Mahabharata

Karna Parva, Adhyaya 53

Containing 14 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Karna Parva, Adhyaya 53, Verse 1

तेषामनीकानि बृहद्ध्वजानि; रणे समृद्धानि समागतानि

गर्जन्ति भेरीनिनदोन्मुखानि; मेघैर्यथा मेघगणास्तपान्ते

Mahabharata

Karna Parva, Adhyaya 53, Verse 2

महागजाभ्राकुलमस्त्रतोयं; वादित्रनेमीतलशब्दवच्च

हिरण्यचित्रायुधवैद्युतं च; महारथैरावृतशब्दवच्च

Mahabharata

Karna Parva, Adhyaya 53, Verse 3

तद्भीमवेगं रुधिरौघवाहि; खड्गाकुलं क्षत्रियजीववाहि

अनार्तवं क्रूरमनिष्टवर्षं; बभूव तत्संहरणं प्रजानाम्

Mahabharata

Karna Parva, Adhyaya 53, Verse 4

रथान्ससूतान्सहयान्गजांश्च; सर्वानरीन्मृत्युवशं शरौघैः

निन्ये हयांश्चैव तथा ससादी;न्पदातिसंघांश्च तथैव पार्थः

Mahabharata

Karna Parva, Adhyaya 53, Verse 5

कृपः शिखण्डी च रणे समेतौ; दुर्योधनं सात्यकिरभ्यगच्छत

श्रुतश्रवा द्रोणसुतेन सार्धं; युधामन्युश्चित्रसेनेन चापि

Mahabharata

Karna Parva, Adhyaya 53, Verse 6

कर्णस्य पुत्रस्तु रथी सुषेणं; समागतः सृञ्जयांश्चोत्तमौजाः

गान्धारराजं सहदेवः क्षुधार्तो; महर्षभं सिंह इवाभ्यधावत्

Mahabharata

Karna Parva, Adhyaya 53, Verse 7

शतानीको नाकुलिः कर्णपुत्रं; युवा युवानं वृषसेनं शरौघैः

समार्दयत्कर्णसुतश्च वीरः; पाञ्चालेयं शरवर्षैरनेकैः

Mahabharata

Karna Parva, Adhyaya 53, Verse 8

रथर्षभः कृतवर्माणमार्च्छ;न्माद्रीपुत्रो नकुलश्चित्रयोधी

पाञ्चालानामधिपो याज्ञसेनिः; सेनापतिं कर्णमार्च्छत्ससैन्यम्

Mahabharata

Karna Parva, Adhyaya 53, Verse 9

दुःशासनो भारत भारती च; संशप्तकानां पृतना समृद्धा

भीमं रणे शस्त्रभृतां वरिष्ठं; तदा समार्च्छत्तमसह्यवेगम्

Mahabharata

Karna Parva, Adhyaya 53, Verse 10

कर्णात्मजं तत्र जघान शूर;स्तथाच्छिनच्चोत्तमौजाः प्रसह्य

तस्योत्तमाङ्गं निपपात भूमौ; निनादयद्गां निनदेन खं च

Mahabharata

Karna Parva, Adhyaya 53, Verse 11

सुषेणशीर्षं पतितं पृथिव्यां; विलोक्य कर्णोऽथ तदार्तरूपः

क्रोधाद्धयांस्तस्य रथं ध्वजं च; बाणैः सुधारैर्निशितैर्न्यकृन्तत्

Mahabharata

Karna Parva, Adhyaya 53, Verse 12

स तूत्तमौजा निशितैः पृषत्कै;र्विव्याध खड्गेन च भास्वरेण

पार्ष्णिं हयांश्चैव कृपस्य हत्वा; शिखण्डिवाहं स ततोऽभ्यरोहत्

Mahabharata

Karna Parva, Adhyaya 53, Verse 13

कृपं तु दृष्ट्वा विरथं रथस्थो; नैच्छच्छरैस्ताडयितुं शिखण्डी

तं द्रौणिरावार्य रथं कृपं स्म; समुज्जह्रे पङ्कगतां यथा गाम्

Mahabharata

Karna Parva, Adhyaya 53, Verse 14

हिरण्यवर्मा निशितैः पृषत्कै;स्तवात्मजानामनिलात्मजो वै

अतापयत्सैन्यमतीव भीमः; काले शुचौ मध्यगतो यथार्कः