Karna Parva, Adhyaya 58, Verse 1
राजन्कुरूणां प्रवरैर्बलैर्भीममभिद्रुतम्
मज्जन्तमिव कौन्तेयमुज्जिहीर्षुर्धनंजयः
Containing 28 sacred Sanskrit shlokas with multi-author commentaries and translations.
राजन्कुरूणां प्रवरैर्बलैर्भीममभिद्रुतम्
मज्जन्तमिव कौन्तेयमुज्जिहीर्षुर्धनंजयः
विमृद्य सूतपुत्रस्य सेनां भारत सायकैः
प्राहिणोन्मृत्युलोकाय परवीरान्धनंजयः
ततोऽस्याम्बरमावृत्य शरजालानि भागशः
अदृश्यन्त तथान्ये च निघ्नन्तस्तव वाहिनीम्
स पक्षिसंघाचरितमाकाशं पूरयञ्शरैः
धनंजयो महाराज कुरूणामन्तकोऽभवत्
ततो भल्लैः क्षुरप्रैश्च नाराचैर्निर्मलैरपि
गात्राणि प्राक्षिणोत्पार्थः शिरांसि च चकर्त ह
छिन्नगात्रैर्विकवचैर्विशिरस्कैः समन्ततः
पतितैश्च पतद्भिश्च योधैरासीत्समावृतम्
धनंजयशराभ्यस्तैः स्यन्दनाश्वनरद्विपैः
रणभूमिरभूद्राजन्महावैतरणी यथा
ईषाचक्राक्षभङ्गैश्च व्यश्वैः साश्वैश्च युध्यताम्
ससूतैर्हतसूतैश्च रथैः स्तीर्णाभवन्मही
सुवर्णवर्मसंनाहैर्योधैः कनकभूषणैः
आस्थिताः कृतवर्माणो भद्रा नित्यमदा द्विपाः
क्रुद्धाः क्रुद्धैर्महामात्रैः प्रेषितार्जुनमभ्ययुः
चतुःशताः शरवर्षैर्हताः पेतुः किरीटिना
पर्यस्तानीव शृङ्गाणि ससत्त्वानि महागिरेः
धनंजयशराभ्यस्तैः स्तीर्णा भूर्वरवारणैः
अभिपेदेऽर्जुनरथो घनान्भिन्दन्निवांशुमान्
हतैर्गजमनुष्याश्वैर्भग्नैश्च बहुधा रथैः
विशस्त्रपत्रकवचैर्युद्धशौण्डैर्गतासुभिः
अपविद्धायुधैर्मार्गः स्तीर्णोऽभूत्फल्गुनेन वै
व्यस्फूर्जयच्च गाण्डीवं सुमहद्भैरवस्वनम्
घोरो वज्रविनिष्पेषः स्तनयित्नोरिवाम्बरे
ततः प्रादीर्यत चमूर्धनंजयशराहता
महावातसमाविद्धा महानौरिव सागरे
नानारूपाः प्रहरणाः शरा गाण्डीवचोदिताः
अलातोल्काशनिप्रख्यास्तव सैन्यं विनिर्दहन्
महागिरौ वेणुवनं निशि प्रज्वलितं यथा
तथा तव महत्सैन्यं प्रास्फुरच्छरपीडितम्
संपिष्टदग्धविध्वस्तं तव सैन्यं किरीटिना
हतं प्रविहतं बाणैः सर्वतः प्रद्रुतं दिशः
महावने मृगगणा दावाग्निग्रसिता यथा
कुरवः पर्यवर्तन्त निर्दग्धाः सव्यसाचिना
उत्सृज्य हि महाबाहुं भीमसेनं तदा रणे
बलं कुरूणामुद्विग्नं सर्वमासीत्पराङ्मुखम्
ततः कुरुषु भग्नेषु बीभत्सुरपराजितः
भीमसेनं समासाद्य मुहूर्तं सोऽभ्यवर्तत
समागम्य स भीमेन मन्त्रयित्वा च फल्गुनः
विशल्यमरुजं चास्मै कथयित्वा युधिष्ठिरम्
भीमसेनाभ्यनुज्ञातस्ततः प्रायाद्धनंजयः
नादयन्रथघोषेण पृथिवीं द्यां च भारत
ततः परिवृतो भीमैर्दशभिः शत्रुपुंगवैः
दुःशासनादवरजैस्तव पुत्रैर्धनंजयः
ते तमभ्यर्दयन्बाणैरुल्काभिरिव कुञ्जरम्
आततेष्वसनाः क्रूरा नृत्यन्त इव भारत
अपसव्यांस्तु तांश्चक्रे रथेन मधुसूदनः
ततस्ते प्राद्रवञ्शूराः पराङ्मुखरथेऽर्जुने
तेषामापततां केतून्रथांश्चापानि सायकान्
नाराचैरर्धचन्द्रैश्च क्षिप्रं पार्थो न्यपातयत्
अथान्यैर्दशभिर्भल्लैः शिरांस्येषां न्यपातयत्
रोषसंरक्तनेत्राणि संदष्टौष्ठानि भूतले
तानि वक्त्राणि विबभुर्व्योम्नि तारागणा इव
तांस्तु भल्लैर्महावेगैर्दशभिर्दश कौरवान्
रुक्माङ्गदान्रुक्मपुङ्खैर्विद्ध्वा प्रायादमित्रहा