Mahabharata

Karna Parva, Adhyaya 61

Containing 17 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Karna Parva, Adhyaya 61, Verse 1

तत्राकरोद्दुष्करं राजपुत्रो; दुःशासनस्तुमुले युध्यमानः

चिच्छेद भीमस्य धनुः क्षुरेण; षड्भिः शरैः सारथिमप्यविध्यत्

Mahabharata

Karna Parva, Adhyaya 61, Verse 2

ततोऽभिनद्बहुभिः क्षिप्रमेव; वरेषुभिर्भीमसेनं महात्मा

स विक्षरन्नाग इव प्रभिन्नो; गदामस्मै तुमुले प्राहिणोद्वै

Mahabharata

Karna Parva, Adhyaya 61, Verse 3

तयाहरद्दश धन्वन्तराणि; दुःशासनं भीमसेनः प्रसह्य

तया हतः पतितो वेपमानो; दुःशासनो गदया वेगवत्या

Mahabharata

Karna Parva, Adhyaya 61, Verse 4

हयाः ससूताश्च हता नरेन्द्र; चूर्णीकृतश्चास्य रथः पतन्त्या

विध्वस्तवर्माभरणाम्बरस्र;ग्विचेष्टमानो भृशवेदनार्तः

Mahabharata

Karna Parva, Adhyaya 61, Verse 5

ततः स्मृत्वा भीमसेनस्तरस्वी; सापत्नकं यत्प्रयुक्तं सुतैस्ते

रथादवप्लुत्य गतः स भूमौ; यत्नेन तस्मिन्प्रणिधाय चक्षुः

Mahabharata

Karna Parva, Adhyaya 61, Verse 6

असिं समुद्धृत्य शितं सुधारं; कण्ठे समाक्रम्य च वेपमानम्

उत्कृत्य वक्षः पतितस्य भूमा;वथापिबच्छोणितमस्य कोष्णम्

आस्वाद्य चास्वाद्य च वीक्षमाणः; क्रुद्धोऽतिवेलं प्रजगाद वाक्यम्

Mahabharata

Karna Parva, Adhyaya 61, Verse 7

स्तन्यस्य मातुर्मधुसर्पिषो वा; माध्वीकपानस्य च सत्कृतस्य

दिव्यस्य वा तोयरसस्य पाना;त्पयोदधिभ्यां मथिताच्च मुख्यात्

सर्वेभ्य एवाभ्यधिको रसोऽयं; मतो ममाद्याहितलोहितस्य

Mahabharata

Karna Parva, Adhyaya 61, Verse 8

एवं ब्रुवाणं पुनराद्रवन्त;मास्वाद्य वल्गन्तमतिप्रहृष्टम्

ये भीमसेनं ददृशुस्तदानीं; भयेन तेऽपि व्यथिता निपेतुः

Mahabharata

Karna Parva, Adhyaya 61, Verse 9

ये चापि तत्रापतिता मनुष्या;स्तेषां करेभ्यः पतितं च शस्त्रम्

भयाच्च संचुक्रुशुरुच्चकैस्ते; निमीलिताक्षा ददृशुश्च तन्न

Mahabharata

Karna Parva, Adhyaya 61, Verse 10

ये तत्र भीमं ददृशुः समन्ता;द्दौःशासनं तद्रुधिरं पिबन्तम्

सर्वे पलायन्त भयाभिपन्ना; नायं मनुष्य इति भाषमाणाः

Mahabharata

Karna Parva, Adhyaya 61, Verse 11

शृण्वतां लोकवीराणामिदं वचनमब्रवीत्

एष ते रुधिरं कण्ठात्पिबामि पुरुषाधम

ब्रूहीदानीं सुसंरब्धः पुनर्गौरिति गौरिति

Mahabharata

Karna Parva, Adhyaya 61, Verse 12

प्रमाणकोट्यां शयनं कालकूटस्य भोजनम्

दशनं चाहिभिः कष्टं दाहं च जतुवेश्मनि

Mahabharata

Karna Parva, Adhyaya 61, Verse 13

द्यूतेन राज्यहरणमरण्ये वसतिश्च या

इष्वस्त्राणि च संग्रामेष्वसुखानि च वेश्मनि

Mahabharata

Karna Parva, Adhyaya 61, Verse 14

दुःखान्येतानि जानीमो न सुखानि कदाचन

धृतराष्ट्रस्य दौरात्म्यात्सपुत्रस्य सदा वयम्

Mahabharata

Karna Parva, Adhyaya 61, Verse 15

इत्युक्त्वा वचनं राजञ्जयं प्राप्य वृकोदरः

पुनराह महाराज स्मयंस्तौ केशवार्जुनौ

Mahabharata

Karna Parva, Adhyaya 61, Verse 16

दुःशासने यद्रणे संश्रुतं मे; तद्वै सर्वं कृतमद्येह वीरौ

अद्यैव दास्याम्यपरं द्वितीयं; दुर्योधनं यज्ञपशुं विशस्य

शिरो मृदित्वा च पदा दुरात्मनः; शान्तिं लप्स्ये कौरवाणां समक्षम्

Mahabharata

Karna Parva, Adhyaya 61, Verse 17

एतावदुक्त्वा वचनं प्रहृष्टो; ननाद चोच्चै रुधिरार्द्रगात्रः

ननर्त चैवातिबलो महात्मा; वृत्रं निहत्येव सहस्रनेत्रः