Mahabharata

Karna Parva, Adhyaya 65

Containing 45 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Karna Parva, Adhyaya 65, Verse 1

तौ शङ्खभेरीनिनदे समृद्धे; समीयतुः श्वेतहयौ नराग्र्यौ

वैकर्तनः सूतपुत्रोऽर्जुनश्च; दुर्मन्त्रिते तव पुत्रस्य राजन्

Mahabharata

Karna Parva, Adhyaya 65, Verse 2

यथा गजौ हैमवतौ प्रभिन्नौ; प्रगृह्य दन्ताविव वाशितार्थे

तथा समाजग्मतुरुग्रवेगौ; धनंजयश्चाधिरथिश्च वीरौ

Mahabharata

Karna Parva, Adhyaya 65, Verse 3

बलाहकेनेव यथा बलाहको; यदृच्छया वा गिरिणा गिरिर्यथा

तथा धनुर्ज्यातलनेमिनिस्वनौ; समीयतुस्ताविषुवर्षवर्षिणौ

Mahabharata

Karna Parva, Adhyaya 65, Verse 4

प्रवृद्धशृङ्गद्रुमवीरुदोषधी; प्रवृद्धनानाविधपर्वतौकसौ

यथाचलौ वा गलितौ महाबलौ; तथा महास्त्रैरितरेतरं घ्नतः

Mahabharata

Karna Parva, Adhyaya 65, Verse 5

स संनिपातस्तु तयोर्महानभू;त्सुरेशवैरोचनयोर्यथा पुरा

शरैर्विभुग्नाङ्गनियन्तृवाहनः; सुदुःसहोऽन्यैः पटुशोणितोदकः

Mahabharata

Karna Parva, Adhyaya 65, Verse 6

प्रभूतपद्मोत्पलमत्स्यकच्छपौ; महाह्रदौ पक्षिगणानुनादितौ

सुसंनिकृष्टावनिलोद्धतौ यथा; तथा रथौ तौ ध्वजिनौ समीयतुः

Mahabharata

Karna Parva, Adhyaya 65, Verse 7

उभौ महेन्द्रस्य समानविक्रमा;वुभौ महेन्द्रप्रतिमौ महारथौ

महेन्द्रवज्रप्रतिमैश्च सायकै;र्महेन्द्रवृत्राविव संप्रजह्रतुः

Mahabharata

Karna Parva, Adhyaya 65, Verse 8

सनागपत्त्यश्वरथे उभे बले; विचित्रवर्णाभरणाम्बरस्रजे

चकम्पतुश्चोन्नमतः स्म विस्मया;द्वियद्गताश्चार्जुनकर्णसंयुगे

Mahabharata

Karna Parva, Adhyaya 65, Verse 9

भुजाः सवज्राङ्गुलयः समुच्छ्रिताः; ससिंहनादा हृषितैर्दिदृक्षुभिः

यदार्जुनं मत्तमिव द्विपो द्विपं; समभ्ययादाधिरथिर्जिघांसया

Mahabharata

Karna Parva, Adhyaya 65, Verse 10

अभ्यक्रोशन्सोमकास्तत्र पार्थं; त्वरस्व याह्यर्जुन विध्य कर्णम्

छिन्ध्यस्य मूर्धानमलं चिरेण; श्रद्धां च राज्याद्धृतराष्ट्रसूनोः

Mahabharata

Karna Parva, Adhyaya 65, Verse 11

तथास्माकं बहवस्तत्र योधाः; कर्णं तदा याहि याहीत्यवोचन्

जह्यर्जुनं कर्ण ततः सचीराः; पुनर्वनं यान्तु चिराय पार्थाः

Mahabharata

Karna Parva, Adhyaya 65, Verse 12

ततः कर्णः प्रथमं तत्र पार्थं; महेषुभिर्दशभिः पर्यविध्यत्

तमर्जुनः प्रत्यविध्यच्छिताग्रैः; कक्षान्तरे दशभिरतीव क्रुद्धः

Mahabharata

Karna Parva, Adhyaya 65, Verse 13

परस्परं तौ विशिखैः सुतीक्ष्णै;स्ततक्षतुः सूतपुत्रोऽर्जुनश्च

परस्परस्यान्तरेप्सू विमर्दे; सुभीममभ्याययतुः प्रहृष्टौ

Mahabharata

Karna Parva, Adhyaya 65, Verse 14

अमृष्यमाणश्च महाविमर्दे; तत्राक्रुध्यद्भीमसेनो महात्मा

अथाब्रवीत्पाणिना पाणिमाघ्न;न्संदष्टौष्ठो नृत्यति वादयन्निव

कथं नु त्वां सूतपुत्रः किरीटि;न्महेषुभिर्दशभिरविध्यदग्रे

Mahabharata

Karna Parva, Adhyaya 65, Verse 15

यया धृत्या सर्वभूतान्यजैषी;र्ग्रासं ददद्वह्नये खाण्डवे त्वम्

तया धृत्या सूतपुत्रं जहि त्व;महं वैनं गदया पोथयिष्ये

Mahabharata

Karna Parva, Adhyaya 65, Verse 16

अथाब्रवीद्वासुदेवोऽपि पार्थं; दृष्ट्वा रथेषून्प्रतिहन्यमानान्

अमीमृदत्सर्वथा तेऽद्य कर्णो; ह्यस्त्रैरस्त्राणि किमिदं किरीटिन्

Mahabharata

Karna Parva, Adhyaya 65, Verse 17

स वीर किं मुह्यसि नावधीयसे; नदन्त्येते कुरवः संप्रहृष्टाः

कर्णं पुरस्कृत्य विदुर्हि सर्वे; त्वदस्त्रमस्त्रैर्विनिपात्यमानम्

Mahabharata

Karna Parva, Adhyaya 65, Verse 18

यया धृत्या निहतं तामसास्त्रं; युगे युगे राक्षसाश्चापि घोराः

दम्भोद्भवाश्चासुराश्चाहवेषु; तया धृत्या त्वं जहि सूतपुत्रम्

Mahabharata

Karna Parva, Adhyaya 65, Verse 19

अनेन वास्य क्षुरनेमिनाद्य; संछिन्द्धि मूर्धानमरेः प्रसह्य

मया निसृष्टेन सुदर्शनेन; वज्रेण शक्रो नमुचेरिवारेः

Mahabharata

Karna Parva, Adhyaya 65, Verse 20

किरातरूपी भगवान्यया च; त्वया महत्या परितोषितोऽभूत्

तां त्वं धृतिं वीर पुनर्गृहीत्वा; सहानुबन्धं जहि सूतपुत्रम्

Mahabharata

Karna Parva, Adhyaya 65, Verse 21

ततो महीं सागरमेखलां त्वं; सपत्तनां ग्रामवतीं समृद्धाम्

प्रयच्छ राज्ञे निहतारिसंघां; यशश्च पार्थातुलमाप्नुहि त्वम्

Mahabharata

Karna Parva, Adhyaya 65, Verse 22

संचोदितो भीमजनार्दनाभ्यां; स्मृत्वा तदात्मानमवेक्ष्य सत्त्वम्

महात्मनश्चागमने विदित्वा; प्रयोजनं केशवमित्युवाच

Mahabharata

Karna Parva, Adhyaya 65, Verse 23

प्रादुष्करोम्येष महास्त्रमुग्रं; शिवाय लोकस्य वधाय सौतेः

तन्मेऽनुजानातु भवान्सुराश्च; ब्रह्मा भवो ब्रह्मविदश्च सर्वे

Mahabharata

Karna Parva, Adhyaya 65, Verse 24

इत्यूचिवान्ब्राह्ममसह्यमस्त्रं; प्रादुश्चक्रे मनसा संविधेयम्

ततो दिशश्च प्रदिशश्च सर्वाः; समावृणोत्सायकैर्भूरितेजाः

ससर्ज बाणान्भरतर्षभोऽपि; शतंशतानेकवदाशुवेगान्

Mahabharata

Karna Parva, Adhyaya 65, Verse 25

वैकर्तनेनापि तथाजिमध्ये; सहस्रशो बाणगणा विसृष्टाः

ते घोषिणः पाण्डवमभ्युपेयुः; पर्जन्यमुक्ता इव वारिधाराः

Mahabharata

Karna Parva, Adhyaya 65, Verse 26

स भीमसेनं च जनार्दनं च; किरीटिनं चाप्यमनुष्यकर्मा

त्रिभिस्त्रिभिर्भीमबलो निहत्य; ननाद घोरं महता स्वरेण

Mahabharata

Karna Parva, Adhyaya 65, Verse 27

स कर्णबाणाभिहतः किरीटी; भीमं तथा प्रेक्ष्य जनार्दनं च

अमृष्यमाणः पुनरेव पार्थः; शरान्दशाष्टौ च समुद्बबर्ह

Mahabharata

Karna Parva, Adhyaya 65, Verse 28

सुषेणमेकेन शरेण विद्ध्वा; शल्यं चतुर्भिस्त्रिभिरेव कर्णम्

ततः सुमुक्तैर्दशभिर्जघान; सभापतिं काञ्चनवर्मनद्धम्

Mahabharata

Karna Parva, Adhyaya 65, Verse 29

स राजपुत्रो विशिरा विबाहु;र्विवाजिसूतो विधनुर्विकेतुः

ततो रथाग्रादपतत्प्रभग्नः; परश्वधैः शाल इवाभिकृत्तः

Mahabharata

Karna Parva, Adhyaya 65, Verse 30

पुनश्च कर्णं त्रिभिरष्टभिश्च; द्वाभ्यां चतुर्भिर्दशभिश्च विद्ध्वा

चतुःशतान्द्विरदान्सायुधीया;न्हत्वा रथानष्टशतं जघान

सहस्रमश्वांश्च पुनश्च सादी;नष्टौ सहस्राणि च पत्तिवीरान्