Mahabharata

Karna Parva, Adhyaya 56

Containing 58 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Karna Parva, Adhyaya 56, Verse 1

ततो भग्नेषु सैन्येषु भीमसेनेन संयुगे

दुर्योधनोऽब्रवीत्किं नु सौबलो वापि संजय

Mahabharata

Karna Parva, Adhyaya 56, Verse 2

कर्णो वा जयतां श्रेष्ठो योधा वा मामका युधि

कृपो वा कृतवर्मा च द्रौणिर्दुःशासनोऽपि वा

Mahabharata

Karna Parva, Adhyaya 56, Verse 3

अत्यद्भुतमिदं मन्ये पाण्डवेयस्य विक्रमम्

यथाप्रतिज्ञं योधानां राधेयः कृतवानपि

Mahabharata

Karna Parva, Adhyaya 56, Verse 4

कुरूणामपि सर्वेषां कर्णः शत्रुनिषूदनः

शर्म वर्म प्रतिष्ठा च जीविताशा च संजय

Mahabharata

Karna Parva, Adhyaya 56, Verse 5

तत्प्रभग्नं बलं दृष्ट्वा कौन्तेयेनामितौजसा

राधेयानामधिरथः कर्णः किमकरोद्युधि

Mahabharata

Karna Parva, Adhyaya 56, Verse 6

पुत्रा वा मम दुर्धर्षा राजानो वा महारथाः

एतन्मे सर्वमाचक्ष्व कुशलो ह्यसि संजय

Mahabharata

Karna Parva, Adhyaya 56, Verse 7

अपराह्णे महाराज सूतपुत्रः प्रतापवान्

जघान सोमकान्सर्वान्भीमसेनस्य पश्यतः

भीमोऽप्यतिबलः सैन्यं धार्तराष्ट्रं व्यपोथयत्

Mahabharata

Karna Parva, Adhyaya 56, Verse 8

द्राव्यमाणं बलं दृष्ट्वा भीमसेनेन धीमता

यन्तारमब्रवीत्कर्णः पाञ्चालानेव मा वह

Mahabharata

Karna Parva, Adhyaya 56, Verse 9

मद्रराजस्ततः शल्यः श्वेतानश्वान्महाजवान्

प्राहिणोच्चेदिपाञ्चालान्करूषांश्च महाबलः

Mahabharata

Karna Parva, Adhyaya 56, Verse 10

प्रविश्य च स तां सेनां शल्यः परबलार्दनः

न्ययच्छत्तुरगान्हृष्टो यत्र यत्रैच्छदग्रणीः

Mahabharata

Karna Parva, Adhyaya 56, Verse 11

तं रथं मेघसंकाशं वैयाघ्रपरिवारणम्

संदृश्य पाण्डुपाञ्चालास्त्रस्ता आसन्विशां पते

Mahabharata

Karna Parva, Adhyaya 56, Verse 12

ततो रथस्य निनदः प्रादुरासीन्महारणे

पर्जन्यसमनिर्घोषः पर्वतस्येव दीर्यतः

Mahabharata

Karna Parva, Adhyaya 56, Verse 13

ततः शरशतैस्तीक्ष्णैः कर्णोऽप्याकर्णनिःसृतैः

जघान पाण्डवबलं शतशोऽथ सहस्रशः

Mahabharata

Karna Parva, Adhyaya 56, Verse 14

तं तथा समरे कर्म कुर्वाणमतिमानुषम्

परिवव्रुर्महेष्वासाः पाण्डवानां महारथाः

Mahabharata

Karna Parva, Adhyaya 56, Verse 15

तं शिखण्डी च भीमश्च धृष्टद्युम्नश्च पार्षतः

नकुलः सहदेवश्च द्रौपदेयाः ससात्यकाः

परिवव्रुर्जिघांसन्तो राधेयं शरवृष्टिभिः

Mahabharata

Karna Parva, Adhyaya 56, Verse 16

सात्यकिस्तु ततः कर्णं विंशत्या निशितैः शरैः

अताडयद्रणे शूरो जत्रुदेशे नरोत्तमः

Mahabharata

Karna Parva, Adhyaya 56, Verse 17

शिखण्डी पञ्चविंशत्या धृष्टद्युम्नश्च पञ्चभिः

द्रौपदेयाश्चतुःषष्ट्या सहदेवश्च सप्तभिः

नकुलश्च शतेनाजौ कर्णं विव्याध सायकैः

Mahabharata

Karna Parva, Adhyaya 56, Verse 18

भीमसेनस्तु राधेयं नवत्या नतपर्वणाम्

विव्याध समरे क्रुद्धो जत्रुदेशे महाबलः

Mahabharata

Karna Parva, Adhyaya 56, Verse 19

ततः प्रहस्याधिरथिर्विक्षिपन्धनुरुत्तमम्

मुमोच निशितान्बाणान्पीडयन्सुमहाबलः

तान्प्रत्यविध्यद्राधेयः पञ्चभिः पञ्चभिः शरैः

Mahabharata

Karna Parva, Adhyaya 56, Verse 20

सात्यकेस्तु धनुश्छित्त्वा ध्वजं च पुरुषर्षभः

अथैनं नवभिर्बाणैराजघान स्तनान्तरे

Mahabharata

Karna Parva, Adhyaya 56, Verse 21

भीमसेनस्तु तं क्रुद्धो विव्याध त्रिंशता शरैः

सारथिं च त्रिभिर्बाणैराजघान परंतपः

Mahabharata

Karna Parva, Adhyaya 56, Verse 22

विरथान्द्रौपदेयांश्च चकार पुरुषर्षभः

अक्ष्णोर्निमेषमात्रेण तदद्भुतमिवाभवत्

Mahabharata

Karna Parva, Adhyaya 56, Verse 23

विमुखीकृत्य तान्सर्वाञ्शरैः संनतपर्वभिः

पाञ्चालानहनच्छूरश्चेदीनां च महारथान्

Mahabharata

Karna Parva, Adhyaya 56, Verse 24

ते वध्यमानाः समरे चेदिमत्स्या विशां पते

कर्णमेकमभिद्रुत्य शरसंघैः समार्दयन्

ताञ्जघान शितैर्बाणैः सूतपुत्रो महारथः

Mahabharata

Karna Parva, Adhyaya 56, Verse 25

एतदत्यद्भुतं कर्णे दृष्टवानस्मि भारत

यदेकः समरे शूरान्सूतपुत्रः प्रतापवान्

Mahabharata

Karna Parva, Adhyaya 56, Verse 26

यतमानान्परं शक्त्यायोधयत्तांश्च धन्विनः

पाण्डवेयान्महाराज शरैर्वारितवान्रणे

Mahabharata

Karna Parva, Adhyaya 56, Verse 27

तत्र भारत कर्णस्य लाघवेन महात्मनः

तुतुषुर्देवताः सर्वाः सिद्धाश्च परमर्षयः

Mahabharata

Karna Parva, Adhyaya 56, Verse 28

अपूजयन्महेष्वासा धार्तराष्ट्रा नरोत्तमम्

कर्णं रथवरश्रेष्ठं श्रेष्ठं सर्वधनुष्मताम्

Mahabharata

Karna Parva, Adhyaya 56, Verse 29

ततः कर्णो महाराज ददाह रिपुवाहिनीम्

कक्षमिद्धो यथा वह्निर्निदाघे ज्वलितो महान्

Mahabharata

Karna Parva, Adhyaya 56, Verse 30

ते वध्यमानाः कर्णेन पाण्डवेयास्ततस्ततः

प्राद्रवन्त रणे भीताः कर्णं दृष्ट्वा महाबलम्