Shalya Parva, Adhyaya 2, Verse 1
विसृष्टास्वथ नारीषु धृतराष्ट्रोऽम्बिकासुतः
विललाप महाराज दुःखाद्दुःखतरं गतः
Containing 65 sacred Sanskrit shlokas with multi-author commentaries and translations.
विसृष्टास्वथ नारीषु धृतराष्ट्रोऽम्बिकासुतः
विललाप महाराज दुःखाद्दुःखतरं गतः
सधूममिव निःश्वस्य करौ धुन्वन्पुनः पुनः
विचिन्त्य च महाराज ततो वचनमब्रवीत्
अहो बत महद्दुःखं यदहं पाण्डवान्रणे
क्षेमिणश्चाव्ययांश्चैव त्वत्तः सूत शृणोमि वै
वज्रसारमयं नूनं हृदयं सुदृढं मम
यच्छ्रुत्वा निहतान्पुत्रान्दीर्यते न सहस्रधा
चिन्तयित्वा वचस्तेषां बालक्रीडां च संजय
अद्य श्रुत्वा हतान्पुत्रान्भृशं मे दीर्यते मनः
अन्धत्वाद्यदि तेषां तु न मे रूपनिदर्शनम्
पुत्रस्नेहकृता प्रीतिर्नित्यमेतेषु धारिता
बालभावमतिक्रान्तान्यौवनस्थांश्च तानहम्
मध्यप्राप्तांस्तथा श्रुत्वा हृष्ट आसं तथानघ
तानद्य निहताञ्श्रुत्वा हृतैश्वर्यान्हृतौजसः
न लभे वै क्वचिच्छान्तिं पुत्राधिभिरभिप्लुतः
एह्येहि पुत्र राजेन्द्र ममानाथस्य सांप्रतम्
त्वया हीनो महाबाहो कां नु यास्याम्यहं गतिम्
गतिर्भूत्वा महाराज ज्ञातीनां सुहृदां तथा
अन्धं वृद्धं च मां वीर विहाय क्व नु गच्छसि
सा कृपा सा च ते प्रीतिः सा च राजन्सुमानिता
कथं विनिहतः पार्थैः संयुगेष्वपराजितः
कथं त्वं पृथिवीपालान्भुक्त्वा तात समागतान्
शेषे विनिहतो भूमौ प्राकृतः कुनृपो यथा
को नु मामुत्थितं काल्ये तात तातेति वक्ष्यति
महाराजेति सततं लोकनाथेति चासकृत्
परिष्वज्य च मां कण्ठे स्नेहेनाक्लिन्नलोचनः
अनुशाधीति कौरव्य तत्साधु वद मे वचः
ननु नामाहमश्रौषं वचनं तव पुत्रक
भूयसी मम पृथ्वीयं यथा पार्थस्य नो तथा
भगदत्तः कृपः शल्य आवन्त्योऽथ जयद्रथः
भूरिश्रवाः सोमदत्तो महाराजोऽथ बाह्लिकः
अश्वत्थामा च भोजश्च मागधश्च महाबलः
बृहद्बलश्च काशीशः शकुनिश्चापि सौबलः
म्लेच्छाश्च बहुसाहस्राः शकाश्च यवनैः सह
सुदक्षिणश्च काम्बोजस्त्रिगर्ताधिपतिस्तथा
भीष्मः पितामहश्चैव भारद्वाजोऽथ गौतमः
श्रुतायुश्चाच्युतायुश्च शतायुश्चापि वीर्यवान्
जलसंधोऽथार्श्यशृङ्गी राक्षसश्चाप्यलायुधः
अलंबुसो महाबाहुः सुबाहुश्च महारथः
एते चान्ये च बहवो राजानो राजसत्तम
मदर्थमुद्यताः सर्वे प्राणांस्त्यक्त्वा रणे प्रभो
येषां मध्ये स्थितो युद्धे भ्रातृभिः परिवारितः
योधयिष्याम्यहं पार्थान्पाञ्चालांश्चैव सर्वशः
चेदींश्च नृपशार्दूल द्रौपदेयांश्च संयुगे
सात्यकिं कुन्तिभोजं च राक्षसं च घटोत्कचम्
एकोऽप्येषां महाराज समर्थः संनिवारणे
समरे पाण्डवेयानां संक्रुद्धो ह्यभिधावताम्
किं पुनः सहिता वीराः कृतवैराश्च पाण्डवैः
अथ वा सर्व एवैते पाण्डवस्यानुयायिभिः
योत्स्यन्ति सह राजेन्द्र हनिष्यन्ति च तान्मृधे
कर्णस्त्वेको मया सार्धं निहनिष्यति पाण्डवान्
ततो नृपतयो वीराः स्थास्यन्ति मम शासने
यश्च तेषां प्रणेता वै वासुदेवो महाबलः
न स संनह्यते राजन्निति मामब्रवीद्वचः
तस्याहं वदतः सूत बहुशो मम संनिधौ
युक्तितो ह्यनुपश्यामि निहतान्पाण्डवान्मृधे
तेषां मध्ये स्थिता यत्र हन्यन्ते मम पुत्रकाः
व्यायच्छमानाः समरे किमन्यद्भागधेयतः
भीष्मश्च निहतो यत्र लोकनाथः प्रतापवान्
शिखण्डिनं समासाद्य मृगेन्द्र इव जम्बुकम्