Mahabharata

Karna Parva, Adhyaya 64

Containing 32 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Karna Parva, Adhyaya 64, Verse 1

तद्देवनागासुरसिद्धसंघै;र्गन्धर्वयक्षाप्सरसां च संघैः

ब्रह्मर्षिराजर्षिसुपर्णजुष्टं; बभौ वियद्विस्मयनीयरूपम्

Mahabharata

Karna Parva, Adhyaya 64, Verse 2

नानद्यमानं निनदैर्मनोज्ञै;र्वादित्रगीतस्तुतिभिश्च नृत्तैः

सर्वेऽन्तरिक्षे ददृशुर्मनुष्याः; खस्थांश्च तान्विस्मयनीयरूपान्

Mahabharata

Karna Parva, Adhyaya 64, Verse 3

ततः प्रहृष्टाः कुरुपाण्डुयोधा; वादित्रपत्रायुधसिंहनादैः

निनादयन्तो वसुधां दिशश्च; स्वनेन सर्वे द्विषतो निजघ्नुः

Mahabharata

Karna Parva, Adhyaya 64, Verse 4

नानाश्वमातङ्गरथायुताकुलं; वरासिशक्त्यृष्टिनिपातदुःसहम्

अभीरुजुष्टं हतदेहसंकुलं; रणाजिरं लोहितरक्तमाबभौ

Mahabharata

Karna Parva, Adhyaya 64, Verse 5

तथा प्रवृत्तेऽस्त्रभृतां पराभवे; धनंजयश्चाधिरथिश्च सायकैः

दिशश्च सैन्यं च शितैरजिह्मगैः; परस्परं प्रोर्णुवतुः स्म दंशितौ

Mahabharata

Karna Parva, Adhyaya 64, Verse 6

ततस्त्वदीयाश्च परे च सायकैः; कृतेऽन्धकारे विविदुर्न किंचन

भयात्तु तावेव रथौ समाश्रयं;स्तमोनुदौ खे प्रसृता इवांशवः

Mahabharata

Karna Parva, Adhyaya 64, Verse 7

ततोऽस्त्रमस्त्रेण परस्परस्य तौ; विधूय वाताविव पूर्वपश्चिमौ

घनान्धकारे वितते तमोनुदौ; यथोदितौ तद्वदतीव रेजतुः

Mahabharata

Karna Parva, Adhyaya 64, Verse 8

न चाभिमन्तव्यमिति प्रचोदिताः; परे त्वदीयाश्च तदावतस्थिरे

महारथौ तौ परिवार्य सर्वतः; सुरासुरा वासवशम्बराविव

Mahabharata

Karna Parva, Adhyaya 64, Verse 9

मृदङ्गभेरीपणवानकस्वनै;र्निनादिते भारत शङ्खनिस्वनैः

ससिंहनादौ बभतुर्नरोत्तमौ; शशाङ्कसूर्याविव मेघसंप्लवे

Mahabharata

Karna Parva, Adhyaya 64, Verse 10

महाधनुर्मण्डलमध्यगावुभौ; सुवर्चसौ बाणसहस्ररश्मिनौ

दिधक्षमाणौ सचराचरं जग;द्युगास्तसूर्याविव दुःसहौ रणे

Mahabharata

Karna Parva, Adhyaya 64, Verse 11

उभावजेयावहितान्तकावुभौ; जिघांसतुस्तौ कृतिनौ परस्परम्

महाहवे वीरवरौ समीयतु;र्यथेन्द्रजम्भाविव कर्णपाण्डवौ

Mahabharata

Karna Parva, Adhyaya 64, Verse 12

ततो महास्त्राणि महाधनुर्धरौ; विमुञ्चमानाविषुभिर्भयानकैः

नराश्वनागानमितौ निजघ्नतुः; परस्परं जघ्नतुरुत्तमेषुभिः

Mahabharata

Karna Parva, Adhyaya 64, Verse 13

ततो विसस्रुः पुनरर्दिताः शरै;र्नरोत्तमाभ्यां कुरुपाण्डवाश्रयाः

सनागपत्त्यश्वरथा दिशो गता;स्तथा यथा सिंहभयाद्वनौकसः

Mahabharata

Karna Parva, Adhyaya 64, Verse 14

ततस्तु दुर्योधनभोजसौबलाः; कृपश्च शारद्वतसूनुना सह

महारथाः पञ्च धनंजयाच्युतौ; शरैः शरीरान्तकरैरताडयन्

Mahabharata

Karna Parva, Adhyaya 64, Verse 15

धनूंषि तेषामिषुधीन्हयान्ध्वजा;न्रथांश्च सूतांश्च धनंजयः शरैः

समं च चिच्छेद पराभिनच्च ता;ञ्शरोत्तमैर्द्वादशभिश्च सूतजम्

Mahabharata

Karna Parva, Adhyaya 64, Verse 16

अथाभ्यधावंस्त्वरिताः शतं रथाः; शतं च नागार्जुनमाततायिनः

शकास्तुखारा यवनाश्च सादिनः; सहैव काम्बोजवरैर्जिघांसवः

Mahabharata

Karna Parva, Adhyaya 64, Verse 17

वरायुधान्पाणिगतान्करैः सह; क्षुरैर्न्यकृन्तंस्त्वरिताः शिरांसि च

हयांश्च नागांश्च रथांश्च युध्यतां; धनंजयः शत्रुगणं तमक्षिणोत्

Mahabharata

Karna Parva, Adhyaya 64, Verse 18

ततोऽन्तरिक्षे सुरतूर्यनिस्वनाः; ससाधुवादा हृषितैः समीरिताः

निपेतुरप्युत्तमपुष्पवृष्टयः; सुरूपगन्धाः पवनेरिताः शिवाः

Mahabharata

Karna Parva, Adhyaya 64, Verse 19

तदद्भुतं देवमनुष्यसाक्षिकं; समीक्ष्य भूतानि विसिष्मियुर्नृप

तवात्मजः सूतसुतश्च न व्यथां; न विस्मयं जग्मतुरेकनिश्चयौ

Mahabharata

Karna Parva, Adhyaya 64, Verse 20

अथाब्रवीद्द्रोणसुतस्तवात्मजं; करं करेण प्रतिपीड्य सान्त्वयन्

प्रसीद दुर्योधन शाम्य पाण्डवै;रलं विरोधेन धिगस्तु विग्रहम्

Mahabharata

Karna Parva, Adhyaya 64, Verse 21

हतो गुरुर्ब्रह्मसमो महास्त्रवि;त्तथैव भीष्मप्रमुखा नरर्षभाः

अहं त्ववध्यो मम चापि मातुलः; प्रशाधि राज्यं सह पाण्डवैश्चिरम्

Mahabharata

Karna Parva, Adhyaya 64, Verse 22

धनंजयः स्थास्यति वारितो मया; जनार्दनो नैव विरोधमिच्छति

युधिष्ठिरो भूतहिते सदा रतो; वृकोदरस्तद्वशगस्तथा यमौ

Mahabharata

Karna Parva, Adhyaya 64, Verse 23

त्वया च पार्थैश्च परस्परेण; प्रजाः शिवं प्राप्नुयुरिच्छति त्वयि

व्रजन्तु शेषाः स्वपुराणि पार्थिवा; निवृत्तवैराश्च भवन्तु सैनिकाः

Mahabharata

Karna Parva, Adhyaya 64, Verse 24

न चेद्वचः श्रोष्यसि मे नराधिप; ध्रुवं प्रतप्तासि हतोऽरिभिर्युधि

इदं च दृष्टं जगता सह त्वया; कृतं यदेकेन किरीटमालिना

यथा न कुर्याद्बलभिन्न चान्तको; न च प्रचेता भगवान्न यक्षराट्

Mahabharata

Karna Parva, Adhyaya 64, Verse 25

अतोऽपि भूयांश्च गुणैर्धनंजयः; स चाभिपत्स्यत्यखिलं वचो मम

तवानुयात्रां च तथा करिष्यति; प्रसीद राजञ्जगतः शमाय वै

Mahabharata

Karna Parva, Adhyaya 64, Verse 26

ममापि मानः परमः सदा त्वयि; ब्रवीम्यतस्त्वां परमाच्च सौहृदात्

निवारयिष्यामि हि कर्णमप्यहं; यदा भवान्सप्रणयो भविष्यति

Mahabharata

Karna Parva, Adhyaya 64, Verse 27

वदन्ति मित्रं सहजं विचक्षणा;स्तथैव साम्ना च धनेन चार्जितम्

प्रतापतश्चोपनतं चतुर्विधं; तदस्ति सर्वं त्वयि पाण्डवेषु च

Mahabharata

Karna Parva, Adhyaya 64, Verse 28

निसर्गतस्ते तव वीर बान्धवाः; पुनश्च साम्ना च समाप्नुहि स्थिरम्

त्वयि प्रसन्ने यदि मित्रतामियु;र्ध्रुवं नरेन्द्रेन्द्र तथा त्वमाचर

Mahabharata

Karna Parva, Adhyaya 64, Verse 29

स एवमुक्तः सुहृदा वचो हितं; विचिन्त्य निःश्वस्य च दुर्मनाब्रवीत्

यथा भवानाह सखे तथैव त;न्ममापि च ज्ञापयतो वचः शृणु

Mahabharata

Karna Parva, Adhyaya 64, Verse 30

निहत्य दुःशासनमुक्तवान्बहु; प्रसह्य शार्दूलवदेष दुर्मतिः

वृकोदरस्तद्धृदये मम स्थितं; न तत्परोक्षं भवतः कुतः शमः