एनमपश्याम सिंहं मृगगणा इव

Mahabharata

Shalya Parva, Adhyaya 3, Verse 26

सर्वलोकमहेष्वासौ वृषभौ सर्वधन्विनाम्

आमुक्तकवचौ कृष्णौ लोकमध्ये विरेजतुः

Mahabharata

Shalya Parva, Adhyaya 3, Verse 27

अद्य सप्तदशाहानि वर्तमानस्य भारत

संग्रामस्यातिघोरस्य वध्यतां चाभितो युधि

Mahabharata

Shalya Parva, Adhyaya 3, Verse 28

वायुनेव विधूतानि तवानीकानि सर्वशः

शरदम्भोदजालानि व्यशीर्यन्त समन्ततः

Mahabharata

Shalya Parva, Adhyaya 3, Verse 29

तां नावमिव पर्यस्तां भ्रान्तवातां महार्णवे

तव सेनां महाराज सव्यसाची व्यकम्पयत्

Mahabharata

Shalya Parva, Adhyaya 3, Verse 30

क्व नु ते सूतपुत्रोऽभूत्क्व नु द्रोणः सहानुगः

अहं क्व च क्व चात्मा ते हार्दिक्यश्च तथा क्व नु

दुःशासनश्च भ्राता ते भ्रातृभिः सहितः क्व नु