Mahabharata

Karna Parva, Adhyaya 69

Containing 43 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Karna Parva, Adhyaya 69, Verse 1

तथा निपातिते कर्णे तव सैन्ये च विद्रुते

आश्लिष्य पार्थं दाशार्हो हर्षाद्वचनमब्रवीत्

Mahabharata

Karna Parva, Adhyaya 69, Verse 2

हतो बलभिदा वृत्रस्त्वया कर्णो धनंजय

वधं वै कर्णवृत्राभ्यां कथयिष्यन्ति मानवाः

Mahabharata

Karna Parva, Adhyaya 69, Verse 3

वज्रिणा निहतो वृत्रः संयुगे भूरितेजसा

त्वया तु निहतः कर्णो धनुषा निशितैः शरैः

Mahabharata

Karna Parva, Adhyaya 69, Verse 4

तमिमं विक्रमं लोके प्रथितं ते यशोवहम्

निवेदयावः कौन्तेय धर्मराजाय धीमते

Mahabharata

Karna Parva, Adhyaya 69, Verse 5

वधं कर्णस्य संग्रामे दीर्घकालचिकीर्षितम्

निवेद्य धर्मराजस्य त्वमानृण्यं गमिष्यसि

Mahabharata

Karna Parva, Adhyaya 69, Verse 6

तथेत्युक्ते केशवस्तु पार्थेन यदुपुङ्गवः

पर्यवर्तयदव्यग्रो रथं रथवरस्य तम्

Mahabharata

Karna Parva, Adhyaya 69, Verse 7

धृष्टद्युम्नं युधामन्युं माद्रीपुत्रौ वृकोदरम्

युयुधानं च गोविन्द इदं वचनमब्रवीत्

Mahabharata

Karna Parva, Adhyaya 69, Verse 8

परानभिमुखा यत्तास्तिष्ठध्वं भद्रमस्तु वः

यावदावेद्यते राज्ञे हतः कर्णोऽर्जुनेन वै

Mahabharata

Karna Parva, Adhyaya 69, Verse 9

स तैः शूरैरनुज्ञातो ययौ राजनिवेशनम्

पार्थमादाय गोविन्दो ददर्श च युधिष्ठिरम्

Mahabharata

Karna Parva, Adhyaya 69, Verse 10

शयानं राजशार्दूलं काञ्चने शयनोत्तमे

अगृह्णीतां च चरणौ मुदितौ पार्थिवस्य तौ

Mahabharata

Karna Parva, Adhyaya 69, Verse 11

तयोः प्रहर्षमालक्ष्य प्रहारांश्चातिमानुषान्

राधेयं निहतं मत्वा समुत्तस्थौ युधिष्ठिरः

Mahabharata

Karna Parva, Adhyaya 69, Verse 12

ततोऽस्मै तद्यथावृत्तं वासुदेवः प्रियंवदः

कथयामास कर्णस्य निधनं यदुनन्दनः

Mahabharata

Karna Parva, Adhyaya 69, Verse 13

ईषदुत्स्मयमानस्तु कृष्णो राजानमब्रवीत्

युधिष्ठिरं हतामित्रं कृताञ्जलिरथाच्युतः

Mahabharata

Karna Parva, Adhyaya 69, Verse 14

दिष्ट्या गाण्डीवधन्वा च पाण्डवश्च वृकोदरः

त्वं चापि कुशली राजन्माद्रीपुत्रौ च पाण्डवौ

Mahabharata

Karna Parva, Adhyaya 69, Verse 15

मुक्ता वीरक्षयादस्मात्संग्रामाल्लोमहर्षणात्

क्षिप्रमुत्तरकालानि कुरु कार्याणि पार्थिव

Mahabharata

Karna Parva, Adhyaya 69, Verse 16

हतो वैकर्तनः क्रूरः सूतपुत्रो महाबलः

दिष्ट्या जयसि राजेन्द्र दिष्ट्या वर्धसि पाण्डव

Mahabharata

Karna Parva, Adhyaya 69, Verse 17

यः स द्यूतजितां कृष्णां प्राहसत्पुरुषाधमः

तस्याद्य सूतपुत्रस्य भूमिः पिबति शोणितम्

Mahabharata

Karna Parva, Adhyaya 69, Verse 18

शेतेऽसौ शरदीर्णाङ्गः शत्रुस्ते कुरुपुंगव

तं पश्य पुरुषव्याघ्र विभिन्नं बहुधा शरैः

Mahabharata

Karna Parva, Adhyaya 69, Verse 19

युधिष्ठिरस्तु दाशार्हं प्रहृष्टः प्रत्यपूजयत्

दिष्ट्या दिष्ट्येति राजेन्द्र प्रीत्या चेदमुवाच ह

Mahabharata

Karna Parva, Adhyaya 69, Verse 20

नैतच्चित्रं महाबाहो त्वयि देवकिनन्दन

त्वया सारथिना पार्थो यत्कुर्यादद्य पौरुषम्

Mahabharata

Karna Parva, Adhyaya 69, Verse 21

प्रगृह्य च कुरुश्रेष्ठः साङ्गदं दक्षिणं भुजम्

उवाच धर्मभृत्पार्थ उभौ तौ केशवार्जुनौ

Mahabharata

Karna Parva, Adhyaya 69, Verse 22

नरनारायणौ देवौ कथितौ नारदेन ह

धर्मसंस्थापने युक्तौ पुराणौ पुरुषोत्तमौ

Mahabharata

Karna Parva, Adhyaya 69, Verse 23

असकृच्चापि मेधावी कृष्णद्वैपायनो मम

कथामेतां महाबाहो दिव्यामकथयत्प्रभुः

Mahabharata

Karna Parva, Adhyaya 69, Verse 24

तव कृष्ण प्रभावेण गाण्डीवेन धनंजयः

जयत्यभिमुखाञ्शत्रून्न चासीद्विमुखः क्वचित्

Mahabharata

Karna Parva, Adhyaya 69, Verse 25

जयश्चैव ध्रुवोऽस्माकं न त्वस्माकं पराजयः

यदा त्वं युधि पार्थस्य सारथ्यमुपजग्मिवान्

Mahabharata

Karna Parva, Adhyaya 69, Verse 26

एवमुक्त्वा महाराज तं रथं हेमभूषितम्

दन्तवर्णैर्हयैर्युक्तं कालवालैर्महारथः

Mahabharata

Karna Parva, Adhyaya 69, Verse 27

आस्थाय पुरुषव्याघ्रः स्वबलेनाभिसंवृतः

कृष्णार्जुनाभ्यां वीराभ्यामनुमन्य ततः प्रियम्

Mahabharata

Karna Parva, Adhyaya 69, Verse 28

आगतो बहुवृत्तान्तं द्रष्टुमायोधनं तदा

आभाषमाणस्तौ वीरावुभौ माधवफल्गुनौ

Mahabharata

Karna Parva, Adhyaya 69, Verse 29

स ददर्श रणे कर्णं शयानं पुरुषर्षभम्

गाण्डीवमुक्तैर्विशिखैः सर्वतः शकलीकृतम्

Mahabharata

Karna Parva, Adhyaya 69, Verse 30

सपुत्रं निहतं दृष्ट्वा कर्णं राजा युधिष्ठिरः

प्रशशंस नरव्याघ्रावुभौ माधवपाण्डवौ