Mahabharata

Karna Parva, Adhyaya 55

Containing 73 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Karna Parva, Adhyaya 55, Verse 1

श्रुत्वा च रथनिर्घोषं सिंहनादं च संयुगे

अर्जुनः प्राह गोविन्दं शीघ्रं चोदय वाजिनः

Mahabharata

Karna Parva, Adhyaya 55, Verse 2

अर्जुनस्य वचः श्रुत्वा गोविन्दोऽर्जुनमब्रवीत्

एष गच्छामि सुक्षिप्रं यत्र भीमो व्यवस्थितः

Mahabharata

Karna Parva, Adhyaya 55, Verse 3

आयान्तमश्वैर्हिमशङ्खवर्णैः; सुवर्णमुक्तामणिजालनद्धैः

जम्भं जिघांसुं प्रगृहीतवज्रं; जयाय देवेन्द्रमिवोग्रमन्युम्

Mahabharata

Karna Parva, Adhyaya 55, Verse 4

रथाश्वमातङ्गपदातिसंघा; बाणस्वनैर्नेमिखुरस्वनैश्च

संनादयन्तो वसुधां दिशश्च; क्रुद्धा नृसिंहा जयमभ्युदीयुः

Mahabharata

Karna Parva, Adhyaya 55, Verse 5

तेषां च पार्थस्य महत्तदासी;द्देहासुपाप्मक्षपणं सुयुद्धम्

त्रैलोक्यहेतोरसुरैर्यथासी;द्देवस्य विष्णोर्जयतां वरस्य

Mahabharata

Karna Parva, Adhyaya 55, Verse 6

तैरस्तमुच्चावचमायुधौघ;मेकः प्रचिच्छेद किरीटमाली

क्षुरार्धचन्द्रैर्निशितैश्च बाणैः; शिरांसि तेषां बहुधा च बाहून्

Mahabharata

Karna Parva, Adhyaya 55, Verse 7

छत्राणि वालव्यजनानि केतू;नश्वान्रथान्पत्तिगणान्द्विपांश्च

ते पेतुरुर्व्यां बहुधा विरूपा; वातप्रभग्नानि यथा वनानि

Mahabharata

Karna Parva, Adhyaya 55, Verse 8

सुवर्णजालावतता महागजाः; सवैजयन्तीध्वजयोधकल्पिताः

सुवर्णपुङ्खैरिषुभिः समाचिता;श्चकाशिरे प्रज्वलिता यथाचलाः

Mahabharata

Karna Parva, Adhyaya 55, Verse 9

विदार्य नागांश्च रथांश्च वाजिनः; शरोत्तमैर्वासववज्रसंनिभैः

द्रुतं ययौ कर्णजिघांसया तथा; यथा मरुत्वान्बलभेदने पुरा

Mahabharata

Karna Parva, Adhyaya 55, Verse 10

ततः स पुरुषव्याघ्रः सूतसैन्यमरिंदम

प्रविवेश महाबाहुर्मकरः सागरं यथा

Mahabharata

Karna Parva, Adhyaya 55, Verse 11

तं दृष्ट्वा तावका राजन्रथपत्तिसमन्विताः

गजाश्वसादिबहुलाः पाण्डवं समुपाद्रवन्

Mahabharata

Karna Parva, Adhyaya 55, Verse 12

तत्राभिद्रवतां पार्थमारावः सुमहानभूत्

सागरस्येव मत्तस्य यथा स्यात्सलिलस्वनः

Mahabharata

Karna Parva, Adhyaya 55, Verse 13

ते तु तं पुरुषव्याघ्रं व्याघ्रा इव महारथाः

अभ्यद्रवन्त संग्रामे त्यक्त्वा प्राणकृतं भयम्

Mahabharata

Karna Parva, Adhyaya 55, Verse 14

तेषामापततां तत्र शरवर्षाणि मुञ्चताम्

अर्जुनो व्यधमत्सैन्यं महावातो घनानिव

Mahabharata

Karna Parva, Adhyaya 55, Verse 15

तेऽर्जुनं सहिता भूत्वा रथवंशैः प्रहारिणः

अभियाय महेष्वासा विव्यधुर्निशितैः शरैः

Mahabharata

Karna Parva, Adhyaya 55, Verse 16

ततोऽर्जुनः सहस्राणि रथवारणवाजिनाम्

प्रेषयामास विशिखैर्यमस्य सदनं प्रति

Mahabharata

Karna Parva, Adhyaya 55, Verse 17

ते वध्यमानाः समरे पार्थचापच्युतैः शरैः

तत्र तत्र स्म लीयन्ते भये जाते महारथाः

Mahabharata

Karna Parva, Adhyaya 55, Verse 18

तेषां चतुःशतान्वीरान्यतमानान्महारथान्

अर्जुनो निशितैर्बाणैरनयद्यमसादनम्

Mahabharata

Karna Parva, Adhyaya 55, Verse 19

ते वध्यमानाः समरे नानालिङ्गैः शितैः शरैः

अर्जुनं समभित्यज्य दुद्रुवुर्वै दिशो भयात्

Mahabharata

Karna Parva, Adhyaya 55, Verse 20

तेषां शब्दो महानासीद्द्रवतां वाहिनीमुखे

महौघस्येव भद्रं ते गिरिमासाद्य दीर्यतः

Mahabharata

Karna Parva, Adhyaya 55, Verse 21

तां तु सेनां भृशं विद्ध्वा द्रावयित्वार्जुनः शरैः

प्रायादभिमुखः पार्थः सूतानीकानि मारिष

Mahabharata

Karna Parva, Adhyaya 55, Verse 22

तस्य शब्दो महानासीत्परानभिमुखस्य वै

गरुडस्येव पततः पन्नगार्थे यथा पुरा

Mahabharata

Karna Parva, Adhyaya 55, Verse 23

तं तु शब्दमभिश्रुत्य भीमसेनो महाबलः

बभूव परमप्रीतः पार्थदर्शनलालसः

Mahabharata

Karna Parva, Adhyaya 55, Verse 24

श्रुत्वैव पार्थमायान्तं भीमसेनः प्रतापवान्

त्यक्त्वा प्राणान्महाराज सेनां तव ममर्द ह

Mahabharata

Karna Parva, Adhyaya 55, Verse 25

स वायुवेगप्रतिमो वायुवेगसमो जवे

वायुवद्व्यचरद्भीमो वायुपुत्रः प्रतापवान्

Mahabharata

Karna Parva, Adhyaya 55, Verse 26

तेनार्द्यमाना राजेन्द्र सेना तव विशां पते

व्यभ्राम्यत महाराज भिन्ना नौरिव सागरे

Mahabharata

Karna Parva, Adhyaya 55, Verse 27

तां तु सेनां तदा भीमो दर्शयन्पाणिलाघवम्

शरैरवचकर्तोग्रैः प्रेषयिष्यन्यमक्षयम्

Mahabharata

Karna Parva, Adhyaya 55, Verse 28

तत्र भारत भीमस्य बलं दृष्ट्वातिमानुषम्

व्यत्रस्यन्त रणे योधाः कालस्येव युगक्षये

Mahabharata

Karna Parva, Adhyaya 55, Verse 29

तथार्दितान्भीमबलान्भीमसेनेन भारत

दृष्ट्वा दुर्योधनो राजा इदं वचनमब्रवीत्

Mahabharata

Karna Parva, Adhyaya 55, Verse 30

सैनिकान्स महेष्वासो योधांश्च भरतर्षभ

समादिशद्रणे सर्वान्हत भीममिति स्म ह

तस्मिन्हते हतं मन्ये सर्वसैन्यमशेषतः