Karna Parva, Adhyaya 63, Verse 1
वृषसेनं हतं दृष्ट्वा शोकामर्षसमन्वितः
मुक्त्वा शोकोद्भवं वारि नेत्राभ्यां सहसा वृषः
Containing 83 sacred Sanskrit shlokas with multi-author commentaries and translations.
वृषसेनं हतं दृष्ट्वा शोकामर्षसमन्वितः
मुक्त्वा शोकोद्भवं वारि नेत्राभ्यां सहसा वृषः
रथेन कर्णस्तेजस्वी जगामाभिमुखो रिपून्
युद्धायामर्षताम्राक्षः समाहूय धनंजयम्
तौ रथौ सूर्यसंकाशौ वैयाघ्रपरिवारणौ
समेतौ ददृशुस्तत्र द्वाविवार्कौ समागतौ
श्वेताश्वौ पुरुषादित्यावास्थितावरिमर्दनौ
शुशुभाते महात्मानौ चन्द्रादित्यौ यथा दिवि
तौ दृष्ट्वा विस्मयं जग्मुः सर्वभूतानि मारिष
त्रैलोक्यविजये यत्ताविन्द्रवैरोचनाविव
रथज्यातलनिर्ह्रादैर्बाणशङ्खरवैरपि
तौ रथावभिधावन्तौ समालोक्य महीक्षिताम्
ध्वजौ च दृष्ट्वा संसक्तौ विस्मयः समपद्यत
हस्तिकक्ष्यां च कर्णस्य वानरं च किरीटिनः
तौ रथौ संप्रसक्तौ च दृष्ट्वा भारत पार्थिवाः
सिंहनादरवांश्चक्रुः साधुवादांश्च पुष्कलान्
श्रुत्वा तु द्वैरथं ताभ्यां तत्र योधाः समन्ततः
चक्रुर्बाहुवलं चैव तथा चेलवलं महत्
आजग्मुः कुरवस्तत्र वादित्रानुगतास्तदा
कर्णं प्रहर्षयन्तश्च शङ्खान्दध्मुश्च पुष्कलान्
तथैव पाण्डवाः सर्वे हर्षयन्तो धनंजयम्
तूर्यशङ्खनिनादेन दिशः सर्वा व्यनादयन्
क्ष्वेडितास्फोटितोत्क्रुष्टैस्तुमुलं सर्वतोऽभवत्
बाहुघोषाश्च वीराणां कर्णार्जुनसमागमे
तौ दृष्ट्वा पुरुषव्याघ्रौ रथस्थौ रथिनां वरौ
प्रगृहीतमहाचापौ शरशक्तिगदायुधौ
वर्मिणौ बद्धनिस्त्रिंशौ श्वेताश्वौ शङ्खशोभिनौ
तूणीरवरसंपन्नौ द्वावपि स्म सुदर्शनौ
रक्तचन्दनदिग्धाङ्गौ समदौ वृषभाविव
आशीविषसमप्रख्यौ यमकालान्तकोपमौ
इन्द्रवृत्राविव क्रुद्धौ सूर्याचन्द्रमसप्रभौ
महाग्रहाविव क्रूरौ युगान्ते समुपस्थितौ
देवगर्भौ देवसमौ देवतुल्यौ च रूपतः
समेतौ पुरुषव्याघ्रौ प्रेक्ष्य कर्णधनंजयौ
उभौ वरायुधधरावुभौ रणकृतश्रमौ
उभौ च बाहुशब्देन नादयन्तौ नभस्तलम्
उभौ विश्रुतकर्माणौ पौरुषेण बलेन च
उभौ च सदृशौ युद्धे शम्बरामरराजयोः
कार्तवीर्यसमौ युद्धे तथा दाशरथेः समौ
विष्णुवीर्यसमौ वीर्ये तथा भवसमौ युधि
उभौ श्वेतहयौ राजन्रथप्रवरवाहिनौ
सारथी प्रवरौ चैव तयोरास्तां महाबलौ
तौ तु दृष्ट्वा महाराज राजमानौ महारथौ
सिद्धचारणसंघानां विस्मयः समपद्यत
धार्तराष्ट्रास्ततः कर्णं सबला भरतर्षभ
परिवव्रुर्महात्मानं क्षिप्रमाहवशोभिनम्
तथैव पाण्डवा हृष्टा धृष्टद्युम्नपुरोगमाः
परिवव्रुर्महात्मानं पार्थमप्रतिमं युधि
तावकानां रणे कर्णो ग्लह आसीद्विशां पते
तथैव पाण्डवेयानां ग्लहः पार्थोऽभवद्युधि
त एव सभ्यास्तत्रासन्प्रेक्षकाश्चाभवन्स्म ते
तत्रैषां ग्लहमानानां ध्रुवौ जयपराजयौ
ताभ्यां द्यूतं समायत्तं विजयायेतराय वा
अस्माकं पाण्डवानां च स्थितानां रणमूर्धनि
तौ तु स्थितौ महाराज समरे युद्धशालिनौ
अन्योन्यं प्रतिसंरब्धावन्योन्यस्य जयैषिणौ
तावुभौ प्रजिहीर्षेतामिन्द्रवृत्राविवाभितः
भीमरूपधरावास्तां महाधूमाविव ग्रहौ
ततोऽन्तरिक्षे साक्षेपा विवादा भरतर्षभ
मिथो भेदाश्च भूतानामासन्कर्णार्जुनान्तरे
व्याश्रयन्त दिशो भिन्नाः सर्वलोकाश्च मारिष