Mahabharata

Karna Parva, Adhyaya 59

Containing 45 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Karna Parva, Adhyaya 59, Verse 1

तं तु यान्तं महावेगैरश्वैः कपिवरध्वजम्

युद्धायाभ्यद्रवन्वीराः कुरूणां नवती रथाः

परिवव्रुर्नरव्याघ्रा नरव्याघ्रं रणेऽर्जुनम्

Mahabharata

Karna Parva, Adhyaya 59, Verse 2

कृष्णः श्वेतान्महावेगानश्वान्कनकभूषणान्

मुक्ताजालप्रतिच्छन्नान्प्रैषीत्कर्णरथं प्रति

Mahabharata

Karna Parva, Adhyaya 59, Verse 3

ततः कर्णरथं यान्तमरीन्घ्नन्तं धनंजयम्

बाणवर्षैरभिघ्नन्तः संशप्तकरथा ययुः

Mahabharata

Karna Parva, Adhyaya 59, Verse 4

त्वरमाणांस्तु तान्सर्वान्ससूतेष्वसनध्वजान्

जघान नवतिं वीरानर्जुनो निशितैः शरैः

Mahabharata

Karna Parva, Adhyaya 59, Verse 5

तेऽपतन्त हता बाणैर्नानारूपैः किरीटिना

सविमाना यथा सिद्धाः स्वर्गात्पुण्यक्षये तथा

Mahabharata

Karna Parva, Adhyaya 59, Verse 6

ततः सरथनागाश्वाः कुरवः कुरुसत्तम

निर्भया भरतश्रेष्ठमभ्यवर्तन्त फल्गुनम्

Mahabharata

Karna Parva, Adhyaya 59, Verse 7

तदायस्तममुक्तास्त्रमुदीर्णवरवारणम्

पुत्राणां ते महत्सैन्यं समरौत्सीद्धनंजयः

Mahabharata

Karna Parva, Adhyaya 59, Verse 8

शक्त्यृष्टितोमरप्रासैर्गदानिस्त्रिंशसायकैः

प्राच्छादयन्महेष्वासाः कुरवः कुरुनन्दनम्

Mahabharata

Karna Parva, Adhyaya 59, Verse 9

तां कुरूणां प्रविततां शस्त्रवृष्टिं समुद्यताम्

व्यधमत्पाण्डवो बाणैस्तमः सूर्य इवांशुभिः

Mahabharata

Karna Parva, Adhyaya 59, Verse 10

ततो म्लेच्छाः स्थितैर्मत्तैस्त्रयोदशशतैर्गजैः

पार्श्वतोऽभ्यहनन्पार्थं तव पुत्रस्य शासनात्

Mahabharata

Karna Parva, Adhyaya 59, Verse 11

कर्णिनालीकनाराचैस्तोमरैः प्रासशक्तिभिः

कम्पनैर्भिण्डिपालैश्च रथस्थं पार्थमार्दयन्

Mahabharata

Karna Parva, Adhyaya 59, Verse 12

तामस्त्रवृष्टिं प्रहितां द्विपस्थैर्यवनैः स्मयन्

चिच्छेद निशितैर्भल्लैरर्धचन्द्रैश्च फल्गुनः

Mahabharata

Karna Parva, Adhyaya 59, Verse 13

अथ तान्द्विरदान्सर्वान्नानालिङ्गैर्महाशरैः

सपताकान्सहारोहान्गिरीन्वज्रैरिवाभिनत्

Mahabharata

Karna Parva, Adhyaya 59, Verse 14

ते हेमपुङ्खैरिषुभिराचिता हेममालिनः

हताः पेतुर्महानागाः साग्निज्वाला इवाद्रयः

Mahabharata

Karna Parva, Adhyaya 59, Verse 15

ततो गाण्डीवनिर्घोषो महानासीद्विशां पते

स्तनतां कूजतां चैव मनुष्यगजवाजिनाम्

Mahabharata

Karna Parva, Adhyaya 59, Verse 16

कुञ्जराश्च हता राजन्प्राद्रवंस्ते समन्ततः

अश्वाश्च पर्यधावन्त हतारोहा दिशो दश

Mahabharata

Karna Parva, Adhyaya 59, Verse 17

रथा हीना महाराज रथिभिर्वाजिभिस्तथा

गन्धर्वनगराकारा दृश्यन्ते स्म सहस्रशः

Mahabharata

Karna Parva, Adhyaya 59, Verse 18

अश्वारोहा महाराज धावमानास्ततस्ततः

तत्र तत्रैव दृश्यन्ते पतिताः पार्थसायकैः

Mahabharata

Karna Parva, Adhyaya 59, Verse 19

तस्मिन्क्षणे पाण्डवस्य बाह्वोर्बलमदृश्यत

यत्सादिनो वारणांश्च रथांश्चैकोऽजयद्युधि

Mahabharata

Karna Parva, Adhyaya 59, Verse 20

ततस्त्र्यङ्गेण महता बलेन भरतर्षभ

दृष्ट्वा परिवृतं राजन्भीमसेनः किरीटिनम्

Mahabharata

Karna Parva, Adhyaya 59, Verse 21

हतावशेषानुत्सृज्य त्वदीयान्कतिचिद्रथान्

जवेनाभ्यद्रवद्राजन्धनंजयरथं प्रति

Mahabharata

Karna Parva, Adhyaya 59, Verse 22

ततस्तत्प्राद्रवत्सैन्यं हतभूयिष्ठमातुरम्

दृष्ट्वा यदर्जुनं भीमो जगाम भ्रातरं प्रति

Mahabharata

Karna Parva, Adhyaya 59, Verse 23

हतावशिष्टांस्तुरगानर्जुनेन महाजवान्

भीमो व्यधमदभ्रान्तो गदापाणिर्महाहवे

Mahabharata

Karna Parva, Adhyaya 59, Verse 24

कालरात्रिमिवात्युग्रां नरनागाश्वभोजनाम्

प्राकाराट्टपुरद्वारदारणीमतिदारुणाम्

Mahabharata

Karna Parva, Adhyaya 59, Verse 25

ततो गदां नृनागाश्वेष्वाशु भीमो व्यवासृजत्

सा जघान बहूनश्वानश्वारोहांश्च मारिष

Mahabharata

Karna Parva, Adhyaya 59, Verse 26

कांस्यायसतनुत्रांस्तान्नरानश्वांश्च पाण्डवः

पोथयामास गदया सशब्दं तेऽपतन्हताः

Mahabharata

Karna Parva, Adhyaya 59, Verse 27

हत्वा तु तद्गजानीकं भीमसेनो महाबलः

पुनः स्वरथमास्थाय पृष्ठतोऽर्जुनमन्वगात्

Mahabharata

Karna Parva, Adhyaya 59, Verse 28

हतं पराङ्मुखप्रायं निरुत्साहं परं बलम्

व्यालम्बत महाराज प्रायशः शस्त्रवेष्टितम्

Mahabharata

Karna Parva, Adhyaya 59, Verse 29

विलम्बमानं तत्सैन्यमप्रगल्भमवस्थितम्

दृष्ट्वा प्राच्छादयद्बाणैरर्जुनः प्राणतापनैः

Mahabharata

Karna Parva, Adhyaya 59, Verse 30

ततः कुरूणामभवदार्तनादो महामृधे

रथाश्वनागासुहरैर्वध्यतामर्जुनेषुभिः