Mahabharata

Karna Parva, Adhyaya 57

Containing 69 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Karna Parva, Adhyaya 57, Verse 1

अर्जुनस्तु महाराज कृत्वा सैन्यं पृथग्विधम्

सूतपुत्रं सुसंरब्धं दृष्ट्वा चैव महारणे

Mahabharata

Karna Parva, Adhyaya 57, Verse 2

शोणितोदां महीं कृत्वा मांसमज्जास्थिवाहिनीम्

वासुदेवमिदं वाक्यमब्रवीत्पुरुषर्षभ

Mahabharata

Karna Parva, Adhyaya 57, Verse 3

एष केतू रणे कृष्ण सूतपुत्रस्य दृश्यते

भीमसेनादयश्चैते योधयन्ति महारथान्

एते द्रवन्ति पाञ्चालाः कर्णात्त्रस्ता जनार्दन

Mahabharata

Karna Parva, Adhyaya 57, Verse 4

एष दुर्योधनो राजा श्वेतच्छत्रेण भास्वता

कर्णेन भग्नान्पाञ्चालान्द्रावयन्बहु शोभते

Mahabharata

Karna Parva, Adhyaya 57, Verse 5

कृपश्च कृतवर्मा च द्रौणिश्चैव महाबलः

एते रक्षन्ति राजानं सूतपुत्रेण रक्षिताः

अवध्यमानास्तेऽस्माभिर्घातयिष्यन्ति सोमकान्

Mahabharata

Karna Parva, Adhyaya 57, Verse 6

एष शल्यो रथोपस्थे रश्मिसंचारकोविदः

सूतपुत्ररथं कृष्ण वाहयन्बहु शोभते

Mahabharata

Karna Parva, Adhyaya 57, Verse 7

तत्र मे बुद्धिरुत्पन्ना वाहयात्र महारथम्

नाहत्वा समरे कर्णं निवर्तिष्ये कथंचन

Mahabharata

Karna Parva, Adhyaya 57, Verse 8

राधेयोऽप्यन्यथा पार्थान्सृञ्जयांश्च महारथान्

निःशेषान्समरे कुर्यात्पश्यतोर्नौ जनार्दन

Mahabharata

Karna Parva, Adhyaya 57, Verse 9

ततः प्रायाद्रथेनाशु केशवस्तव वाहिनीम्

कर्णं प्रति महेष्वासं द्वैरथे सव्यसाचिना

Mahabharata

Karna Parva, Adhyaya 57, Verse 10

प्रयातश्च महाबाहुः पाण्डवानुज्ञया हरिः

आश्वासयन्रथेनैव पाण्डुसैन्यानि सर्वशः

Mahabharata

Karna Parva, Adhyaya 57, Verse 11

रथघोषः स संग्रामे पाण्डवेयस्य संबभौ

वासवाशनितुल्यस्य महौघस्येव मारिष

Mahabharata

Karna Parva, Adhyaya 57, Verse 12

महता रथघोषेण पाण्डवः सत्यविक्रमः

अभ्ययादप्रमेयात्मा विजयस्तव वाहिनीम्

Mahabharata

Karna Parva, Adhyaya 57, Verse 13

तमायान्तं समीक्ष्यैव श्वेताश्वं कृष्णसारथिम्

मद्रराजोऽब्रवीत्कर्णं केतुं दृष्ट्वा महात्मनः

Mahabharata

Karna Parva, Adhyaya 57, Verse 14

अयं स रथ आयाति श्वेताश्वः कृष्णसारथिः

निघ्नन्नमित्रान्समरे यं कर्ण परिपृच्छसि

Mahabharata

Karna Parva, Adhyaya 57, Verse 15

एष तिष्ठति कौन्तेयः संस्पृशन्गाण्डिवं धनुः

तं हनिष्यसि चेदद्य तन्नः श्रेयो भविष्यति

Mahabharata

Karna Parva, Adhyaya 57, Verse 16

एषा विदीर्यते सेना धार्तराष्ट्री समन्ततः

अर्जुनस्य भयात्तूर्णं निघ्नतः शात्रवान्बहून्

Mahabharata

Karna Parva, Adhyaya 57, Verse 17

वर्जयन्सर्वसैन्यानि त्वरते हि धनंजयः

त्वदर्थमिति मन्येऽहं यथास्योदीर्यते वपुः

Mahabharata

Karna Parva, Adhyaya 57, Verse 18

न ह्यवस्थाप्यते पार्थो युयुत्सुः केनचित्सह

त्वामृते क्रोधदीप्तो हि पीड्यमाने वृकोदरे

Mahabharata

Karna Parva, Adhyaya 57, Verse 19

विरथं धर्मराजं च दृष्ट्वा सुदृढविक्षतम्

शिखण्डिनं सात्यकिं च धृष्टद्युम्नं च पार्षतम्

Mahabharata

Karna Parva, Adhyaya 57, Verse 20

द्रौपदेयान्युधामन्युमुत्तमौजसमेव च

नकुलं सहदेवं च भ्रातरौ द्वौ समीक्ष्य च

Mahabharata

Karna Parva, Adhyaya 57, Verse 21

सहसैकरथः पार्थस्त्वामभ्येति परंतप

क्रोधरक्तेक्षणः क्रुद्धो जिघांसुः सर्वधन्विनाम्

Mahabharata

Karna Parva, Adhyaya 57, Verse 22

त्वरितोऽभिपतत्यस्मांस्त्यक्त्वा सैन्यान्यसंशयम्

त्वं कर्ण प्रतियाह्येनं नास्त्यन्यो हि धनुर्धरः

Mahabharata

Karna Parva, Adhyaya 57, Verse 23

न तं पश्यामि लोकेऽस्मिंस्त्वत्तोऽप्यन्यं धनुर्धरम्

अर्जुनं समरे क्रुद्धं यो वेलामिव धारयेत्

Mahabharata

Karna Parva, Adhyaya 57, Verse 24

न चास्य रक्षां पश्यामि पृष्ठतो न च पार्श्वतः

एक एवाभियाति त्वां पश्य साफल्यमात्मनः

Mahabharata

Karna Parva, Adhyaya 57, Verse 25

त्वं हि कृष्णौ रणे शक्तः संसाधयितुमाहवे

तवैष भारो राधेय प्रत्युद्याहि धनंजयम्

Mahabharata

Karna Parva, Adhyaya 57, Verse 26

त्वं कृतो ह्येव भीष्मेण द्रोणद्रौणिकृपैरपि

सव्यसाचिप्रतिरथस्तं निवर्तय पाण्डवम्

Mahabharata

Karna Parva, Adhyaya 57, Verse 27

लेलिहानं यथा सर्पं गर्जन्तमृषभं यथा

लयस्थितं यथा व्याघ्रं जहि कर्ण धनंजयम्

Mahabharata

Karna Parva, Adhyaya 57, Verse 28

एते द्रवन्ति समरे धार्तराष्ट्रा महारथाः

अर्जुनस्य भयात्तूर्णं निरपेक्षा जनाधिपाः

Mahabharata

Karna Parva, Adhyaya 57, Verse 29

द्रवतामथ तेषां तु युधि नान्योऽस्ति मानवः

भयहा यो भवेद्वीर त्वामृते सूतनन्दन

Mahabharata

Karna Parva, Adhyaya 57, Verse 30

एते त्वां कुरवः सर्वे द्वीपमासाद्य संयुगे

विष्ठिताः पुरुषव्याघ्र त्वत्तः शरणकाङ्क्षिणः