Mahabharata

Karna Parva, Adhyaya 60

Containing 33 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Karna Parva, Adhyaya 60, Verse 1

ततः कर्णः कुरुषु प्रद्रुतेषु; वरूथिना श्वेतहयेन राजन्

पाञ्चालपुत्रान्व्यधमत्सूतपुत्रो; महेषुभिर्वात इवाभ्रसंघान्

Mahabharata

Karna Parva, Adhyaya 60, Verse 2

सूतं रथादञ्जलिकेन पात्य; जघान चाश्वाञ्जनमेजयस्य

शतानीकं सुतसोमं च भल्लै;रवाकिरद्धनुषी चाप्यकृन्तत्

Mahabharata

Karna Parva, Adhyaya 60, Verse 3

धृष्टद्युम्नं निर्बिभेदाथ षड्भि;र्जघान चाश्वं दक्षिणं तस्य संख्ये

हत्वा चाश्वान्सात्यकेः सूतपुत्रः; कैकेयपुत्रं न्यवधीद्विशोकम्

Mahabharata

Karna Parva, Adhyaya 60, Verse 4

तमभ्यधावन्निहते कुमारे; कैकेयसेनापतिरुग्रधन्वा

शरैर्विभिन्नं भृशमुग्रवेगैः; कर्णात्मजं सोऽभ्यहनत्सुषेणम्

Mahabharata

Karna Parva, Adhyaya 60, Verse 5

तस्यार्धचन्द्रैस्त्रिभिरुच्चकर्त; प्रसह्य बाहू च शिरश्च कर्णः

स स्यन्दनाद्गामपतद्गतासुः; परश्वधैः शाल इवावरुग्णः

Mahabharata

Karna Parva, Adhyaya 60, Verse 6

हताश्वमञ्जोगतिभिः सुषेणः; शिनिप्रवीरं निशितैः पृषत्कैः

प्रच्छाद्य नृत्यन्निव सौतिपुत्रः; शैनेयबाणाभिहतः पपात

Mahabharata

Karna Parva, Adhyaya 60, Verse 7

पुत्रे हते क्रोधपरीतचेताः; कर्णः शिनीनामृषभं जिघांसुः

हतोऽसि शैनेय इति ब्रुवन्स; व्यवासृजद्बाणममित्रसाहम्

Mahabharata

Karna Parva, Adhyaya 60, Verse 8

स तस्य चिच्छेद शरं शिखण्डी; त्रिभिस्त्रिभिश्च प्रतुतोद कर्णम्

शिखण्डिनः कार्मुकं स ध्वजं च; च्छित्त्वा शराभ्यामहनत्सुजातम्

Mahabharata

Karna Parva, Adhyaya 60, Verse 9

शिखण्डिनं षड्भिरविध्यदुग्रो; दान्तो धार्ष्टद्युम्नशिरश्चकर्त

अथाभिनत्सुतसोमं शरेण; स संशितेनाधिरथिर्महात्मा

Mahabharata

Karna Parva, Adhyaya 60, Verse 10

अथाक्रन्दे तुमुले वर्तमाने; धार्ष्टद्युम्ने निहते तत्र कृष्णः

अपाञ्चाल्यं क्रियते याहि पार्थ; कर्णं जहीत्यब्रवीद्राजसिंह

Mahabharata

Karna Parva, Adhyaya 60, Verse 11

ततः प्रहस्याशु नरप्रवीरो; रथं रथेनाधिरथेर्जगाम

भये तेषां त्राणमिच्छन्सुबाहु;रभ्याहतानां रथयूथपेन

Mahabharata

Karna Parva, Adhyaya 60, Verse 12

विस्फार्य गाण्डीवमथोग्रघोषं; ज्यया समाहत्य तले भृशं च

बाणान्धकारं सहसैव कृत्वा; जघान नागाश्वरथान्नरांश्च

Mahabharata

Karna Parva, Adhyaya 60, Verse 13

तं भीमसेनोऽनु ययौ रथेन; पृष्ठे रक्षन्पाण्डवमेकवीरम्

तौ राजपुत्रौ त्वरितौ रथाभ्यां; कर्णाय यातावरिभिर्विमुक्तौ

Mahabharata

Karna Parva, Adhyaya 60, Verse 14

अत्रान्तरे सुमहत्सूतपुत्र;श्चक्रे युद्धं सोमकान्संप्रमृद्नन्

रथाश्वमातङ्गगणाञ्जघान; प्रच्छादयामास दिशः शरैश्च

Mahabharata

Karna Parva, Adhyaya 60, Verse 15

तमुत्तमौजा जनमेजयश्च; क्रुद्धौ युधामन्युशिखण्डिनौ च

कर्णं विनेदुः सहिताः पृषत्कैः; संमर्दमानाः सह पार्षतेन

Mahabharata

Karna Parva, Adhyaya 60, Verse 16

ते पञ्च पाञ्चालरथाः सुरूपै;र्वैकर्तनं कर्णमभिद्रवन्तः

तस्माद्रथाच्च्यावयितुं न शेकु;र्धैर्यात्कृतात्मानमिवेन्द्रियाणि

Mahabharata

Karna Parva, Adhyaya 60, Verse 17

तेषां धनूंषि ध्वजवाजिसूतां;स्तूणं पताकाश्च निकृत्य बाणैः

तान्पञ्चभिः स त्वहनत्पृषत्कैः; कर्णस्ततः सिंह इवोन्ननाद

Mahabharata

Karna Parva, Adhyaya 60, Verse 18

तस्यास्यतस्तानभिनिघ्नतश्च; ज्याबाणहस्तस्य धनुःस्वनेन

साद्रिद्रुमा स्यात्पृथिवी विशीर्णा; इत्येव मत्वा जनता व्यषीदत्

Mahabharata

Karna Parva, Adhyaya 60, Verse 19

स शक्रचापप्रतिमेन धन्वना; भृशाततेनाधिरथिः शरान्सृजन्

बभौ रणे दीप्तमरीचिमण्डलो; यथांशुमाली परिवेषवांस्तथा

Mahabharata

Karna Parva, Adhyaya 60, Verse 20

शिखण्डिनं द्वादशभिः पराभिन;च्छितैः शरैः षड्भिरथोत्तमौजसम्

त्रिभिर्युधामन्युमविध्यदाशुगै;स्त्रिभिस्त्रिभिः सोमकपार्षतात्मजौ

Mahabharata

Karna Parva, Adhyaya 60, Verse 21

पराजिताः पञ्च महारथास्तु ते; महाहवे सूतसुतेन मारिष

निरुद्यमास्तस्थुरमित्रमर्दना; यथेन्द्रियार्थात्मवता पराजिताः

Mahabharata

Karna Parva, Adhyaya 60, Verse 22

निमज्जतस्तानथ कर्णसागरे; विपन्ननावो वणिजो यथार्णवे

उद्दध्रिरे नौभिरिवार्णवाद्रथैः; सुकल्पितैर्द्रौपदिजाः स्वमातुलान्

Mahabharata

Karna Parva, Adhyaya 60, Verse 23

ततः शिनीनामृषभः शितैः शरै;र्निकृत्य कर्णप्रहितानिषून्बहून्

विदार्य कर्णं निशितैरयस्मयै;स्तवात्मजं ज्येष्ठमविध्यदष्टभिः

Mahabharata

Karna Parva, Adhyaya 60, Verse 24

कृपोऽथ भोजश्च तवात्मजस्तथा; स्वयं च कर्णो निशितैरताडयत्

स तैश्चतुर्भिर्युयुधे यदूत्तमो; दिगीश्वरैर्दैत्यपतिर्यथा तथा

Mahabharata

Karna Parva, Adhyaya 60, Verse 25

समानतेनेष्वसनेन कूजता; भृशाततेनामितबाणवर्षिणा

बभूव दुर्धर्षतरः स सात्यकिः; शरन्नभोमध्यगतो यथा रविः

Mahabharata

Karna Parva, Adhyaya 60, Verse 26

पुनः समासाद्य रथान्सुदंशिताः; शिनिप्रवीरं जुगुपुः परंतपाः

समेत्य पाञ्चालरथा महारणे; मरुद्गणाः शक्रमिवारिनिग्रहे

Mahabharata

Karna Parva, Adhyaya 60, Verse 27

ततोऽभवद्युद्धमतीव दारुणं; तवाहितानां तव सैनिकैः सह

रथाश्वमातङ्गविनाशनं तथा; यथा सुराणामसुरैः पुराभवत्

Mahabharata

Karna Parva, Adhyaya 60, Verse 28

रथद्विपा वाजिपदातयोऽपि वा; भ्रमन्ति नानाविधशस्त्रवेष्टिताः

परस्परेणाभिहताश्च चस्खलु;र्विनेदुरार्ता व्यसवोऽपतन्त च

Mahabharata

Karna Parva, Adhyaya 60, Verse 29

तथा गते भीममभीस्तवात्मजः; ससार राजावरजः किरञ्शरैः

तमभ्यधावत्त्वरितो वृकोदरो; महारुरुं सिंह इवाभिपेतिवान्

Mahabharata

Karna Parva, Adhyaya 60, Verse 30

ततस्तयोर्युद्धमतीतमानुषं; प्रदीव्यतोः प्राणदुरोदरेऽभवत्

परस्परेणाभिनिविष्टरोषयो;रुदग्रयोः शम्बरशक्रयोर्यथा