Shalya Parva, Adhyaya 1, Verse 1
एवं निपातिते कर्णे समरे सव्यसाचिना
अल्पावशिष्टाः कुरवः किमकुर्वत वै द्विज
Containing 52 sacred Sanskrit shlokas with multi-author commentaries and translations.
एवं निपातिते कर्णे समरे सव्यसाचिना
अल्पावशिष्टाः कुरवः किमकुर्वत वै द्विज
उदीर्यमाणं च बलं दृष्ट्वा राजा सुयोधनः
पाण्डवैः प्राप्तकालं च किं प्रापद्यत कौरवः
एतदिच्छाम्यहं श्रोतुं तदाचक्ष्व द्विजोत्तम
न हि तृप्यामि पूर्वेषां शृण्वानश्चरितं महत्
ततः कर्णे हते राजन्धार्तराष्ट्रः सुयोधनः
भृशं शोकार्णवे मग्नो निराशः सर्वतोऽभवत्
हा कर्ण हा कर्ण इति शोचमानः पुनः पुनः
कृच्छ्रात्स्वशिबिरं प्रायाद्धतशेषैर्नृपैः सह
स समाश्वास्यमानोऽपि हेतुभिः शास्त्रनिश्चितैः
राजभिर्नालभच्छर्म सूतपुत्रवधं स्मरन्
स दैवं बलवन्मत्वा भवितव्यं च पार्थिवः
संग्रामे निश्चयं कृत्वा पुनर्युद्धाय निर्ययौ
शल्यं सेनापतिं कृत्वा विधिवद्राजपुंगवः
रणाय निर्ययौ राजा हतशेषैर्नृपैः सह
ततः सुतुमुलं युद्धं कुरुपाण्डवसेनयोः
बभूव भरतश्रेष्ठ देवासुररणोपमम्
ततः शल्यो महाराज कृत्वा कदनमाहवे
पाण्डुसैन्यस्य मध्याह्ने धर्मराजेन पातितः
ततो दुर्योधनो राजा हतबन्धू रणाजिरात्
अपसृत्य ह्रदं घोरं विवेश रिपुजाद्भयात्
अथापराह्णे तस्याह्नः परिवार्य महारथैः
ह्रदादाहूय योगेन भीमसेनेन पातितः
तस्मिन्हते महेष्वासे हतशिष्टास्त्रयो रथाः
संरभान्निशि राजेन्द्र जघ्नुः पाञ्चालसैनिकान्
ततः पूर्वाह्णसमये शिबिरादेत्य संजयः
प्रविवेश पुरीं दीनो दुःखशोकसमन्वितः
प्रविश्य च पुरं तूर्णं भुजावुच्छ्रित्य दुःखितः
वेपमानस्ततो राज्ञः प्रविवेश निवेशनम्
रुरोद च नरव्याघ्र हा राजन्निति दुःखितः
अहो बत विविग्नाः स्म निधनेन महात्मनः
अहो सुबलवान्कालो गतिश्च परमा तथा
शक्रतुल्यबलाः सर्वे यत्रावध्यन्त पार्थिवाः
दृष्ट्वैव च पुरो राजञ्जनः सर्वः स संजयम्
प्ररुरोद भृशोद्विग्नो हा राजन्निति सस्वरम्
आकुमारं नरव्याघ्र तत्पुरं वै समन्ततः
आर्तनादं महच्चक्रे श्रुत्वा विनिहतं नृपम्
धावतश्चाप्यपश्यच्च तत्र त्रीन्पुरुषर्षभान्
नष्टचित्तानिवोन्मत्ताञ्शोकेन भृशपीडितान्
तथा स विह्वलः सूतः प्रविश्य नृपतिक्षयम्
ददर्श नृपतिश्रेष्ठं प्रज्ञाचक्षुषमीश्वरम्
दृष्ट्वा चासीनमनघं समन्तात्परिवारितम्
स्नुषाभिर्भरतश्रेष्ठ गान्धार्या विदुरेण च
तथान्यैश्च सुहृद्भिश्च ज्ञातिभिश्च हितैषिभिः
तमेव चार्थं ध्यायन्तं कर्णस्य निधनं प्रति
रुदन्नेवाब्रवीद्वाक्यं राजानं जनमेजय
नातिहृष्टमनाः सूतो बाष्पसंदिग्धया गिरा
संजयोऽहं नरव्याघ्र नमस्ते भरतर्षभ
मद्राधिपो हतः शल्यः शकुनिः सौबलस्तथा
उलूकः पुरुषव्याघ्र कैतव्यो दृढविक्रमः
संशप्तका हताः सर्वे काम्बोजाश्च शकैः सह
म्लेच्छाश्च पार्वतीयाश्च यवनाश्च निपातिताः
प्राच्या हता महाराज दाक्षिणात्याश्च सर्वशः
उदीच्या निहताः सर्वे प्रतीच्याश्च नराधिप
राजानो राजपुत्राश्च सर्वतो निहता नृप
दुर्योधनो हतो राजन्यथोक्तं पाण्डवेन च
भग्नसक्थो महाराज शेते पांसुषु रूषितः
धृष्टद्युम्नो हतो राजञ्शिखण्डी चापराजितः
उत्तमौजा युधामन्युस्तथा राजन्प्रभद्रकाः
पाञ्चालाश्च नरव्याघ्राश्चेदयश्च निषूदिताः
तव पुत्रा हताः सर्वे द्रौपदेयाश्च भारत
कर्णपुत्रो हतः शूरो वृषसेनो महाबलः